KARMASU

bhavAnIstuti

Shri Chamundeshvari Mangalam:श्रीचामुण्डेश्वरीमङ्गलम्

श्रीशैलराजतनये चण्डमुण्डनिषूदिनि । मृगेन्द्रवाहने तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १॥ पञ्चविंशति सालाढ्य श्रीचक्रपुरनिवासिनि । बिन्दुपीठस्थिते तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २॥ राजराजेश्वरि श्रीमद्कामेश्वरकुटुम्बिनि । युगनाथ तते तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३॥ महाकालि महालक्ष्मि महावाणि मनोन्मणि । योगनिद्रात्मके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ४॥ मन्त्रिणि दण्डिनि मुख्ययोगिनि गणसेविते । भण्डदैत्यहरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ५॥ निशुम्भमहिषाशुम्भेरक्तबीजादिमर्दिनि । महामाये शिवे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ६॥ कालरात्रि महादुर्गे नारायणसहोदरि । विन्ध्याद्रिवासिनि तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ७॥ चन्द्रलेखालसत्पाले श्रीमत्सिंहासनेश्वरि । कामेश्वरि नमस्तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ८॥ प्रपञ्चसृष्टिरक्षादि पञ्चकार्यधुरन्धरे । पञ्चप्रेतासने तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ९॥ मधुकैटभसंहर्त्रि कदम्बवनवासिनि । महेन्द्रवरदे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १०॥ निगमागमसंवेद्ये श्रीदेवि ललिताम्बिके । ओढ्याणपीठगदे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ११॥ पुण्ड्रेक्षुखण्डकोदण्डपुष्पकण्ठलसत्करे । सदाशिवकले तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १२॥ कामेशभक्तमाङ्गल्य श्रीमत्त्रिपुरसुन्दरि । सूर्याग्नीन्दुत्रिलोचनि (नित्यं) चामुण्डायै सुमङ्गलम् ॥ १३॥ चिदग्निकुण्डसम्भूते मूलप्रकृति(स्व)रूपिणि । कन्दर्पदीपके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १४॥ महापद्माटवीमध्ये सदानन्दविहारिणि । पाशाङ्कुशधरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १५॥ सर्वदोषप्रशमनि सर्वसौभाग्यदायिनि । सर्वसिद्धिप्रदे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १६॥ सर्वमन्त्रात्मिके प्राज्ञे सर्वयन्त्रस्वरूपिणि । सर्वतन्त्रात्मिके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १७॥ सर्वप्राणिहृदावासे सर्वशक्तिस्वरूपिणि । सर्वाभिष्टप्रदे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १८॥ वेदमातः महाराज्ञि लक्ष्मि वाणि वसुप्रिये । त्रैलोक्यवन्दिते तुभ्यं चामुण्डायै सुमङ्गलम् ॥ १९॥ ब्रह्मोपेन्द्रसुरेन्द्रादि सम्पूजितपदाम्बुजे । सर्वायुधकरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २०॥ महाविद्यासम्प्रदात्रि संवेद्यनिजवैभवे । सर्वमुद्राकरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २१॥ एकपञ्चाशते पीठे निवासात्मविलासिनि । अपारमहिमे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २२॥ तेजोमयि दयापूर्णे सच्चिदानन्दरूपिणि । सर्ववर्णात्मिके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २३॥ हंसारूढे चतुर्वक्त्रे ब्राह्मीरूपसमन्विते । धूम्राक्षसहन्त्रिके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २४॥ माहेस्वरीस्वरूपे पञ्चास्ये वृषभवाहने । सुग्रीवपञ्चिके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २५॥ मयूरवाहे षट्वक्त्रे कौमारीरूपशोभिते । शक्तियुक्तकरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २६॥ पक्षिराजसमारूढे शङ्खचक्रलसत्करे । वैष्णवीसंज्ञिके तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २७॥ वाराहि महिषारूढे घोररूपसमन्विते । दंष्ट्रायुधधरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २८॥ गजेन्द्रवाहनारुढे इन्द्राणीरूपवासुरे । वज्रायुधकरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ २९॥ चतुर्भुजे सिंहवाहे जटामण्डिलमण्डिते । चण्डिके सुभगे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३०॥ दंष्ट्राकरालवदने सिंहवक्त्रे चतुर्भुजे । नारसिंहि सदा तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३१॥ ज्वलज्जिह्वाकरालास्ये चण्डकोपसमन्विते । ज्वालामालिनि तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३२॥ भृङ्गिणे दर्शितात्मीयप्रभावे परमेश्वरि । नानारूपधरे तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३३॥ गणेशस्कन्दजननि मातङ्गि भुवनेश्वरि । भद्रकालि सदा तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३४॥ अगस्त्याय हयग्रीव प्रकटीकृतवैभवे । अनन्ताख्यसुते तुभ्यं चामुण्डायै सुमङ्गलम् ॥ ३५॥ ॥ इति श्रीचामुण्डेश्वरीमङ्गलं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *