Krishna Giti or Krishna NatakaM of Manaveda Raja: कृष्णगीति अथवा कृष्णनाटकम
Krishna Giti or Krishna NatakaM of Manaveda Raja: कृष्णगीति अथवा कृष्णनाटकम् जगति सुकृतिलोकैर्नन्दितानन्दिताशा कळविरणितवंशीभासमानासमाना ।पशुपयुवतिभोग्या देवतादेवता सा सजलजलदपाळीमेचका मे चकास्तु ॥ १॥प्रेम्णालं लाळ्यमानः सदयमिह सदा नन्दसंज्ञेन पित्रा रामेण ज्यायसा वा विवशमतियशोदाख्यया वा जनन्या ।आदीव्यन् दिव्यगव्या विबुधपारे(परि)वृढो रिष्टदाताघमोक्षं पुष्णन् कृष्णो गुरुर्मे परमपदसमुद्भासको बोभवीतु ॥ २॥सौवर्णाद्भुतभूषणोज्ज्वलवपुः संवीतपीताम्बरो नीलाम्भोदनिभो भुजैधृ(र्धृ)तगदाशङ्खारिपङ्केरुहैः ।भ्राजिष्णुर्गुरुवायुमन्दिरविरोचिष्णुः स विष्णुः स्वयं धृष्णुर्विश्वजनोपतापहरणे काव्यं मम ख्यापयेत् ॥ ३॥((१)वंशी-वेणुः । देवतानामपि देवता । (२)अत्र प्रस्तुतश्लेषेण भगवान् श्रीकृष्णस्तन्नामकः स्वगुरुरपि विवक्षितः ॥ (३)अरि चक्रम् ।)विक्रान्त्याक्रान्तविश्वद्विषत इहगुरोविङ्क्र(र्विक्र)माख्यस्य राज्ञः स्वस्त्री(स्री)यो मानवेदो मुरमथनकथावर्णनालोभनुन्नः ।विष्णोर्वृष्णीश्वरस्य प्रथयति पदरूपेण किञ्चित् कथां तां कान्तां विश्वव्यथान्तामिह विबुधजनाः सन्तु सन्तोषवन्तः ॥ ४॥लक्ष्मीनाथ पुरा सुरासुरमृधे ये कालनेम्यादय- स्त्वत्पिष्टा अपि शिष्टकर्मबलतो दैत्या न मुक्तिं गताः ।तेषां भूरिभरेण भूतलजुषां सा भूतधात्री व्यथा- पात्री वेधसमेत्य वेगत इति प्रोवाच देवावृतम् ॥ ५॥पाटिरागेण गीयते । एकताळेन वाद्यते ।त्रपयालपितुमनीशामपि मांव्वसनभरो हि कथापयतीमांवनितानामिह वचनं परुषंविषहेथा मम रुगाधिकपरुषम् ।(४)नुन्नृः = प्रेरितः । पदरूपेण = गानरूपेण । विश्वव्यथान्तां = सकलदुःखसंहर्त्रीं (५)मृधं = युद्धम् ।पल्लवम् ।नाथ कृपालय परिपालय मांपापनृपालकरचिताधिमिमां (नाथ)निगदितमिदमयि निशमय च विधेशुचमिह मम शमय च शमजलधेवनितावच इति न वचो हेयंमम, किमु गव्यं शकृदिति हेयं (नाथ)स्वशिरो न तु शक्नोति स विनतंपन्नगपतिरुन्नेतुं नियतंकमठाधिपमपि महितं भुवनेन कुशलमयि मन्ये मम वहने (नाथ)कुलशिखरिकुलं खलु बत पतितंसपदि भवेदधिजलनिधि नियतंगतिरसि मम तु चकोरी शरणंकमयति जगति विना हिमकिरणं (नाथ)व्यसनमनोपममुदितमनूनंमम तु मनोगतमधुना नूनंपरममतो नतजगदवनरतेप्रभुरिह तु भवान्ननु भुवनपते (नाथ)(अधिजलधि = समुद्रे । कमयति = कं गच्छति? ।अयेतः – परस्मैपद कविप्रयोगात् । अनोपमं असदृशम् । साधुत्वं चिन्त्यम् ॥)उर्वीं गुर्वीं वहन्तीं विपदमिति वदन्तीं पतन्तीं पदान्ते पश्यन् बाष्पं वमन्तीं त्वयि स कृतमना व्याजहाराधिहारः ।वत्से सर्वंसहे त्वं क्षणसमयमये साध्वि सर्वं सहेथा लक्ष्मीनाथः स साक्षाज्जगदवनकलादीक्षितो रक्षिता नः ॥ ६॥एवं व्याहृत्य शर्वादिकविबुधजनैः साकमुर्व्या च तीरंक्षीराम्भोधेस्तवोरस्थलघृततुळसीसौरभीलोभनीयम् ।गत्वा नत्वा च स त्वामजित पुरुषसूक्तेन भक्त्योपतस्थेयावत्तावत्समाधौ दिवि तव गिरमाकर्ण्य मोदादगादीत् ॥ ७॥हे देवा देवदेवेरितमतिरिदमावेदये दानवारे- र्लीलासाहाय्यहेतोर्जगति यदुकुलं तन्वतो धन्यधन्यम् ।साकं नाकाङ्गनौघैरवतरत जवादेवमादिश्य गोभि- र्गामाश्वास्याप्तगेहो भवदवतरणात्युत्सुकोऽयं न्यवात्सीत् ॥ ८॥त्वत्सान्निध्येन धन्ये पुर इह मधुरानामके देवकीं तांपाणौकृत्याथ शौरिर्व्यचलदतिनृशंसेन कंसेन साकम् ॥आदायाकाशवाण्या क्रुधमपि च कृपाणीं कृपां स्वां त्रपां वाहित्वेमां हन्तुकामं यदुपतिमयमालोक्य वाक्यं बभाषे ॥ ९॥((६)आधिहारः = तापहर्ता ॥ (८)गोभिः = वाग्भिः ॥ (९)पाणौकृत्य = परिणीय ॥)सामन्तमलहरिरागेण गीयते । चम्पताळेन वाद्यते ।अनृशंस ननु कंस वसुधाभृदवतंसकथमिति व्यवसितं बत कृपाकुलमतेत्वयि विदितवेद्ये किमुपदेश्यमन्येनतदपि मे मुखरतां प्रणयिता वितनुते ।पल्लवम् ।वरमते साहसान्ननु विरम नरपतेपरमतेजोनिधे सपदि बत यदुपते (वर)वपुषैव सह मृत्युरिह जायतेऽचिरादतिचिरादपि च वा मृतिरियं सुनियताकिमनित्यतासदननिजतनोरपि च कृतेविदधते परहतिं निजहिते नृप रताः (वर)स्वसृहतेरपि तेन जीवितेन किमु तेनिजनाशनतो यशो वरमिह तु भूतलेउद्य(दय)ति सदा जगन्मदयाते(यति)यशोमय-शशाङ्के कळङ्कोऽय(द्य)नोदयेतामले (वर)(वपुषैव सहेत्यादि “मृत्युर्जन्मवतां वीर देहेन सह जायते ।अद्य वा(?)ब्दशतान्ते वा मृत्यु(त्युर्वै)प्राणिनां ध्रुवः” इति भागवताशयविवरणम् ॥)वनितावधो निखिलकुशलानि नाशये-दिति नीतिमयि फलय न तु विबुधविरचितांबहुमतो बहुशोऽपि विबुधविजयेन तेधर्मपालो ननु परामृशन्न वनितां (वर)दयनयि(नीय)तरजने भवदीयमतिरन्य-रूपैव ननु मनो विमलय विमर्शनान्विपदां हि विवरमविचार इति बुधवचोविस्मृतं किमु विभो विदितमपि दर्शनात् (वर)त्वदधीनमतिदीनमपराधलवहीन(-)ममिताधिभरलीनमतिभीतिभाजनंनिजशिशुजनं विवशमपकरुणमुपयमंनय न(नयनं)पुनरुपयमे बत जातवेपनं (वर)हितमिदं निगदितं शङ्कां न हरति चेत्परमपि मतं परमकरुण शृणु पुनरिदंननु सुतान् दातास्मि यत एव तव भयंनृप रुषं त्यज परुषमयि कुरु हृदुरुमुदं (वर)शौरेस्त्वदाहितमतेः किमु वाक्यभङ्ग्या किं देवकीसुकृतपुञ्जविजृम्भितेन ।कंस्त(कंसस्त)थेति तरसैव तदीयवाच- मूरीचकार च चकार च हन्त चिन्ताम् ॥ १०॥सत्या किमेषा वसुदेववाणी तथ्या किमेषा गगनोत्थवाणी ।कालेन चैतन्निखिलं यथावत् ज्ञायेत तत्सम्प्रति सम्प्रतीक्षे ॥ ११॥एवं विचिन्तयन्नेव विविधं विवशाशयः ।विवेश स पुरं विष्णो विदूषितमनास्त्वया ॥ १२॥भोजाधिपात्स हरिणीं हरिणारिवर्य- पाणिद्वयी महितपञ्जरतो यथा ताम् ।धीमान्विमोच्य तरुणीं कृपणां कृपाण- पाणेर्भवत्प्रहितधीर्गृहमाप शौरिः ॥ १३॥कंसो यथोदितमथो तव तातनीतं तं सोऽवधीन्न कृपया निजभागिनेयम् ।आदाय नन्दनमुदारमना निकेत- मागम्य शौरिरखिलं निजगाद जायाम् ॥ १४॥((१३)हरिणारिः = सिंहः । शौरिर्वसुदेवः ॥)धन्येयं नारीदं वाक्यं श्रुत्वा स्मृत्वा चैतद्वृत्तम् ।विद्युन्मालाभिख्यं पुत्रं दृष्ट्वा चासीत्तुष्टा विष्णो ॥ १५॥तावश्च नारदमुनिर्मधुरापुरी(रीं)ता- मागच्छदाशयमयं भवतो विदित्वा ।कंसं शशंस च नृशंसमलं प्रशंसन् तं सन्निविष्टमतिहृष्टमतिं सभायाम् ॥ १६॥दैतेया यूयमेते यदव इह सुरास्त्वद्वधायैव विष्णुः प्रादुःष्यादेवमुक्तो विदुतयदुकुलः पञ्चतां षट् तनूजान् ।प्राणैषीदेष शौरेर्निभृतमहिपतावाहिते माययाथो रोहिण्यां देवकीं तां त्वमपि समविशो देव हे देवहेतोः ॥ १७॥भैरविरागेण गीयते । एकताळेन वाद्यते ।परिपाण्डुपयोधरभरभासाशरदिव शुशुभे तदनु शुभा सा((१५)अत्र मुद्रालंङ्काररीत्या “धन्येयं नारी”त्यस्य ज्योतिषिक “वाक्या”(?)न्तःपातिता वृत्तस्य विद्युन्मालाभिधेयता च द्योत्यते ॥(१७)प्रादुःष्यात् प्रादुर्भवेत् । विदुतयदुकुलः सन्तापितयादवगणः । अहिपतौ शेषांशभूते बलभद्रे ॥)पल्लवम् ।मञ्जुळदौहृदमन्दिरभूताकथमिव कथनीया तव माता (मञ्जु)कृशतरमुदरं गरिमपरीतंविबुधव्यसनमतो विपरीतं (मञ्जु)स कुचो मलिनमुखोऽतिकठोरोयदुपवदजनि विमुक्ताहारो (मञ्जु)विजहौ सा भरभयतो भूषा-मथ केवलतैवाजनि भूषा (मञ्जु)अदसीयमहो निभृतं हसितंमृदुळं च गतं भृशनिश्वसितं (मञ्जु)अवलोकितुमिव तव लळितमुखंकुचयुगळमभूदथ विनतमुखं (मञ्जु)आशां पाकरिपोः प्रसाधिततमामापादयन्नादरा- दालम्बो विबुधावलेस्त्रिजगतामेकावतंसो हरे ।मन्दम्मन्दमहो वहन् निजतनोरापूर्णतामन्वहं सोऽयं दौहृदपार्वणेन्दुरिह नो कं सप्रमोदं व्यधात् ॥ १८॥(यदुपवत् = कंस इव ॥(१८)कंसस्य प्रमोद न व्यधादेवेति च श्लेषभङ्ग्या प्रतिपाद्यते ॥)भवदेकावलम्बा सा वसुदेवकुडुम्बिनी ।आललम्बे परां शोभां जितदेवनितम्बिनी ॥ १९॥कंसस्त्वापन्नसत्त्वामिह निजसहजां शोकदामेकदा तां त्वत्सान्निध्योत्थतेजःप्रसरभृशपरिध्वस्तनेत्रप्रचाराम् ।निध्यायैवं स दध्यौ किमु कुसृतियुतः कोऽप्यसौ कृष्णसर्पोमत्प्राणैः पारणाय स्वसुरुदरगुहामध्यमद्याध्यवात्सीत् ॥ २०॥मन्नाथायां हतायां स्वसरि च युवतौ धर्मपत्न्यां च शौरे- रन्तर्वत्न्यामकीर्तिर्मम तु सहचरी नूनमाजीवनान्तम् ।हा हन्ताहिंसितायां पुनरिह सहसैवार्भकः कोऽप्यमुष्याः प्रादुर्भूतः करिष्यत्यसुरवरचमूघस्मरो भस्मसान्माम् ॥ २१॥एवं दोळायितात्मा नरपतिरजिघांसाजिघांसाभिभूतः पुत्रं तस्याः प्रसूतं प्रसभमिह निहन्तास्मि हन्तास्मि नूनम् ।इत्थं निश्चित्य दुःस्थाशय इह शयने भोजने सोऽथ याने स्नाने वा संस्मरंस्त्वां प्रतिपुरमवसत्तत्प्रसूतिप्रतीक्षः ॥ २२॥((२०)कृष्णसर्पः = कृष्ण एव सर्पः । तज्जातीयः पन्नगश्च । पारणाय = पारणां कर्तुम् ।प्राणैः पारणायेति प्रयोगश्चिन्त्यः ।(२२)द्वितीयं अस्मीत्यहमर्थेऽव्ययम् ॥)चतुर्मुखमुखा बहिर्मुखाः फुल(ल्ल)मुखाम्बुजाः ।तुष्टुवुस्त्वां तदा तुष्टा निविष्टमुद्रे(दरे)हरे ॥ २३॥मेच्चिद्भोळिरागेण गीयते । एकताळेन वाद्यते ।बोधमयाव्यय लोकहिताय हिभजसे रूपमनन्तंयत्स्मरणादपि भवसागरमिहसपदि तरन्ति दुरन्तंपल्लवम् ।याम इमे शरणं त्वां यदुवरयाम इमे शरणं त्वांत्वयि विमुखानां पतनं सुनियत-मपि सुमहितपदभाजांक्वापि कुतोऽपि न हानिरिहाजिततव सुलळितपदभाजां (याम)त्रिभुवनसाक्षी भजतेऽजित तनु-गुणकृतिमरणभवान्नो((२३)बर्हिर्मुखाः देवाः ॥)तदपि च तान्त्रि(न्नि)जभजनाय भजतिभजतामरण भवान्नो (याम)स्मरणस्मारणनिकथननिशमन-मयि खलु तव तनुनाम्नांजगति वितन्वञ्जनिमृतिमेता-मेति न सुमहितधाम्नां (याम)भवहर तनुते भवपाथोधिंभरिताधिकमहिताधिंगोवत्सपदं त्वयि तु समाधिंविदधद्विहतसमाधिं (याम)मुरहर खलनृपकृतभूभारंव्यवहर सहसोदारंमाधव मान्द्यं ननु तनु(मान्यान्ननु)तनु(न)या नोपरिपालय तरसा नो (याम)नुत्वा नत्वा गते त्वामिति विबुधगणे प्रावृताशा पयोदैः प्रावृट् प्रादुर्बभूव प्रकटरसमुपानीततत्तत्पदार्था ।अत्यासन्नप्रसूतिं सपदि परिचरन्तीव हन्तासहाया- मेनामत्यन्तदीनामिह पुनरनुकूले विधौ को न बन्धुः ॥ २४॥(विह्तसमाधिं = निरस्तसमस्तसन्तापम् ॥)कृष्णाभिख्यं जगत्यां प्रचुरतरतमोवर्धने बद्धदक्षिं(दीक्षं) व्यादीव्यत्पुष्करास्यं भुवनमहितमारात्कृतार्कप्रकाशम् ।जाया शौरेरुदीते शिशिररुचि निशीथे जयन्त्यां भवन्तं प्रादुश्चक्रेऽथ चक्रायुध वियति यथा प्रावृडेषा पयोदम् ॥ २५॥अक्षीणाभं दयार्द्रैर्मृदुहति(सि)तसखैर्वीक्षणैरीक्षमाणं लक्ष्मीनाथं स साक्षात् परमिह पुरुषं लक्ष्यमक्षामपुण्यैः ।त्रैलोक्याधीशमालोक्य च निजतनयं विस्मयस्नेहमोदै- राविष्टात्माथ शौरिः सदयित इति तुष्टाव पुष्टादरं त्वाम् ॥ २६॥कानक्कुर्ञिरागेण गीयते । एकताळेन वाद्यते ।महितशिरोधृतमणिमकुटं वर-तिलकविभासितफालंनतचिल्लीजितवल्लीतति पृथु -नयनजिताम्बुजजालं((२५)कृष्णाभित्र्यं = कृष्णनामधेयं, नीलकान्तिमिति च । तमोवर्धने = तमोगुणनाशने, अन्धकाराधिक्यकरणे च ।पुष्करास्यं पद्ममुखं, जलमुखं च । आरात्, समीपे दूरे च ॥)पल्लवम् ।कथये माधव कथमिव रूपंतव नितरामनुरूपं (कथ)त्रिभुवनबन्धुरगन्धवहं मणि।कुण्डलमण्डितगण्डंअधररुगञ्चितदन्तगणं मुख-निन्दितपङ्कजषण्डं (कथ)निर्मलकौस्तुभकम्रगळं लस-दंसगळितवनमालंवत्सविराजितवत्सतलं वर-हारोदितरुचिजालं (कथ)करधृतदरकमलारिगदं जठ-रोषितभुवनकदम्बंकेसरभासुरनाभितलं कपि-शाम्बरकम्रनितम्बं (कथ)करिवरकरकमनोरुयुगं मृदु-जानुकृताखिललोभं(वत्सतलं = उरस्थलम् । दरः = शङ्खः ।)प्रसृतायुगजितकेकिगळं प्रप-दाघृतकमठविशोभं (कथ)वल्गुरुगाततगुल्फयुगं वर-नूपुरभासुरपादंभङ्गिपदाङ्गुलिपङ्क्तिधरं नख-मणिधृ(घृ)णिधु(धृ)तविधुपादं (कथ)मृदुरेखासखपादतलं पद्-नतमतिशोधिपरागंअमलतमाभतमालनिभं जग-दानन्दननिखिलाङ्गं (कथ)दिव्यमिदं खलु तव रूपं लघुसंहर जगदभिरूपंअयि मामचिरादव कंसादल-मवमादसवतंसात् (कथ)देवकीवसुदेवाभ्यां देव कीर्तिपयोनिधे ।एवमीडित एतौ गामेवमीरितवान् भवान् ॥ २७॥(अवमात् = अधमात् ॥)मातस्तात तपस्यया हि युवयोर्मोमुद्यमानात्मना प्राग्जन्मस्मरणाय मे वपुरिदं दिव्यं मया दर्शितम् ।शश्वद् ब्रह्मधियाथवा सुतधिया मां संस्मरन्तौ युवां क्षिप्रं मत्पदमाप्नुयातममितैः प्राप्यं हि पुण्योत्करैः ॥ २८॥नन्दालये नन्दसुतां प्रसूतांयशोदयादाय यशोदयाब्धे ।निधाय मां तत्र निधे गुणानांनिषीद चात्रार्य विषीद मा त्वम् ॥ २९॥ (वर् मात्रार्य)शिशुतामितवानभिधाय भवा- न्विशदामिति गां पशुपालमणे ।प्रणयादधिकं विधुरौ पितरौ जनितावपि तौ जगती महितौ (जगतीमहितौ)॥ ३०॥विज्ञाय त्वन्मतं त्वां दधदथ गतवान् गोकुलं सूतितल्पे गृढं विन्यस्य चित्तं त्वयि च स तु यशोदाप्रसूतां सुतां ताम् ।धृत्वा विश्लेषपीडामपि सदनमुपेत्यास्त शौरिः पुरेव
Krishna Giti or Krishna NatakaM of Manaveda Raja: कृष्णगीति अथवा कृष्णनाटकम Read More »





KARMASU