KRISHNA MANTRA

Krishnamangalam

AShTashlokI:अष्टश्लोकी

AShTashlokI:अष्टश्लोकी अकारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृत्मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम् ।उकारोऽनन्यर्हं नियमयति सम्बन्धमनयोःत्रयीसारस्त्र्यात्मा प्रणव इममर्थं समदिशत् ॥ १॥मन्त्रब्रह्मणि मध्यमेन नमसा पुंसःस्वरूपङ्गतिःगम्यं शिक्षितमीक्षितेन पुरतःपश्चादपि स्थानतः ।स्वातन्रयं निजरक्षणं समुचिता वृत्तिश्च नान्योचितातस्यैवेति हरेर्विविच्य कथितं स्वस्यापि नार्हं ततः ॥ २॥अकारार्थायैवस्वमहमथ मह्यं न निवहाःनराणां नित्यानामयनमिति नारायणपदम् ।यमाहास्मै कालं सकलमपि सर्वत्र सकला-स्ववस्थास्वाविः स्युर्मम सहजकैङ्कर्यविधयः ॥ ३॥देहासक्तात्मबुद्धिर्यदि भवति पदं साधु विद्यात्तृतीयंस्वातन्त्र्यान्धो यदि स्यात्प्रथममितरशेषत्वधीश्चेद्द्वितीयम् ।आत्मत्राणोन्मुखश्चेन्नम इति च पदं बान्धवाभासलोलःशब्दं नारायणाख्यं विषयचपलधीश्चेच्चतुर्थीं प्रपन्नः ॥ ४॥नेतृत्वं नित्ययोगं समुचितगुणजातं तनुख्यापनञ्चो-पायं कर्त्तव्यभागं त्वथ मिथुनपरं प्राप्यमेवं प्रसिद्धम् ।स्वामित्वं प्रार्थनां च प्रबलतरविरोधिप्रहाणं दशैतान्मन्तारं त्रायते चेत्यधिगतनियमः षट्पदोऽयं द्विखण्डः ॥ ५॥ईशानाञ्जगतामधीशदयितां नित्यानपायां श्रियंसंश्रित्याश्रयणोचिताखिलगुणस्याङ्घ्री हरेराश्रये ।इष्टोपायतया श्रिया च सहितायात्मेश्वरायार्थयेकर्तुं दास्यमशेषमप्रतिहतं नित्यं त्वहं निर्ममः ॥ ६॥मत्प्राप्त्यर्थतया मयोक्तमखिलं सन्त्यज्य धर्मं पुनःमामेकं मदवाप्तये शमणमित्यार्तोऽवसायं कुरु ।त्वामेकं व्यवसाययुक्तमखिलज्ञानादिपूर्णो ह्यहंमत्प्राप्तिप्रतिबन्धकैर्विरहितं कुर्यां शुचं मा कृथाः ॥ ७॥निश्चित्य त्वदधीनतां मयि सदा कर्माद्युपायान् हरेकर्तुं त्यक्तुमपि प्रपत्तुमनलं सीदामि दुःखाकुलः ।एतज्ज्ञानमुपेयुषो मम पुनस्सर्वापराधक्षयंकर्तासीति दृढोऽस्मि ते तु चरमं वाक्यं स्मरन्सारथेः ॥ ८॥शाखानामुपरि स्थितेन मनुना मूलेन लब्धात्मकःसत्ताहेतुसकृज्जपेन सकलं कालं द्वयेन क्षिपन् ।वेदोत्तंसविहारसारथिदयागुम्फेन विस्त्रम्भितःसारज्ञो यदि कश्चिदस्ति भुवने नाथः स यूथस्य नः ॥ ९॥इति अष्टश्लोकी समाप्ता ॥

AShTashlokI:अष्टश्लोकी Read More »

Krishnamangalam

Ashtamahishiyuta Krishna Stotram: अष्टमहिषीयुतकृष्णस्तोत्रम्

Ashtamahishiyuta Krishna Stotram: अष्टमहिषीयुतकृष्णस्तोत्रम् हृद्गुहाश्रितपक्षीन्द्रवल्गुवाक्यैः कृतस्तुते । तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते ॥ १॥ अत्युन्नत्याऽखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित । सत्ययोजित सत्यात्मन् सत्यभामापते नमः ॥ २॥ जाम्बवत्याः कम्बुकण्ठालम्बिजृम्भिकराम्बुज । शम्भुत्र्यम्बकसम्भाव्यं साम्बतात नमोऽस्तु ते ॥ ३॥ नीलाय विलसद्भूषाजालायोज्ज्वलमालिने । लोलालकोद्यत्फालाय कालिन्दीपतये नमः ॥ ४॥ जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे । मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते ॥ ५॥ बालानेत्रोत्सवानन्तलीलालावण्यमूर्तये । नीलाकान्ताय ते भक्तावालायाऽस्तु नमोनमः ॥ ६॥ भद्राय स्वजनाविद्यानिद्राविद्रावणाय वै । रुद्राणीभद्रमूलाय भद्राकान्ताय ते नमः ॥ ७॥ रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे । लक्षणापतये नित्यं भिक्षुश्लाघ्याय ते नमः ॥ ८॥ षोडशस्त्रीसहस्रेशं षोडशातीतमच्युतम् । ईडेत वादिराजोक्तप्रौढस्तोत्रेण सन्ततम् ॥ ९॥ इति श्रीमद्वादिराजयतिकृतं अष्टमहिषीयुतकृष्णस्त्रोत्रं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।

Ashtamahishiyuta Krishna Stotram: अष्टमहिषीयुतकृष्णस्तोत्रम् Read More »

Krishnamangalam

AShTapadI: अष्टपदी

AShTapadI: अष्टपदी (राग भैरव)जयति निजघोषभुवि गोपमणिभूषणम् ।युवतिकलधौतरतिजटितमविदूषणम् ॥ ध्रुवपदम् ॥विकचशरदम्बुरुहरुचिरमुखतोऽनिशम् ।जिघ्रतादमलमधुमदशालिनी भृशम् ॥ १॥तरलदलसापाङ्गविभ्रमभ्रामितम् ।निःस्थिरीभवितुमिच्छतु हृदितकामितम् ॥ २॥मधुरमृदुहासकलिताधरच्युतरसम् ।पिबतु रसनाऽपि मुहुरुदितरतिलालसम् ॥ ३॥अमृतमयशिशिरवचनेषु नवसूत्सुकम् ।श्रवणपुटयुगलमनुभवतु चिरसूत्सुकम् ॥ ४॥विपुलवक्षस्थले स्पर्शरसपूरितम् ।तुङ्गकुचकलशयुगमस्तु मदनेरितम् ॥ ५॥मृदिततमकायदेवद्रुमालम्बिता ।हर्षमतिशयितमुपयातु तनुलता ६॥पुष्परसपुष्टपरपुष्टभृङ्गीमये ।वसतिरपि भवतु मम निभृतकुञ्जालये ॥ ७॥गीतमिदमेवमुरुभावगर्भितपदम् ।रोचयतु कृष्णमिह सरससम्पदम् ॥ ८॥इति श्रीदेवकीनन्दनजीकृताऽष्टपदी समाप्ता ।

AShTapadI: अष्टपदी Read More »

Krishnamangalam

Shri Anuragavallih:श्रीअनुरागवल्लिः

Shri Anuragavallih:श्रीअनुरागवल्लिः Shri Anuragavallih:देहार्बुदानि भगवान्! युगपत्प्रयच्छ वक्त्रार्बुदानि च पुनः प्रतिदेहमेव ।जिह्वार्बुदानि कृपया प्रतिवक्त्रमेव नृत्यन्तु तेषु तव नाथ! गुणार्बुदानि ॥ १॥किमात्मना? यत्र न देहकोट्यो देहेन किं? यत्र न वक्त्रकोट्यः ।वक्त्रेण किं? यत्र न कोटिजिह्वाः किं जिह्वया? यत्र न नामकोट्यः ॥ २॥आत्मास्तु नित्यं शतदेहवर्ती देहस्तु नाथास्तु सहस्रवक्त्रः ।वक्त्रं सदा राजतु लक्षजिह्वं गृह्णातु जिह्वा तव नामकोटिम् ॥ ३॥यदा यदा माधव! यत्र यत्र गायन्ति ये ये तव नामलीलाः ।तत्रैव कर्णायुतधार्यमाणा स्तास्ते सुधा नित्यमहं धयानि ॥ ४॥कर्णायुतस्यैव भवन्तु लक्ष कोट्यो रसज्ञा भगवंस्तदैव ।येनैव लीलाः श‍ृणवानि नित्यं तेनैव गायानि ततः सुखं मे ॥ ५॥कर्णायुतस्येक्षटकोटिरस्या हृत्कोटिरस्या रसनार्बुदं स्तात् ।श्रुत्वैव दृष्ट्वा तव रूपसिन्धु मालिङ्ग्य माधुर्यमहो! धयानि ॥ ६॥नेत्रार्बुदस्यैव भवन्तु कर्ण नासारसज्ञा हृदयार्बुदं वा ।सौन्दर्यसौस्वर्यसुगन्धपूर माधुर्यसंश्लेषरसानुभूत्यै ॥ ७॥त्वत्पार्श्वगत्यै पदकोटिरस्तु सेवां विधातुं मम हस्तकोटिः ।तां शिक्षितुं स्तादपि बुद्धिकोटि रेतान्वरान्मे भगवन्! प्रयच्छ ॥ ८॥इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीअनुरागवल्लिः समाप्ता ।

Shri Anuragavallih:श्रीअनुरागवल्लिः Read More »

Krishnamangalam

श्री अनन्तकृष्णवरदराजाष्टकम्: ShrI Anantakrishnavaradaraja Ashtakam

श्री अनन्तकृष्णवरदराजाष्टकम्: ShrI Anantakrishnavaradaraja Ashtakam श्री-भूमि-नीला-परिसेव्यमान- मनन्तकृष्णं वरदाख्य-विष्णुम् ।अघौघविध्वंसकरं जनानां अघंहरेशं प्रभजे सदाऽहम् ॥ १॥तिष्ठन् स्वधिष्ण्ये परितो विपश्यन् आनन्दयन् स्वानभिराममूर्त्या ।योऽघंहरग्रामजनान् पुनीते ह्यनन्तकृष्णं वरदेशमीडे ॥ २॥भक्तान् जनान् पालनदक्षमेकं विभुं श्रियाऽऽश्लिष्यतनुं महान्तम् ।सुपर्णपक्षोपरिरोचमान- मनन्तकृष्णं वरदेशमीडे ॥ ३॥सूर्यस्य कान्त्या सदृशैर्विराजद्- रत्नैः समालङ्कृतवेषभूषम् ।तमो विनाशाय मुहुर्मुहुस्त्वा- मनन्तकृष्णं वरदेशमीडे ॥ ४॥अनन्तसंसार-समुद्रतार- नौकायितं श्रीपतिमाननाब्जम् ।अनन्तभक्तैः परिदृश्यमान- मनन्तकृष्णं वरदेशमीडे ॥ ५॥नमन्ति देवाः सततं यमेव किरीटिनं गदिनं चक्रिणं तम् ।वैखानसैः सूरिभिरर्चयन्त- मनन्तकृष्णं वरदेशमीडे ॥ ६॥तनोति देवः कृपया वरान् यो चिरायुषं भूतिमनन्यसिद्धिम् ।तं देवदेवं वरदानदक्ष- मनन्तकृष्णं वरदेशमीडे ॥ ७॥कृष्णं नमस्कृत्य महामुनीन्द्राः स्वानन्दतुष्टा विगतान्यवाचः ।तं स्वानुभूत्यै भव-पाद्म-वन्द्य- मनन्तकृष्णं वरदेशमीडे ॥ ८॥अनन्तकृष्णस्य कृपावलोका- दघंहर-ग्रामज-दीक्षितेन ।सुसूक्तिमालां रचितां मनोज्ञां गृह्णातु देवो वरदेश- विष्णुः ॥॥ इति अघंहर-ग्राम-वासिना अनन्तकृष्णवरदराजस्यपार्श्ववर्तिना ब्रह्मश्री रङ्गस्वामि-दीक्षितेन विरचितंअनन्त-कृष्ण-वरदराजाष्टकं सम्पूर्णम् ॥

श्री अनन्तकृष्णवरदराजाष्टकम्: ShrI Anantakrishnavaradaraja Ashtakam Read More »

Krishnamangalam

अद्वैताष्टकम्:Advaitashtakam

अद्वैताष्टकम्:Advaitashtakam Advaitashtakam: हुहुङ्कारगर्जनादि अहोरात्रसद्गुणं हा कृष्ण राधिकानाथ प्रार्थनादिभावनम् ।धूपदीपकस्तुरी च चन्द्रनादिलेपनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ १॥गङ्गावारि मनोहारि तुलस्यादि मञ्जरी कृष्णज्ञानसदाध्यान प्रेमवारिझर्झरी ।कृपाब्धिः करुणानाथ भविष्यति प्रार्थनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ २॥मुहुर्मुहुः कृष्ण कृष्ण उच्चैः स्वरे गायतं अहे नाथ जगत्त्रातः मम दृष्टिगोचरम् ।द्विभुज करुणानाथ दीयतां सुदर्शनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ३॥श्री अद्वैतप्रार्थनार्थ जगन्नाथालयं शचीमातुर्गर्भजात चैतन्यकरुणामयम् ।श्री अद्वैतसङ्गरङ्गकीर्तनविलासनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ४॥अद्वैतचरणारविन्दज्ञानध्यानभावनं सदाद्वैतपादपद्मरेणुराशिधारणम् ।देहि भक्तिं जगन्नाथ रक्ष मामभजनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ५॥सर्वदातः सीतानाथ प्राणेश्वर सद्गुणं ये जपन्ति सीतानाथपादपद्मकेवलम् ।दीयतां करुणानाथ भक्तियोगः तत्क्षणं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ६॥श्री चैतन्य जयाद्वैत नित्यानन्द करुणामयं एक अङ्ग त्रिधामूर्ति कैशोरादि सदा वरम् ।जीवत्राण भक्तिज्ञान हुङ्कारादि गर्जनं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ७॥दीनहीननिन्दकादि प्रेमभक्तिदायकं सर्वदातः सीतानाथ शान्तिपुरनायकम् ।रागरङ्गसङ्गदोषकर्मयोगमोक्षणं सीतानाथाद्वैतचरणारविन्दभावनम् ॥ ८॥इति सार्वभौम भट्टाचार्यविरचितं अद्वैताष्टकं सम्पूर्णम् ।

अद्वैताष्टकम्:Advaitashtakam Read More »

Achyutashtakam

अच्युताष्टकं २: Achyutashtakam by Shridharavenkatesha

achyutAShTakam by Shri Shridhara Venkatesha. The author Shridhara Venkatesha was a staunch devotee of Shiva but he had no dislike for Vishnu. He had even decried the differences displyed by people who claimed to be devotees of Siva or Vishnu to the exclusion of the other. He believed that in this age of Kali yuga when peoples’ mind will be attacked by a million distractions making it impossible for one to devote himself seriously to God, they can take to chanting of His name as Shridhara believed that the name is as potent as Him in distroying the sins of the devotee. This theme is highlighted in this short poem. The poet addresses the name and not the Lord as is usually the case. The power of the Lord’s name in destroying the sins is mentioned in the first verse. He cites with wonder instances when the name came to the rescue of His devotees in times of crises. One instance was the case of Draupathi when she was being subjected to humiliation and was in a helpless condition. She cried out for help and uttered Lord’s name which produced unending piles of clothes to the amazement of all and frustrated the efforts of those who tried to dishonour her. The poet then cites the case of Gagendra who was caught in a tussle with a crocodile. After a long-drawn struggle the elephant, feeling helpless, called out loudly the Lord’s name. This made Him rush to his rescue. The poet feels that it was the Lord’s name that worked these wonders. अथ अच्युताष्टकम् ॥ अभिलपननिसर्गादच्युताख्ये भजे त्वां हरसि मदघवृन्दं त्वद्भुबुक्षावशात् त्वम् । अघहृदिति तवांब प्रत्युत ख्यातिदोऽहं त्वयि मम वद का वा संगतिर्दैन्यवाचाम् ॥ १॥ चिरातीता सान्दीपनितनुभुवः कालभवन- प्रपत्तिस्तं पित्रोः पुनरगमयत् सन्निधिमिति । यशः कृष्णस्येदं कथमहह न त्वां रसनया यदि श्रीकृष्णाख्ये भजति स तादनीं मुनिसुतः ॥ २॥ हरेर्यच्चोरत्वं यदपि च तथा जारचरितं तदेतत् सर्वांहस्ततिकृते संकथनतः । इतीदं माहात्म्यं मधुमथन ते दीपितमिदं वदन्त्याः कृष्णाख्ये तवहि विचरन्त्या विलसितम् ॥ ३॥ सभायां द्रौपत्याऽंशुकसृतिभिया तद्रसनया धृता तस्याश्चेलं प्रतनु तदवस्थं विदधती । व्यतानीश्शैलाभं वसनविसरं चांब हरता- मियान् गोविन्दाख्ये वद वसनराशिस्तव कुतः ॥ ४॥ अधिरसनमयि त्वामच्युताख्ये दधानं वनजभवमुखानां वन्द्यमाहुर्महान्तः । सतु विनमति मातश्चाश्वगोश्वादनादीन् भवति ननु विचित्रा पद्धतिस्तावकानाम् ॥ ५॥ जननि मुरभिदाख्ये जाह्नवीनिम्नगैका समजनि पदपद्माच्चक्रिणस्त्वाश्रितानाम् । परिणमति समस्ताः पादवार्घिन्दुरेको जगति ननु तटिन्यो जाह्नवीसह्यजाद्याः ॥ ६॥ समवहितमपश्यन् सन्निधौ वैनतेयं प्रसभविधुतपद्मापाणिरीशोऽच्युताख्ये । समवितुमुपनीतः सागजेन्द्रं त्वया द्राक् वद जननि विना त्वां केन वा किं तदाभूत् ॥ ७॥ यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि ततो महिम्नः का हानिस्तवतु मम संपन्निरवधिः । शुना लीलाकामं भवति सुरसिन्धुर्भगवती तदेषा किंभूता सतु सपदि सन्तापभरितः ॥ ८॥ इति श्रीश्रीधरवेंकटेशार्यकृतौ अच्युताष्टकं संपूर्णम् ॥

अच्युताष्टकं २: Achyutashtakam by Shridharavenkatesha Read More »

Achyutashtakam

अच्युताष्टकम् १: Achyutashtakam 1

Achyutashtakam: अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ १॥अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् ।इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दनं सन्दधे ॥ २॥विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणिऱागिणे जानकीजानये ।वल्लवीवल्लभायाऽर्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥ ३॥कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे ।अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ ४॥राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः ।लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसम्पूजितो राघवः पातु माम् ॥ ५॥धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां केशिहा कंसहृद्वंशिकावादकः । var द्वेषिहापूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु माम् सर्वदा ॥ ६॥विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् । var विद्युदुद्योतवान्वन्यया मालया शोभितोरःस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ ७॥कुञ्चितैः कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः ।हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे ॥ ८॥अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।वृत्ततः सुन्दरं कर्तृ विश्वम्भरस्तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९॥॥ इति श्रीशङ्कराचार्यविरचितमच्युताष्टकं सम्पूर्णम् ॥

अच्युताष्टकम् १: Achyutashtakam 1 Read More »

Achyutashtakam

अर्जुनकृतम् श्रीकृष्णस्तोत्रम्: Arjunakritam Shri Krishna Stotram

Arjunakritam Shri Krishna Stotram Arjunakritam Shri Krishna Stotram:पुलस्त्य उवाच -एवमुक्तोऽर्जुनः सम्यक् प्रणिपत्य जनार्दनम् ।तुष्टाव वाग्भिरिष्टाभिरुद्भूतपुलकस्ततः ॥ १९॥अर्जुन उवाच -नमोऽस्तु ते चक्रधरोग्ररूप नमोऽस्तु ते शार्ङ्गधरारुणाक्ष ।नमोऽस्तु तेऽभ्युद्यतखड्ग रौद्र नमोऽस्तु विभ्रान्तगदान्तकारिन् ॥ २०॥भयेन सन्नोऽस्मि सवेपथेन नाङ्गानि मे देव वशं प्रयान्ति ।वाचः समुच्चारयतः स्खलन्ति केशा हृषीकेश समुच्छ्वसन्ति ॥ २१॥कालो भवान्कालकरालकर्मा येनैतदेवं क्षयमक्षयात्मन् ।क्षत्रं समुद्भूतरुषा समस्तं नीतं भुवो भारविरेचनाय ॥ २२॥प्रसीद कर्तर्जय लोकनाथ प्रसीद सर्वस्य च पालनाय ।स्थितौ समस्तस्य च कालरूप कृतोद्यमेशान जयाव्ययात्मन् ॥ २३॥न मे दृगेषा तव रूपमेतद्द्रष्टुं समर्था क्षुभितोऽस्मि चान्तः ।पूर्वस्वभावस्थितविग्रहोऽपि संलक्ष्यसेऽत्यन्तमसौम्यरूप ॥ २४॥स्मरामि रूपं तव विश्वरूपं यद्दर्शितं पूर्वमभून्ममैव ।यस्मिन्मया विश्वमशेषमासीद्दृष्टं सयक्षोरगदेवदैत्यम् ॥ २५॥सा मे स्मृतिर्दर्शनभाषणादि प्रकुर्वतो नाथ गता प्रणाशम् ।कालोऽहमस्मीत्युदिते त्वया तु समागतेयं पुनरप्यनन्त ॥ २६॥कर्ता भवान्कारणमप्यशेषं कार्यं च निष्कारण कर्तृरूप ।आदौ स्थितौ संहरणे च देव विश्वस्य विश्वं स्वयमेव च त्वम् ॥ २७॥ब्रह्मा भवान्विश्वसृगादिकाले विश्वस्य रूपोऽसि तथा विसृष्टौ ।विष्णुः स्थितौ पालनबद्धकक्षो रुद्रो भवान्संहरणे प्रजानाम् ॥ २८॥एभिस्त्रिभिर्नाथ विभूतिभेदैर्यश्चिन्त्यते कारणमात्मनोऽपि ।वेदान्तवेदोदितमस्ति विष्णोः पदं ध्रुवं तत्परमं त्वमेव ॥ २९॥यन्निर्गुणं सर्वविकल्पहीनमनन्तमस्थूलमरूपगन्धम् ।परं पदं वेदविदो वदन्ति त्वमेव तच्छब्दरसादिहीनम् ॥ ३०॥यथा हि मूले विटपी महाद्रुमः प्रतिष्टितस्कन्धवरोग्रशाखः ।तथा समस्तामरमर्त्यतिर्यग्व्योमादिशब्दादिमयं त्वयीदम् ॥ ३१॥मुञ्चामि यावत्परमायुधानि वैरिष्वनन्ताहवदुर्मदेषु ।दृष्ट्वा हि तावत्सहसा पतन्तो नूनं तवैवाच्युत स प्रभावः ॥ ३२॥हता हतास्ते भवतो दृशैव मया पुनः केशव शस्त्रपूगैः ।काः कर्णभीष्मप्रमुखान्विजेतुं युष्मत्प्रसादेन विना समर्थः ॥ ३३॥त्रिशूलपाणिर्मम यः पुरस्तान्निषूदयन्वैरिबलं जगाम ।ज्ञातं मया साम्प्रतमेतदीश तव प्रसादस्य हि सा विभूतिः ॥ ३४॥यमेन्द्रवित्तेशजलेशवह्निसूर्यात्मको यश्च ममास्त्रपूगः ।नाशाय नाभूत्पतितोऽपि काये त्वत्सन्निधानस्य हि सोऽनुभावः ॥ ३५॥बाल्ये भवान्यानि चकार देव कर्माण्यसह्यानि सुरासुराणाम् ।तैरेव जानीम न यत्परं त्वां दोषः स निर्दोषमनुष्यतायाः ॥ ३६॥तालोच्छ्रिताग्रं गुरुभारसारमायामविस्तारवदद्य जातः ।पादाग्रविक्षेपविभिन्नभाण्डं चिक्षेप कोऽन्यः शकटं यथा त्वम् ॥ ३७॥अन्येन केनाच्युत पूतनायाः प्राणैः समं पीतमसृग्विमिश्रम् ।त्वया यथा स्तन्यमतीव बाल्ये गोष्ठे च भग्नौ यमलार्जुनौ तौ ॥ ३८॥विषानलोष्णाम्बुनिपातभीममास्फोट्य को वा भुवि मानुषोऽन्यः ।ननर्त पादाब्जनिपीडितस्य फणं समारुह्य च कालियस्य ॥ ३९॥सुरेशसन्देशविरोधवत्सु वर्षत्सु मेघेषु गवान्निमित्तम् ।दिनानि सप्तास्ति च कस्य शक्तिर्गोवर्धनं धारयितुं करेण ॥ ४०॥प्रलम्बचाणूरमुखान्निहत्य कंसासुरं यस्य बिभेति शक्रः ।तमष्टवर्षो निजघान कोऽन्यो निरायोधो नाथ मनुष्यजन्मा ॥ ४१॥बाणार्थमभ्युद्यतमुग्रशूलं निर्जित्य सङ्ख्ये त्रिपुरारिमेकः ।सकार्त्तिकेयज्वरमस्त्रबाहुं करोति को बाणमनच्युतोऽन्यः ॥ ४२॥कः पारिजातं सुरसुन्दरीणां सदोपभोग्यं विजितेन्द्रसैन्यः ।स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः समानयामास यथा प्रभो त्वम् ॥ ४३॥हत्वा हयग्रीवमुदारवीर्यं निशुम्भशुम्भौ नरकं च कोऽन्यः ।जग्राह कन्यापुरमात्मनोऽर्थं प्राग्ज्योतिषाख्ये नगरे महात्मन् ॥ ४४॥स्थितौ स्थितस्त्वं परिपासि विश्वं तैस्तैरुपायैरविनीतभीतैः ।मैत्री न येषां विनयाय तांस्तान्सर्वान्भवान्संहरतेऽव्ययात्मन् ॥ ४५॥हिताय तेषां कपिलादिरूपिणा त्वयानुशस्ता बहवोऽनुजीवाः ।येषां न मैत्री हृदि ते न नेया विश्वोपकारी वध एव तेषाम् ॥ ४६॥ इत्थं भवान्दुष्टवधेन नूनं विश्वोपकाराय विभो प्रवृत्तः ।स्थितौ स्थितं पालनमेव विष्णुः करोति हन्त्यन्तगतोऽन्तरुद्रः ॥ ४७॥एतानि चान्यानि च दुष्कराणि दृष्टानि कर्माणि तथापि सत्यम् ।मन्यामहे त्वां जगतः प्रसूतिं किं कुर्म माया तव मोहनीयम् ॥ ४८॥त्वं सर्वमेतत्त्वयि सर्वमेतत्त्वत्तस्तथैतत्तव चैतदीश ।एतत्स्वरूपं तव सर्वभूतं विभूतिभेदैर्बहुभिः स्थितस्य ॥ ४९॥प्रसीद कृष्णाच्युत वासुदेव जनार्दनानन्त नृसिंह विष्णो ।मनुष्यसामान्यधिया यदीश दृष्टो मया तत्क्षमस्वादिदेव ॥ ५०॥न वेद्मि सद्भावमहं तवाद्य सद्भावभूतस्य चराचरस्य ।यो वै भवान्कोऽपि नतोऽस्मि तस्मै मनुष्यरूपाय चतुर्भुजाय ॥ ५१॥देवदेव जगन्नाथ सर्वपापहरो भव ।हेतुमात्रस्त्वहं तत्र त्वयैतदुपसंहृतम् ॥ ५२॥प्रसीदेश हृषीकेश अक्षौहिण्या दशाष्ट च ।त्वया ग्रस्ता भुवो भूत्यै हेतुभूता हि मद्विधाः ॥ ५३॥वयमन्ये च गोविन्द नराः क्रीडनकास्तव ।मद्विधैः करणैर्देव करोषि स्थितिपालनम् ॥ ५४॥यदत्र सदसद्वापि किञ्चिदुच्चारितं मया ।भक्तिमानिति तत्सर्वं क्षन्तव्यं मम केशव ॥ ५५॥इति विष्णुधर्मेषु पञ्चत्रिंशोऽध्यायान्तर्गतं अर्जुनप्रोक्तं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।

अर्जुनकृतम् श्रीकृष्णस्तोत्रम्: Arjunakritam Shri Krishna Stotram Read More »