Karpanyapanjikastotram:कार्पण्यपञ्जिकास्तोत्रम्
Karpanyapanjikastotram:कार्पण्यपञ्जिकास्तोत्रम् ध्यानः ।कोणेनाक्ष्णोः पृथुरुचिः मिथो हारिणा लिह्यमाना- वेकैकेन प्रचुरपुलकेनोपगुढौ भुजेन । गौरीश्यामौ वसनयुगलं श्यामगौरं वसानौ राधाकृष्णौ स्मरविलसितोद्दामतृष्णौ स्मरामि ॥ १॥ अथ श्रीकार्पण्यपञ्जिकास्तोत्रंश्रीवृन्दावनेशौ जयतः तिष्ठन् वृन्दाटवीकुञ्जे विज्ञप्तिं विदधत्यसौ ।वृन्दाटवीशयोः पादपद्मेषु कृपनो जनः ॥ १॥ नवेन्दीवरसन्दोहसौन्दर्यास्कन्दनप्रभम् ।चारुगोरोचनागर्वगौरवग्रासिगौरभाम् ॥ २॥ शातकुम्भकदम्बश्रीविडम्बिस्फुरदम्बरम् ।हरता किंशुकस्यांशून् अंशुकेन विराजिताम् ॥ ३॥ सर्वकैशोरवद्वृन्दचूडारूढहरिण्मणिम् ।गोष्ठाशेषकिशोरीणां धम्मिल्लोत्तंसमल्लिकाम् ॥ ४॥ श्रीशमुख्यात्मरूपणां रूपातिशयिविग्रहम् ।रमोज्ज्वलव्रजवधूव्रजविस्मापिसौष्ठवाम् ॥ ५॥ Karpanyapanjikastotram

KARMASU