Karpanyapanjikastotram:कार्पण्यपञ्जिकास्तोत्रम्
Karpanyapanjikastotram:कार्पण्यपञ्जिकास्तोत्रम् ध्यानः ।कोणेनाक्ष्णोः पृथुरुचिः मिथो हारिणा लिह्यमाना- वेकैकेन प्रचुरपुलकेनोपगुढौ भुजेन । गौरीश्यामौ वसनयुगलं श्यामगौरं वसानौ राधाकृष्णौ स्मरविलसितोद्दामतृष्णौ स्मरामि ॥ १॥ अथ श्रीकार्पण्यपञ्जिकास्तोत्रंश्रीवृन्दावनेशौ जयतः तिष्ठन् वृन्दाटवीकुञ्जे विज्ञप्तिं विदधत्यसौ ।वृन्दाटवीशयोः पादपद्मेषु कृपनो जनः ॥ १॥ नवेन्दीवरसन्दोहसौन्दर्यास्कन्दनप्रभम् ।चारुगोरोचनागर्वगौरवग्रासिगौरभाम् ॥ २॥ शातकुम्भकदम्बश्रीविडम्बिस्फुरदम्बरम् ।हरता किंशुकस्यांशून् अंशुकेन विराजिताम् ॥ ३॥ सर्वकैशोरवद्वृन्दचूडारूढहरिण्मणिम् ।गोष्ठाशेषकिशोरीणां धम्मिल्लोत्तंसमल्लिकाम् ॥ ४॥ श्रीशमुख्यात्मरूपणां रूपातिशयिविग्रहम् ।रमोज्ज्वलव्रजवधूव्रजविस्मापिसौष्ठवाम् ॥ ५॥ Karpanyapanjikastotram सौरभ्यहृतगान्धर्वं गन्धोन्मादितमाधवाम् ।राधारोधनवंशीकं महतीमोहिताच्युताम् ॥ ६॥ राधाधृतिधनस्तेनलोचनाञ्चलचापलम् ।दृगञ्चलकलाभृङ्गीदष्टकृष्णहृदम्बुजाम् ॥ ७॥ राधागूढपरीहासप्रौढिनिर्वचनीकृतम् ।व्रजेन्द्रसुतनर्मोक्तिरोमाञ्चिततनूलताम् ॥ ८॥ दिव्यसद्गुणमाणिक्यश्रेणीरोहणपर्वतम् ।उमादिरमणीव्यूहस्पृहणीयगुणोत्कराम् ॥ ९॥ त्वां च वृन्दावनाधीश त्वां च वृन्दावनेश्वरि ।काकुभिर्वन्दमानोऽयं मन्दं प्राऋथयते जनः ॥ १०॥ ॥ दशभिः कुलकम् ॥योग्यता मे न काचिद् वां कृपालाभाय यद्यपि ।महाकृपालुमौलित्वात् तथापि कुरुतं कृपाम् ॥ ११॥ अयोग्ये सापराधेऽपि दृश्यन्ते कृपयाकुलाः ।महाकृपालवो हन्त लोके लोकेशवन्दितौ ॥ १२॥ भक्तेर्वां करुणाहेतोर्लेशाभासोऽपि नास्ति मे ।महालीलेशरतया तदप्यत्र प्रसीदतम् ॥ १३॥ जने दुष्टेऽप्यभक्तेऽपि प्रसीदन्तो विलोकिताः ।महालीलामहेशाश्च हा नाथौ बहवो भुवि ॥ १४॥ Karpanyapanjikastotram अधमोऽप्युत्तमं मत्वा स्वमज्ञेऽपि मनीषिणम् ।शिष्टं दुष्टोऽप्ययं जन्तुर्मन्तुं व्यधित यद्यपि ॥ १५॥ तथाप्यस्मिन् कदाचिद् वामधीशौ नामजल्पिनि ।अवद्यवृन्दनिस्तारिनामाभासौ प्रसीदतम् ॥ १६॥ यदक्षम्यं नु युवयोः सकृद्भक्तिलवादपि ।तदागः क्वापि नास्त्येव कृताशां प्रार्थये ततः ॥ १७॥ हन्त क्लीबोऽपि जीवोऽयं नीतः कष्टेन धृष्टताम् ।मुहुः प्रार्थयते नाथौ प्रसादः कोऽप्युदञ्चतु ॥ १८॥एष पापी रुदन्न् उच्चैरादाय रदनैस्तृणम् ।हा नाथौ नाथेति प्राणी सीदत्यत्र प्रसीदतम् ॥ १९॥ हाहारावमसौ कुर्वन् दुर्भगो भिक्षते जनः ।एतां मे शृणुतं काकुं काकुं शृणुतमीश्वरौ ॥ २०॥ Karpanyapanjikastotram याचे फुत्कृत्य फुत्कृत्य हा हा काकुभिराकुलः ।प्रसीदतमयोग्येऽपि जनेऽस्मिन् करुणार्णवौ ॥ २१॥ क्रोशत्यार्तस्वरैरास्ये न्यस्याङ्गुष्ठमसौ जनः ।कुरुतं कुरुतं नाथौ करुणाकणिकामपि ॥ २२॥ वाचेह दीनया याचे साक्रन्दमतिमन्दधीः ।किरतं करुणस्वान्तौ करुणोर्मिच्छटामपि ॥ २३॥ मधुराः सन्ति यावन्तो भावाः सर्वत्र चेतसः ।तेभ्योऽपि प्रेममधुरं प्रसादीकुरुतं निजम् ॥ २४॥ सेवामेवाद्य वां देवावीहे किञ्चन नापरम् ।प्रसादाभिमुखौ हन्त भवन्तौ भवतां मयि ॥ २५॥ Karpanyapanjikastotram नाथितं परमेवेदमनाथजनवत्सलौ ।स्वं साक्षाद्दास्यमेवास्मिन् प्रसादीकुरुतं जने ॥ २६॥ अञ्जलिं मूर्ध्नि विन्यस्य दीनोऽयं भिक्षते जनः ।अस्य सिद्धिरभीष्टस्य सकृदप्युपपाद्यताम् ॥ २७॥ अमलो वां पारिमलः कदा परिमलन् वने ।अनर्घेण प्रमोदेन घ्राणं मे घूर्णयिष्यति ॥ २८॥ रञ्जयिस्यति कर्णौ मे हंसगुञ्जितगञ्जनम् ।मञ्जुलं किं नु युवयोर्मञ्जीरकलसिञ्जितम् ॥ २९॥ सौभाग्याङ्करथाङ्गादिलक्षितानि पदानि वाम् ।कदा वृन्दावने पश्यन्न् उन्मदिष्यत्ययं जनः ॥ ३०॥ सर्वसौन्दर्यमर्यादानीराज्यपदनीरजौ ।किमपूर्वाणि पर्वाणि हा ममाक्ष्णोर्विधास्यथ ॥ ३१॥ सुचिराशाफलाभोगपदाम्भोजविलोकनौ ।युवां साक्षाज्जनस्यास्य भवेतामिह किं भवे ॥ ३२॥ कदा वृन्दाटवीकुञ्जकन्दरे सुन्दरोदयौ ।खेलन्तौ वां विलोकिष्ये सुरतौ नातिदूरतः ॥ ३३॥ Karpanyapanjikastotram: गुर्वायत्ततया क्वापि दुर्लभान्योन्यवीक्षणौ ।मिथः सन्देशसीधुभ्यां नन्दयिस्यामि वां कदा ॥ ३४॥ गवेषयन्तावन्योऽन्यं कदा वृन्दावनान्तरे ।सङ्गमय्य युवां लप्स्ये हारिणं पारितोषिकम् ॥ ३५॥ पणीकृतमिथोहारलुञ्चनव्यग्रहस्तयोः ।कलिं द्यूते विलोकिष्ये कदा वां जितकाशिनोः ॥ ३६॥ कुञ्जे कुसुमशय्यायां कदा वामर्पिताङ्गयोः ।पादसंवाहनं हन्त जनोऽयं रचयिष्यति ॥ ३७॥ कन्दर्पकलहोद्घट्टत्रुटितानां लतागृहे ।कदा गुम्फाय हाराणां भवन्तौ मां नियोक्ष्यतः ॥ ३८॥ केलिकल्लोलविस्रस्तान् हन्त वृन्दावनेश्वरौ ।कर्हि बर्हिपतत्रैर्वां मण्डयिष्यामि कुन्तलान् ॥ ३९॥ Karpanyapanjikastotram कन्दर्पकेलिपाण्डित्यखण्डिताकल्पयोरहम् ।कदा वामलिकद्वन्द्वं करिष्ये तिलकोज्ज्वलम् ॥ ४०॥ देवारम्भे वनस्रग्भिर्दृशौ ते देवि कज्जलैः ।अयं जनः कदा कुञ्जमण्डपे मण्डयिष्यति ॥ ४१॥ जाम्बूनदाभताम्बूलीपर्णान्यवदलय्य वाम् ।वदनाम्बुजयोरेष निधास्यति जनः कदा ॥ ४२॥ क्वासौ दुष्कृतकर्माहं क्व वामभ्यर्थनेदृशी ।किं वा कं वा न युवयोरुन्मादयति माधुरी ॥ ४३॥ यया वृन्दावने जन्तुरनर्होऽप्येष वास्यते ।तयैव कृपया नाथौ सिद्धिं कुरुतमीप्सितम् ॥ ४४॥ कार्पण्यपञ्जिकामेतां सदा वृन्दाटवीनटौ ।गिरैव जल्पतोऽप्यस्य जन्तोः सिध्यतु वाञ्छितम् ॥ ४५॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकार्पण्यपञ्जिकास्तोत्रं समाप्तम् ।

KARMASU