GANESH

गणेश चतुर्थी पर इस मुहूर्त में घर लाएं गणपति, जानिए गणपति स्थापना और पूजा विधि

गणेश उत्सव का यह पर्व भाद्रपद माह के शुक्ल पक्ष की चतुर्थी तिथि से शुरू होकर अनंत चतुर्दशी तिथि के दिन तक चलता है. 10 दिन तक चलने वाला यह उत्सव बड़े ही धूम-धाम से मनाया जाता है. करवा चौथ के दिन सुहागिन महिलाएं क्या करें, क्या नहीं? जानिए यहां धार्मिक मान्यताओं के अनुसार भाद्रपद माह में शुक्ल पक्ष की चतुर्थी तिथि के दिन सुख-समृद्धि के देवता भगवान श्री गणेश का जन्म हुआ था। इसी उपलक्ष्य में हर साल गणेश उत्सव मनाया जाता है। यह पर्व पूरे दस दिनों तक चलता है। गणेश उत्सव का यह पर्व भाद्रपद माह के शुक्ल पक्ष की चतुर्थी तिथि से शुरू होकर अनंत चतुर्दशी तिथि के दिन तक चलता है। 10 दिन तक चलने वाला यह उत्सव बड़े ही धूम-धाम से मनाया जाता है। इस दौरान घरों और बड़े-बड़े पूजा पंडालों में भगवान गणेश की प्रतिमाएं स्थापित की जाती हैं। इस दिन शुभ मुहूर्त में ही बप्पा का स्वागत किया जाता है। ऐसे में यदि आप भी अपने घर में गणपति स्थापित करने जा रहे हैं शुभ मुहूर्त जरूर देख लें। चलिए जानते हैं गणपति स्थापना का शुभ मुहूर्त और विधि.. गणेश चतुर्थी तिथि 2023 इस साल भाद्रपद माह के शुक्ल पक्ष की चतुर्थी तिथि की शुरुआत 18 सितंबर 2023 को दोपहर 02 बजकर 9 मिनट पर हो रही है। इसका समापन 19 सितंबर 2023 को दोपहर 3 बजकर 13 मिनट पर होगा। उदया तिथि के आधार पर गणेश चतुर्थी 19 सितंबर को मनाई जाएगी। इसी दिन से 10 दिनों तक चलने वाले गणेशोत्सव की शुरुआत भी होगी। गणेश स्थापना की विधि गणपति की स्थापना करने से पहले कुछ बातों का ध्यान रखना जरूरी है. स्नान करने के बाद साफ वस्त्र पहनें और इसके बाद अपने माथे पर तिलक लगाएं और पूर्व दिशा की ओर मुख कर आसन पर बैठ जाएं. आपका आसन बिल्कुल शुद्ध होना चाहिए. इसके बाद गणेश जी की प्रतिमा को किसी लकड़ी के पटरे या गेहूं, मूंग, ज्वार के ऊपर लाल वस्त्र बिछाकर स्थापित करें. गणपति की प्रतिमा के दाएं-बाएं रिद्धि-सिद्धि को भी स्थापित करें और साथ में एक-एक सुपारी रखें. गणेश चतुर्थी पूजा विधि गणेश चतुर्थी तिथि पर शुभ मुहूर्त को ध्यान में रखकर सबसे पहले अपने घर के उत्तर भाग, पूर्व भाग या पूर्वोत्तर भाग में गणेश जी की प्रतिमा रखें. पूजन सामग्री लेकर शुद्ध आसन पर बैठें. गणेश भगवान की प्रतिमा की पूर्व दिशा में कलश रखें और दक्षिण पूर्व में दीया जलाएं. अपने ऊपर जल छिड़कते हुए ॐ पुण्डरीकाक्षाय नमः मंत्र का जाप करें. भगवान गणेश को प्रणाम करें और तीन बार आचमन करें तथा माथे पर तिलक लगाएं. आसन के बाद गणेश जी को पंचामृत से स्नान कराएं. उन्हें वस्त्र, जनेऊ, चंदन, अक्षत, धूप, दीप, नैवेद्य और फल चढ़ाएं. गणेश जी की आरती करें और मनोकामना पूर्ति के लिए आशीर्वाद मांगे. 

गणेश चतुर्थी पर इस मुहूर्त में घर लाएं गणपति, जानिए गणपति स्थापना और पूजा विधि Read More »

एकदंतगणेशस्तोत्रम्

श्रीगणेशाय नमः । मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥ प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥ २॥ देवर्षय ऊचुः सदात्मरूपं सकलादि-भूतममायिनं सोऽहमचिन्त्यबोधम् । अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥ विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् । सदा निरालम्ब-समाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥ स्वबिम्बभावेन विलासयुक्तं बिन्दुस्वरूपा रचिता स्वमाया । तस्यां स्ववीर्यं प्रददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६॥ त्वदीय-वीर्येण समर्थभूता माया तया संरचितं च विश्वम् । नादात्मकं ह्यात्मतया प्रतीतं तमेकदन्तं शरणं व्रजामः ॥ ७॥ त्वदीय-सत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारम् । सेवन्त आपुस्तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ ८॥ ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै । आनन्दरूपं समभावसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ९॥ तदेव विश्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् । अनेकरूपं ह्यजमेकभूतं तमेकदन्तं शरणं व्रजामः ॥ १०॥ ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् । सत्त्वात्मकं श्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११॥ तदेव स्वप्नं तपसा गणेशं संसिद्धिरूपं विविधं वभूव । सदेकरूपं कृपया तवाऽपि तमेकदन्तं शरणं व्रजामः ॥ १२॥ सम्प्रेरितं तच्च त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् । तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३॥ जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव । तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४॥ एवं च सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् । बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५॥ त्वदाज्ञया भान्ति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभान्ति खे वै । आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजामः ॥ १६॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः । त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १७॥ यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽपः प्रवहन्ति नद्यः । सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८॥ यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणोऽचलो वै तमेकदन्तं शरणं व्रजामः ॥ १९॥ यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च कामः । यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २०॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः । यदाज्ञया वै सचराऽचरं च तमेकदन्तं शरणं व्रजामः ॥ २१॥ सर्वान्तरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति । अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः ॥ २२॥ यं योगिनो योगबलेन साध्यं कुर्वन्ति तं कः स्तवनेन स्तौति । अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३॥ गृत्समद उवाच एवं स्तुत्वा च प्रह्लाद देवाः समुनयश्च वै । तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २४॥ स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै । जगाद तान् महाभागान् देवर्षीन् भक्तवत्सलः ॥ २५॥ एकदन्त उवाच प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल । वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६॥ भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । पुत्र-पौत्रादिकं सर्वं लभते धन-धान्यकम् ॥ २८॥ गजाश्वादिकमत्यन्तं राज्यभोगं लभेद् ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९॥ मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां श‍ृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३०॥ एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् । पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१॥ न तस्य दुर्लभं किंचित् त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२॥ नित्यं यः पठते स्तोत्रं ब्रह्मभूतः स वै नरः । तस्य दर्शनतः सर्वे देवाः पूता भवन्ति वै ॥ ३३॥ एवं तस्य वचः श्रुत्वा प्रहृष्टा देवतर्षयः । ऊचुः करपुटाः सर्वे भक्तियुक्ता गजाननम् ॥ ३४॥ ॥ इति श्री एकदन्तस्तोत्रं सम्पूर्णम् ॥

एकदंतगणेशस्तोत्रम् Read More »

उच्छिष्टमहागणपति ध्यानम्

मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले । समासीनं पराशक्तिविग्रहं गणनायकम् ॥ १॥ रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् । रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥ २॥ करुणारससुधाधारास्रवदक्षित्रयान्वितम् । अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥ ३॥ पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् । नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥ ४॥ सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् । पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥ ५॥ ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् । महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥ ६॥ नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् । पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम् ॥ ७॥ अखण्डकोटिब्रह्माण्डामण्डलेश्वरमव्ययम् । रदनाक्षरसम्पूर्णमन्त्रराजस्वरूपिणम् ॥ ८॥ गिरिव्याहृतिवर्णात्ममन्त्रतत्वप्रदर्शकम् । अरुणारुणतनुच्छायमहाकामकलात्मकम् ॥ ९॥ महागोप्यमहाविद्या प्रकाशितकलेबरम् । चिच्छिवं चिद्भवं शान्तं त्रिगुणादिविवर्जितम् ॥ १०॥ अष्टोत्तरशताभिख्यकलान्यासविधिप्रियम् । चिदाकारमहाद्वीपमध्यवाससुविग्रहम् ॥ ११॥ चिदब्धिमथनोत्पन्नचित्सारघनविग्रहम् । वाचामगोचरं शान्तं शुद्धचैतन्यरूपिणम् ॥ १२॥ मूलकन्दस्थचिद्देशनवताण्डवपण्डितम् । षडम्बुरुहसंस्थायिपरचिव्द्योमभासुरम् ॥ १३॥ अकारादिक्षकारान्तवर्णलक्षितचित्सुखम् । अकाराक्षरनिर्दिष्टप्रकाशमयविग्रहम् ॥ १४॥ हकाराख्यविमर्शात्मप्रभादीप्तजगत्त्रयम् । महाहंसजपध्यानविधिज्ञातस्वरूपकम् ॥ १५॥ सदोदितमहाप्रज्ञाकारं संसारतारकम् । मोक्षलक्ष्मीप्रदातारं कालातीतमहाप्रभुम् ॥ १६॥ नामरूपादिसम्भिन्ननित्यपूर्णचिदुत्तमम् । प्रत्यग्भूतमहाप्रज्ञागात्रगोचरविग्रहम् ॥ १७॥ महाकुण्डलिनीरूपं षट्च्क्रनगरेश्वरम् । अप्राकृतमहादिव्यचैतन्यात्मस्वरूपिणम् ॥ १८॥ नादबिन्दुकलातीतं कार्यकारणवर्जितम् । षडम्बुरुहचक्रान्तः स्फुरत्सौदामिनीप्रभम् ॥ १९॥ तत्त्वमस्यादिवाक्यार्थपरिबोधनपण्डितम् । ब्रह्मादिकीटपर्यन्तव्याप्तसंवित्सुधारसम् ॥ २०॥ इच्छाज्ञानक्रियानन्दसर्वतन्त्र स्वतन्त्रिणम् । हृदयग्रन्थिभिद्विद्यादर्शनोत्सुकमानसम् ॥ २१॥ पञ्चकृत्यपरेशानं महात्रैपुरविग्रहम् । श्रीचक्रराजमध्यस्थशून्यग्राममहेश्वरम् ॥ २२॥ ब्रह्मविद्यास्वरूपश्रीललितारूपधारिणम् । वशिन्याद्यावृतं साध्यं अद्वयानन्दवर्धनम् ॥ २३॥ आदिशङ्कररूपेशदक्षिणामूर्तिपूजितम् । असंस्पृष्टमहाप्रज्ञाभिख्याद्वैतस्थितिप्रभम् ॥ २४॥ एवं सञ्चितयेद्देवं उच्छिष्टगणनायकम् । नीलतारासमेतं तु सच्चिदानन्दविग्रहम् ॥ २५॥

उच्छिष्टमहागणपति ध्यानम् Read More »

उच्छिष्टगणेशस्तवराजः

श्री गणेशाय नमः । देव्युवाच । पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् । नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् । गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १॥ केयुरिणंहारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि । सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥ २॥ सृणिंवहन्तं षडक्षरात्मानमनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च । संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥ ३॥ वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् । स्तम्बेरमास्यं ननु चन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥ ४॥ नव चन्द्रचूडं भवाख्यदावानलदह्यमानं भक्तं स्वकीयं परिषिञ्चते यः । गण्डस्रुताम्भोभिरनन्यतुल्यं वन्दे गणेशं च तमोऽरिनेत्रम् ॥ ५॥ तमालनीलम् शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्वकीयम् । भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणपोऽवतान्नः ॥ ६॥ पितुर्जटाजूटतटे सदैव भागीरथीं तत्र कुतूहलेन । विलोक्य भागीरथीं विहर्तुकामः स महीध्रपुत्र्या निवारितः पातु सदा गजास्यः ॥ ७॥ लम्बोदरो देवकुमारसङ्घैः क्रीडन्कुमारं जितवान्निजेन । करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयतः स पायात् ॥ ८॥ आगत्य योच्चैर्हरिनाभिपद्मं ददर्श तत्राशु करेण तच्च । उद्धर्तुमिच्छन्विधिवादवाक्यं मुमोच भूत्वा चतुरो गणेशः ॥ ९॥ विधिचाटुवाक्यं निरन्तरं संस्कृतदानपट्टे लग्नां तु गुञ्जद्भ्रमरावलीं वै । तं श्रोत्रतालैरपसारयन्तं स्मरेद्गजास्यं निजहृत्सरोजे ॥ १०॥ विश्वेशमौलिस्थितजह्नुकन्याजलं गृहीत्वा निजपुष्करेण । हरं सलीलं पितरं स्वकीयं प्रपूजयन्हस्तिमुखः स पायात् ॥ ११॥ स्तम्बेरमास्यं घुसृणाङ्गरागं सिन्दूरपूरारुणकान्तकुम्भम् । कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥ १२॥ स भीष्ममातुर्निजपुष्करेण जलं समादाय कुचौ स्वमातुः । प्रक्षालयामास षडास्यपीतौ स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥ १३॥ सिञ्चाम नागं शिशुभावमाप्तं केनापि सत्कारणतो धरित्र्याम् । वक्तारमाद्यं नियमादिकानां लोकैकवन्द्यं प्रणमामि विघ्नम् ॥ १४॥ विघ्नं विघ्ननाशनमित्यर्थः आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् । विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥ १५॥ हेरम्ब उद्यद्रविकोटिकान्तः पञ्चाननेनापि विचुम्बितास्यः । मुनीन्सुरान्भक्तजनांश्च सर्वान्स पातु रथ्यासु सदा गजास्यः ॥ १६॥ द्वैपायनोक्तानि स निश्चयेन स्वदन्तकोट्या निखिलं लिखित्वा । द्वैपायनोक्तं सुविचार्य येन दन्तं पुराणं शुभमिन्दुमौलिस्तपोभिरुग्रं मनसा स्मरामि ॥ १७॥ सुतमिन्दुमौलेस्तमग्र्यरूपं क्रीडातटान्ते जलधाविभास्ये वेलाजले लम्बपतिः प्रभीतः । विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥ १८॥ वाचां निमित्तं स निमित्तमाद्यं पदं त्रिलोक्यामददत्स्तुतीनाम् । सर्वैश्च वन्द्यं न च तस्य वन्द्यः स्थाणोः परं रूपमसौ स पायात् ॥ १९॥ इमां स्तुतिं यः पठतीह भक्त्या समाहितप्रीतिरतीव शुद्धः । संसेव्यते चेन्दिरया नितान्तं दारिद्र्यसङ्घं स विदारयेन्नः ॥ २०॥ ॥ इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे उच्छिष्टगणेशस्तोत्रं समाप्तम् ॥

उच्छिष्टगणेशस्तवराजः Read More »

उच्छिष्टगणेशकवचम् (रुद्रयामलान्तर्गतम्)

अथ श्रीउच्छिष्टगणेशकवचं प्रारम्भः देव्युवाच ॥ देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक । विना ध्यानं विना मन्त्रं विना होमं विना जपम् ॥ १॥ येन स्मरणमात्रेण लभ्यते चाशु चिन्तितम् । तदेव श्रोतुमिच्छामि कथयस्व जगत्प्रभो ॥ २॥ ईश्वर उवाच ॥ श्रुणु देवी प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । उच्छिष्टगणनाथस्य कवचं सर्वसिद्धिदम् ॥ ३॥ अल्पायासैर्विना कष्टैर्जपमात्रेण सिद्धिदम् । एकान्ते निर्जनेऽरण्ये गह्वरे च रणाङ्गणे ॥ ४॥ सिन्धुतीरे च गङ्गायाः कूले वृक्षतले जले । सर्वदेवालये तीर्थे लब्ध्वा सम्यग्जपं चरेत् ॥ ५॥ स्नानशौचादिकं नास्ति नास्ति निर्वंधनं प्रिये । दारिद्र्यान्तकरं शीघ्रं सर्वतत्त्वं जनप्रिये ॥ ६॥ सहस्रशपथं कृत्वा यदि स्नेहोऽस्ति मां प्रति । निन्दकाय कुशिष्याय खलाय कुटिलाय च ॥ ७॥ दुष्टाय परशिष्याय घातकाय शठाय च । वञ्चकाय वरघ्नाय ब्राह्मणीगमनाय च ॥ ८॥ अशक्ताय च क्रूराय गुरूद्रोहरताय च । न दातव्यं न दातव्यं न दातव्यं कदाचन ॥ ९॥ गुरूभक्ताय दातव्यं सच्छिष्याय विशेषतः । तेषां सिध्यन्ति शीघ्रेण ह्यन्यथा न च सिध्यति ॥ १०॥ गुरूसन्तुष्टिमात्रेण कलौ प्रत्यक्षसिद्धिदम् । देहोच्छिष्टैः प्रजप्तव्यं तथोच्छिष्टैर्महामनुः ॥ ११॥ आकाशे च फलं प्राप्तं नान्यथा वचनं मम । एषा राजवती विद्या विना पुण्यं न लभ्यते ॥ १२॥ अथ वक्ष्यामि देवेशि कवचं मन्त्रपूर्वकम् । येन विज्ञातमात्रेण राजभोगफलप्रदम् ॥ १३॥ ऋषिर्मे गणकः पातु शिरसि च निरन्तरम् । त्राहि मां देवि गायत्रीछन्दो ऋषिः सदा मुखे ॥ १४॥ हृदये पातु मां नित्यमुच्छिष्टगणदेवता । गुह्ये रक्षतु तद्बीजं स्वाहा शक्तिश्च पादयोः ॥ १५॥ कामकीलकसर्वाङ्गे विनियोगश्च सर्वदा । पार्श्वर्द्वये सदा पातु स्वशक्तिं गणनायकः ॥ १६॥ शिखायां पातु तद्बीजं भ्रूमध्ये तारबीजकम् । हस्तिवक्त्रश्च शिरसी लम्बोदरो ललाटके ॥ १७॥ उच्छिष्टो नेत्रयोः पातु कर्णौ पातु महात्मने । पाशाङ्कुशमहाबीजं नासिकायां च रक्षतु ॥ १८॥ भूतीश्वरः परः पातु आस्यं जिह्वां स्वयंवपुः । तद्बीजं पातु मां नित्यं ग्रीवायां कण्ठदेशके ॥ १९॥ गंबीजं च तथा रक्षेत्तथा त्वग्रे च पृष्ठके । सर्वकामश्च हृत्पातु पातु मां च करद्वये ॥ २०॥ उच्छिष्टाय च हृदये वह्निबीजं तथोदरे । मायाबीजं तथा कट्यां द्वावूरू सिद्धिदायकः ॥ २१॥ जङ्घायां गणनाथश्च पादौ पातु विनायकः । शिरसः पादपर्यन्तमुच्छिष्टगणनायकः ॥ २२॥ आपादमस्तकान्तं च उमापुत्रश्च पातु माम् । दिशोऽष्टौ च तथाकाशे पाताले विदिशाष्टके ॥ २३॥ अहर्निशं च मां पातु मदचञ्चललोचनः । जलेऽनले च सङ्ग्रामे दुष्टकारागृहे वने ॥ २४॥ राजद्वारे घोरपथे पातु मां गणनायकः । इदं तु कवचं गुह्यं मम वक्त्राद्विनिर्गतम् ॥ २५॥ त्रैलौक्ये सततं पातु द्विभुजश्च चतुर्भुजः । बाह्यमभ्यन्तरं पातु सिद्धिबुद्धिर्विनायकः ॥ २६॥ सर्वसिद्धिप्रदं देवि कवचमृद्धिसिद्धिदम् । एकान्ते प्रजपेन्मन्त्रं कवचं युक्तिसंयुतम् ॥ २७॥ इदं रहस्यं कवचमुच्छिष्टगणनायकम् । सर्ववर्मसु देवेशि इदं कवचनायकम् ॥ २८॥ एतत्कवचमाहात्म्यं वर्णितुं नैव शक्यते । धर्मार्थकाममोक्षं च नानाफलप्रदं नृणाम् ॥ २९॥ शिवपुत्रः सदा पातु पातु मां सुरार्चितः । गजाननः सदा पातु गणराजश्च पातु माम् ॥ ३०॥ सदा शक्तिरतः पातु पातु मां कामविह्वलः । सर्वाभरणभूषाढयः पातु मां सिन्दूरार्चितः ॥ ३१॥ पञ्चमोदकरः पातु पातु मां पार्वतीसुतः । पाशाङ्कुशधरः पातु पातु मां च धनेश्वरः ॥ ३२॥ गदाधरः सदा पातु पातु मां काममोहितः । नग्ननारीरतः पातु पातु मां च गणेश्वरः ॥ ३३॥ अक्षयं वरदः पातु शक्तियुक्तिः सदाऽवतु । भालचन्द्रः सदा पातु नानारत्नविभूषितः ॥ ३४॥ उच्छिष्टगणनाथश्च मदाघूर्णितलोचनः । नारीयोनिरसास्वादः पातु मां गजकर्णकः ॥ ३५॥ प्रसन्नवदनः पातु पातु मां भगवल्लभः । जटाधरः सदा पातु पातु मां च किरीटिकः ॥ ३६॥ पद्मासनास्थितः पातु रक्तवर्णश्च पातु माम् । नग्नसाममदोन्मत्तः पातु मां गणदैवतः ॥ ३७॥ वामाङ्गे सुन्दरीयुक्तः पातु मां मन्मथप्रभुः । क्षेत्रपः पिशितं पातु पातु मां श्रुतिपाठकः ॥ ३८॥ भूषणाढ्यस्तु मां पातु नानाभोगसमन्वितः । स्मिताननः सदा पातु श्रीगणेशकुलान्वितः ॥ ३९॥ श्रीरक्तचन्दनमयः सुलक्षणगणेश्वरः । श्वेतार्कगणनाथश्च हरिद्रागणनायकः ॥ ४०॥ पारभद्रगणेशश्च पातु सप्तगणेश्वरः । प्रवालकगणाध्यक्षो गजदन्तो गणेश्वरः ॥ ४१॥ हरबीजगणेशश्च भद्राक्षगणनायकः । दिव्यौषधिसमुद्भूतो गणेशाश्चिन्तितप्रदः ॥ ४२॥ लवणस्य गणाध्यक्षो मृत्तिकागणनायकः । तण्डुलाक्षगणाध्यक्षो गोमयश्च गणेश्चरः ॥ ४३॥ स्फटिकाक्षगणाध्यक्षो रुद्राक्षगणदैवतः । नवरत्नगणेशश्च आदिदेवो गणेश्वरः ॥ ४४॥ पञ्चाननश्चतुर्वक्त्रः षडाननगणेश्वरः । मयूरवाहनः पातु पातु मां मूषकासनः ॥ ४५॥ पातु मां देवदेवेशः पातु मामृषिपूजितः । पातु मां सर्वदा देवो देवदानवपूजितः ॥ ४६॥ त्रैलोक्यपूजितो देवः पातु मां च विभुः प्रभुः । रङ्गस्थं च सदा पातु सागरस्थं सदाऽवतु ॥ ४७॥ भूमिस्थं च सदा पातु पातलस्थं च पातु माम् । अन्तरिक्षे सदा पातु आकाशस्थं सदाऽवतु ॥ ४८॥ चतुष्पथे सदा पातु त्रिपथस्थं च पातु माम् । बिल्वस्थं च वनस्थं च पातु मां सर्वतस्तनम् ॥ ४९॥ राजद्वारस्थितं पातु पातु मां शीघ्रसिद्धिदः । भवानीपूजितः पातु ब्रह्माविष्णुशिवार्चितः ॥ ५०॥ इदं तु कवचं देवि पठनात्सर्वसिद्धिदम् । उच्छिष्टगणनाथस्य समन्त्रं कवचं परम् ॥ ५१॥ स्मरणाद्भूपतित्वं च लभते साङ्गतां ध्रूवम् । स्मरणाद्भूभुजत्वं वाचः सिद्धिकरं शीघ्रं परसैन्यविदारणम् ॥ ५२॥ प्रातर्मध्याह्नसायाह्ने दिवा रात्रौ पठेन्नरः । चतुर्थ्यां दिवसे रात्रौ पूजने मानदायकम् ॥ ५३॥ सर्वसौभाग्यदं शीघ्रं दारिद्र्यार्णवघातकम् । सुदारसुप्रजासौख्यं सर्वसिद्धिकरं नृणाम् ॥ ५४॥ जलेऽथवाऽनलेऽरण्ये सिन्धुतीरे सरित्तटे । स्मशाने दूरदेशे च रणे पर्वतगह्वरे ॥ ५५॥ राजद्वारे भये घोरे निर्भयो जायते ध्रुवम् । सागरे च महाशीते दुर्भिक्षे दुष्टसङ्कटे ॥ ५६॥ भूतप्रेतपिशाचादियक्षराक्षसजे भये । राक्षसीयक्षिणीक्रूराशाकिनीडाकीनीगणाः ॥ ५७॥ राजमृत्युहरं देवि कवचं कामधेनुवत् । अनन्तफलदं देवि सति मोक्षं च पार्वति ॥ ५८॥ कवचेन विना मन्त्रं यो जपेद्गणनायकम् । इह जन्मानि पापिष्ठो जन्मान्ते मूषको भवेत् ॥ ५९॥ इति परमरहस्यं देवदेवार्चनं च कवचपरमदिव्यं पार्वती पुत्ररूपम् । पठति परमभोगैश्वर्यमोक्षप्रदं च लभति सकलसौख्यं शक्तिपुत्रप्रसादात् ॥ ६०॥ (इति परमरहस्यंदेवदेवार्चितस्य- कवचमुदितमेतत्पार्वतीशेन देव्यै पठति स लभ्यते वैभक्तितो भक्तवर्यः प्रचुरसकलसौख्यं शक्तिपुत्रप्रसादात् ॥) ॥ इति श्रीरुद्रयामलतन्त्रे उमामहेश्वरसंवादे श्रीमदुच्छिष्टगणेशकवचं समाप्तम् ॥

उच्छिष्टगणेशकवचम् (रुद्रयामलान्तर्गतम्) Read More »

श्रीगणपतिस्तोत्रम् समन्त्रकम्

नमो गणपतये तुभ्यं ज्येष्ठ ज्येष्ठाय ते नमः । स्मरणाद्यस्य ते विघ्ना न तिष्ठन्ति कदाचन ॥ १॥ देवानां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः । त्यक्त्वा त्वामिह कः कार्य-सिद्धिं जन्तुर्गमिष्यति ॥ २॥ स त्वं गणपतिः प्रीतो भव ब्रह्मादिपूजित ॥ चरणस्मरणात्तेऽपि ब्रह्माद्या यशस्विनः ॥ ३॥ परा परब्रह्मदाता सुराणां त्वं सुरो यतः । सन्मतिं देहि मे ब्रह्मपते ब्रह्मसमीडित ॥ ४॥ उक्तं हस्तिमुखश्रुत्या त्वं ब्रह्म परमित्यपि । कृतं वाहनमाखुस्ते कारणन्त्वत्र वेद नो ॥ ५॥ इयं महेश ते लीला न पस्पर्श यतो मतिः । त्वां न हेरम्ब कुत्रापि परतन्त्रत्वमीश ते ॥ ६॥ स त्वं कवीनां च कविर्देव आद्यो गणेश्वरः । अरविन्दाक्ष विद्येश प्रसन्नः प्रार्थनां श‍ृणु ॥ ७॥ त्वमेकदन्त विघ्नेश देव श‍ृण्वर्भकोक्तिवत् । सत्कवीनां मध्य एव नैकाण्वंश कविं कुरु ॥ ८॥ श्रीविनायक ते दृष्ट्या कोपि नूनं भवेत्कविः । तं त्वामुमासुतं नौमि सन्मतिप्रद कामद ॥ ९॥ ममापराधः क्षन्तव्यो नतिभिः सम्प्रसीद मे । न नमस्यविधिं जाने त्वं प्रसीदाद्य केवलम् ॥ १०॥ न मे श्रद्धा न मे भक्तिर्न त्वदर्चनपद्धतिः । ज्ञाता वदान्य ते स्मीति ब्रुवे साधनवर्जितः ॥ ११॥ कर्तुं स्तवं च तेऽनीशः प्रसीद कृपयोद्धर । प्रणामं कुर्वेऽतोऽनेन सदानन्द प्रसीद मे ॥ १२॥ मन्त्राद्याक्षरसहित गणानां त्वा गणपतिꣳ हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श‍ृण्वन्नूतिभिस्सीद सादनम् ॥ नमो ग णपतये तुभ्यं ज्येष्ठ ज्ये ष्ठाय ते नमः । स्मर णा द्यस्य ते विघ्ना न ति ष्ठ न्ति कदाचन ॥ १॥ देवा नां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः । त्यक्त्वा त्वा मिह कः कार्य-सिदिन्ध जं तुर्गमिष्यति ॥ २॥ स त्वं ग णपतिः प्रीतो भव ब्र ह्मादिपूजित । चर ण स्मरणात्तेऽपि ब्र ह्मा द्या यशस्विनः ॥ ३॥ परा प रब्रह्मदाता सुरा णां त्वं सुरो यतः । सन्म तिं देहि मे ब्रह्मपते ब्र ह्मसमीडित ॥ ४॥ उक्तं ह स्तिमुखश्रुत्या त्वं ब्र ह्म परमित्यपि । कृतं वा हनमाखुस्ते कार ण न्त्वत्र वेद नो ॥ ५॥ इयं म हेश ते लीला न प स्पर्श यतो मतिः । त्वां न हे रम्ब कुत्रापि पर त न्त्रत्वमीश ते ॥ ६॥ स त्वं क वीनां च कवि-र्देव आ द्यो गणेश्वरः । अर विं दाक्ष विद्येश प्रसं नः प्रार्थनां श‍ृणु ॥ ७॥ त्वमे क दन्त विघ्नेश देव श‍ृ ण्वर्भकोक्तिवत् । सत्क वी नां मध्य एव नैका ण्वं श कविं कुरु ॥ ८॥ श्रीवि ना यक ते दृष्ट्या कोपि नू नं भवेत्कविः । तं त्वा मु मासुतं नौमि सन्म ति प्रद कामद ॥ ९॥ ममा प राधः क्षन्तव्यो नति भिः सम्प्रसीद मे । न न म स्यविधिं जाने त्वं प्र सी दाद्य केवलम् ॥ १०॥ न मे श्र द्धा न मे भक्तिर्न त्व द र्चनपद्धतिः । ज्ञाता व दान्य ते स्मीति ब्रुवे सा धनवर्जितः ॥ ११॥ कर्तुं स्त वं च तेऽनीशः प्रसी द कृपयोद्धर । प्रणा मं कुर्वेऽतोऽनेन सदा नं द प्रसीद मे ॥ १२॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं समन्त्रकं श्रीगणपतिस्तोत्रं सम्पूर्णम् ।

श्रीगणपतिस्तोत्रम् समन्त्रकम् Read More »

श्रीउच्छिष्टगणपतिसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीभैरव उवाच । श‍ृणु देवि रहस्यं मे यत्पुरा सूचितं मया । तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥ श्रीदेव्युवाच । ॐ भगवन्गणनाथस्य उच्छिष्टस्य महात्मनः । श्रोतुं नाम सहस्रं मे हृदयं प्रोत्सुकायते ॥ २॥ श्रीभैरव उवाच । प्राङ्मुखे त्रिपुरानाथे जाता विघ्नकुलाः शिवे । मोहने मुच्यते चेतस्तैः सर्वैर्बलदर्पितैः ॥ ३॥ तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः । विघ्ना दूरात्पलायन्ते कालरुद्रादिव प्रजाः ॥ ४॥ तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः । तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥ ५॥ तदद्य तव भक्त्याहं साधकानां हिताय च । महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ ६॥ ॐ अस्य श्रीउच्छिष्टगणेशसहस्रनामस्तोत्रमन्त्रस्य श्रीभैरव ऋषिः । गायत्री छन्दः । श्रीमहागणपतिर्देवता । गं बीजम् । ह्रीं शक्तिः । कुरुकुरु कीलकम् । मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥ ॐ ह्रीं श्रीं क्लीं गणाध्यक्षो ग्लौं गँ गणपतिर्गुणी । गुणाढ्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ ७॥ विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी । सदा शान्तो जगत्त्राता विश्वावर्तो विभाकरः ॥ ८॥ विश्रम्भी विजयो वैद्यो वारान्निधिरनुत्तमः । अणिमाविभवः श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ ९॥ सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः । पतिः पीतविभूषाङ्को रक्ताक्षो लोहिताम्बरः ॥ १०॥ विरूपाक्षो विमानस्थो विनीतः सदस्यः सुखी । सात्वतः सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ ११॥ नन्दीश्वरो जयानन्दी वन्द्यः स्तुत्यो विचक्षणः । दैत्यमर्द्दी सदाक्षीबो मदिरारुणलोचनः ॥ १२॥ सारात्मा विश्वसारश्च विश्वसारो(२) विलेपनः । परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥ १३॥ विश्वेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्द्धनः । भृङ्गिरिटी भृङ्गमाली भृङ्गकूजितनादितः ॥ १४॥ विनर्तको विनीतोऽपि विनतानन्दनार्चितः । वैनतेयो विनम्राङ्गो विश्वनायकनायकः ॥ १५॥ विराटको विराटश्च विदग्धो विधुरात्मभूः । पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥ १६॥ पुष्पेषुमथनः पुष्टो विवर्तः कर्तरीकरः । अन्त्योऽन्तकश्चित्तगणाश्चित्तचिन्तापहारकः ॥ १७॥ अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः । लोहितो लिपितो लुप्तो लोहिताक्षो विलोभकः ॥ १८॥ लब्धाशयो लोभरतो लोभदोऽलङ्घ्यगर्धकः । सुन्दरः सुन्दरीपुत्रः समस्तासुरघातकः ॥ १९॥ नूपुराढ्यो विभवेन्द्रो नरनारायणो रविः । विचारो वान्तदो वाग्मी वितर्की विजयीश्वरः ॥ २०॥ सुजो बुद्धः सदारूपः सुखदः सुखसेवितः । विकर्तनो विपच्चारी विनटो नटनर्तकः ॥ २१॥ नटो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः । गङ्गाजलपानप्रियो गङ्गातीरविहारकृत् ॥ २२। गङ्गाप्रियो गङ्गजश्च वाहनादिपुरःसरः । गन्धमादनसंवासो गन्धमादनकेलिकृत् ॥ २३॥ गन्धानुलिप्तपूर्वाङ्गः सर्वदेवस्मरः सदा । गणगन्धर्वराजेशो गणगन्धर्वसेवितः ॥ २४॥ गन्धर्वपूजितो नित्यं सर्वरोगविनाशकः । गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ २५॥ गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतः । गन्धर्वगर्वसंवेगो गन्धर्ववरदायकः ॥ २६॥ गन्धर्वप्रबलार्तिघ्नो गन्धर्वगणसंयुतः । गन्धर्वादिगुणानन्दो नन्दोऽनन्तगुणात्मकः ॥ २७॥ विश्वमूर्तिर्विश्वधाता विनतास्यो विनर्तकः । करालः कामदः कान्तः कमनीयः कलानिधिः ॥ २८॥ कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः । विकरालो रणश्रेष्ठः संहारो हारभूषणः ॥ २९॥ उरुरभ्यमुखो रक्तो देवतादयितौरसः । महाकालो महादंष्ट्रो महोरगभयानकः ॥ ३०॥ उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः । सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् ॥ ३१॥ असितात्मा भैरवेशो भाग्यवान्भगवान्भवः । गर्भात्मजो भगावासो भगदो भगवर्द्धनः ॥ ३२॥ शुभङ्करः शुचिः शान्तः श्रेष्ठः श्रव्यः शचीपतिः । वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः ॥ ३३॥ विद्याप्रदो वेदरसो वैदिको वेदपारगः । वेदध्वनिरतो वीरो वेदविद्यागमोऽर्थवित् ॥ ३४॥ तत्त्वज्ञः सर्वगः साधुः सदयः सदसन्मयः । शिवशङ्करः शिवसुतः शिवानन्दविवर्द्धनः ॥ ३५॥ शैत्यः श्वेतः शतमुखो मुग्धो मोदकभूषणः । देवो दिनकरो धीरो धृतिमान्द्युतिमान्धवः ॥ ३६॥ शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः । शरण्यः शौनकः शूरः शरदम्भोजधारकः ॥ ३७॥ न् दारकः शिखिवाहेष्टः सितः शङ्करवल्लभः । शङ्करो निर्भयो नित्यो लयकृल्लास्यतत्परः ॥ ३८॥ लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः । भ्रमणः शशिभृत्सुर्यः शनिर्धरणिनन्दनः ॥ ३९॥ बुधो विबुधसेव्यश्च बुधराजो बलंधरः । जीवो जीवप्रदो जेता स्तुत्यो नित्यो रतिप्रियः ॥ ४०॥ जनको जनमार्गज्ञो जनरक्षणतत्परः । जनानन्दप्रदाता च जनकाह्लादकारकः ॥ ४१। विबुधो बुधमान्यश्च जैनमार्गनिवर्तकः । गच्छो गणपतिर्गच्छनायको गच्छगर्वहा ॥ ४२॥ गच्छराजोथ गच्छेथो गच्छराजनमस्कृतः । गच्छप्रियो गच्छगुरुर्गच्छत्राकृद्यमातुरः ॥ ४३॥ गच्छप्रभुर्गच्छचरो गच्छप्रियकृताद्यमः । गच्छगीतगुणोगर्तो मर्यादाप्रतिपालकः ॥ ४४॥ गीर्वाणागमसारस्य गर्भो गीर्वाणदेवता । गौरीसुतो गुरुवरो गौराङ्गो गणपूजितः ॥ ४५॥ परम्पदं परन्धाम परमात्मा कविः कुजः । राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः ॥ ४६॥ ग्रहेन्द्रो ग्रहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः । पर्जन्यः पीवरः पत्री पीनवक्षाः पराक्रमी ॥ ४७॥ वनेचरो वनस्पतिर्वनवासी स्मरोपमः । पुण्यः पूतः पवित्रश्च परात्मा पूर्णाविग्रहः ॥ ४८॥ पूर्णेन्दुसुकलाकारो मन्त्रपूर्णमनोरथः । युगात्मा युगकृद्यज्वा याज्ञिको यज्ञवत्सलः ॥ ४९॥ यशस्यो यजमानेष्टो वज्रभृद्वज्रपञ्जरः । मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः ॥ ५०॥ मीनध्वजो मनोहारी योगिनां योगवर्धनः । द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः ॥ ५१॥ तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः । सम्पत्तिसदनाकारः सम्पत्तिसुखदायकः ॥ ५२॥ सम्पत्तिसुखकर्ता च सम्पत्तिसुभगाननः । सम्पत्तिशुभदो नित्यसम्पत्तिश्च यशोधनः ॥ ५३॥ रुचको मेचकस्तुष्टः प्रभुस्तोमरघातकः । दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ ५४॥ कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः । भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ ५५॥ जालन्धरो जगद्वासी हास्यकृद्गहनो गुहः । हविष्मान्हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ ५६॥ सुमेरुर्हिमवान्होता हरपुत्रो हलङ्कषः । हालाप्रियो हृदा शान्तः कान्ताहृदयपोषणः ॥ ५७॥ शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः । कुबेरो धीमयो ध्याता ध्येयो धीमान्दयानिधिः ॥ ५८॥ दविष्ठो दमनो हृष्टो दाता त्राता पितासमः । निर्गतो नैगमोऽगम्यो निर्जयो जटिलोऽजरः ॥ ५९॥ जनजीवो जितारातिर्जगद्व्यापी जगन्मयः । चामीकरनिभो नाभ्यो नलिनायतलोचनः ॥ ६०॥ रोचनो मोचको मन्त्री मन्त्रकोटिसमाश्रितः । पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ ६१॥ पञ्चमः पश्चिमः पूर्वः पूर्णः कीर्णालकः कुणिः । कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः ॥ ६२॥ लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् । ध्रुवो द्रुतगतिर्बन्धो धर्मी नाकिप्रियोऽनलः ॥ ६३॥ अङ्गुल्यग्रस्थभुवनो भुवनैकमलापहः । सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ ६४॥ सतीपतिः समरसः सनकः सरलः सरः । सुरप्रियो वसुमतिर्वासवो वसुपूजितः ॥ ६५॥ वित्तदो वित्तनाथश्च धनिनां धनदायकः । राजीवनयनः स्मार्तः स्मृतिदः कृत्तिकाम्बरः ॥ ६६॥ अश्विनोऽश्वमुखः शुभ्रो भरणो भरणीप्रियः । कृत्तिकासनकः कोलो रोहिणीरमणोपमः ॥ ६७॥ रौहिणेयप्रेमकरो रोहिणीमोहनो मृगः । मृगराजो मृगशिरा माधवो मधुरध्वनिः ॥ ६८॥ आर्द्राननो महाबुद्धिर्महोरगविभूषणः । भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥ ६९॥ पुनर्देव: पुनर्जेता पुनर्जीवः पुनर्वसुः । तिमिरास्तिमिकेतुश्च तिमिषासुरघातनः ॥ ७०॥ तिष्यस्तुलाधरो जृम्भो विश्लेषाश्लेषदानराट् । मानदो माधवो माधो वाचालो मघवोपमः ॥ ७१॥ मध्यो मघाप्रियो मेघो महाशुण्डो महाभुजः । पूर्वफाल्गुनिकः स्फीत फल्गुरुत्तरफाल्गुनः ॥ ७२॥ फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः । घोणाहस्तश्चतुर्हस्तो हस्तिवन्ध्यो हलायुधः ॥ ७३॥ चित्राम्बरार्चितपदः स्वस्तिदः स्वस्तिनिग्रहः । विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः ॥ ७४॥ अणुरेणूत्करः स्फारो रुरुरेणुसुतो नरः । अनुराधाप्रियो राधः श्रीमाञ्छुक्लः शुचिस्मितः ॥ ७५॥ ज्येष्ठः श्रेष्ठार्चितपदो मूलं च त्रिजगद्गुरुः । शुचिश्चैव पूर्वाषाढश्चोत्तराषाढ ईश्वरः ॥ ७६॥ श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः । श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः ॥ ७७॥ शातातपः शातकुम्भः शरज्ज्योतिः शताभिषक् । पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः ॥ ७८॥ रेणुकातनयो रामो रेवतीरमणो रमी । आश्वयुक्कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ । ७९॥ पोषेश्वरः फाल्गुनात्मा वसन्तश्चैत्रको मधुः । राज्यदोऽभिजिदात्मेयस्तारेशस्तारकद्युतिः ॥ ८०॥ प्रतीतः प्रोर्जितः प्रीतः परमः परमो हितः । परहा पञ्चभूः पञ्चवायुपूज्यपरिग्रहः ॥ ८१॥ पुराणागमविद्योगी महिषो रासभोऽग्रजः । ग्रहो मेषो मृषो मन्दो मन्मथो मिथुनाकृतिः ॥ ८२॥ कल्पभृत्कटको दीपो मर्कटः कर्कटो धृणिः । कुक्कुटो वनजो हंसः परमहंसः सृगालकः ॥ ८३॥ सिंहा सिंहासनाभूष्यो मद्गुर्मूषकवाहनः । पुत्रदो नरकत्राता कन्याप्रीतः कुलोद्वहः ॥ ८४॥ अतुल्यरूपो बलदस्तुल्यभृत्तुल्यसाक्षिकः । अलिश्चापधरो धन्वी कच्छपो मकरो मणिः ॥ ८५॥ कुम्भभृत्कलशः कुब्जो मीनमांससुतर्पितः । राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ ८६॥ प्रतापी प्रतिपत्प्रेयोऽद्वितीयोऽद्वैतनिश्चितः । त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ ८७॥ चतुर्थीवल्लभो देवो परागः पञ्चमीश्वरः । षड्रसास्वादविज्ञानः षष्ठीषष्टिकवत्सलः ॥ ८८॥ सप्तार्णवगतिः सारः सप्तमीश्वररोहितः । अष्टमीनन्दनोत्तंसो नवमीभक्तिभावितः ॥ ८९॥ दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः । एकादशात्मगणयो द्वादशीयुगचर्चितः ॥ ९०॥ त्रयोदशमणिस्तुत्यश्चतुर्दशस्वरप्रियः । चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ ९१॥ दर्शदर्शो दर्शनश्च वानप्रस्थो महेश्वरः । मौर्वी मधुरवाङ्मूलमूर्तिमान्मेघवाहनः ॥ ९२॥ महागजो जितक्रोधो जितशत्रुर्जयाश्रयः । रौद्रो रुद्रप्रियो रुद्रो रुद्रपुत्रोऽघनाशनः ॥ ९३॥

श्रीउच्छिष्टगणपतिसहस्रनामस्तोत्रम् Read More »

श्रीउच्छिष्टगणनाथस्य अष्टोत्तरशतनामावलिः

ॐ वन्दारुजनमन्दारपादपाय नमो नमः ॐ । १ ॐ चन्द्रार्धशेखरप्राणतनयाय नमो नमः ॐ । ॐ शैलराजसुतोत्सङ्गमण्डनाय नमो नमः ॐ । वन्दनाय ॐ वल्लीशवलयक्रीडाकुतुकाय नमो नमः ॐ । ॐ श्रीनीलवाणीललितारसिकाय नमो नमः ॐ । ॐ स्वानन्दभवनानन्दनिलयाय नमो नमः ॐ । ॐ चन्द्रमण्डलसन्दृष्यस्वरूपाय नमो नमः ॐ । ॐ क्षीराब्धिमध्यकल्पद्रुमूलस्थाय नमो नमः ॐ । ॐ सुरापगासिताम्भोजसंस्थिताय नमो नमः ॐ । ॐ सदनीकृतमार्ताण्डमण्डलाय नमो नमः ॐ । १० ॐ इक्षुसागरमध्यस्थमन्दिराय नमो नमः ॐ । ॐ चिन्तामणिपुराधीशसत्तमाय नमो नमः ॐ । ॐ जगत्सृष्टितिरोधानकारणाय नमो नमः ॐ । ॐ क्रीडार्थसृष्टभुवनत्रितयाय नमो नमः ॐ । ॐ शुण्डोद्धूतजलोद्भूतभुवनाय नमो नमः ॐ । ॐ चेतनाचेतनीभूतशरीराय नमो नमः ॐ । ॐ अणुमात्रशरीरान्तर्लसिताय नमो नमः ॐ । ॐ सर्ववश्यकरानन्तमन्त्रार्णाय नमो नमः ॐ । ॐ कुष्ठाद्यामयसन्दोहशमनाय नमो नमः ॐ । ॐ प्रतिवादिमुखस्तम्भकारकाय नमो नमः ॐ । २० ॐ पराभिचारदुष्कर्मनाशकाय नमो नमः ॐ । ॐ सकृन्मन्त्रजपध्यानमुक्तिदाय नमो नमः ॐ । ॐ निजभक्तविपद्रक्षादीक्षिताय नमो नमः ॐ । ॐ ध्यानामृतरसास्वाददायकाय नमो नमः ॐ । ॐ गुह्यपूजारताभीष्टफलदाय नमो नमः ॐ । कुलीयपूजा ॐ रूपौदार्यगुणाकृष्टत्रिलोकाय नमो नमः ॐ । ॐ अष्टद्रव्यहविःप्रीतमानसाय नमो नमः ॐ । ॐ अवताराष्टकद्वन्द्वप्रदानाय नमो नमः ॐ । भवताराष्टक ॐ भारतालेखनोद्भिन्नरदनाय नमो नमः ॐ । ॐ नारदोद्गीतरुचिरचरिताय नमो नमः ॐ /३० ॐ निखिलाम्नायसङ्गुष्ठवैभवाय नमो नमः ॐ । ॐ बाणरावणचण्डीशपूजिताय नमो नमः ॐ । ॐ इन्द्रादिदेवतावृन्दरक्षकाय नमो नमः ॐ । ॐ सप्तर्षिमानसालाननिश्चेष्टाय नमो नमः ॐ । ॐ आदित्यादिग्रहस्तोमदीपकाय नमो नमः ॐ । ॐ मदनागमसत्तन्त्रपारगाय नमो नमः ॐ । ॐ उज्जीवितेशसन्दग्धमदनाय नमो नमः ॐ । कुञ्जीविते ॐ शमीमहीरुहप्रीतमानसाय नमो नमः ॐ । ॐ जलतर्पणसम्प्रीतहृदयाय नमो नमः ॐ । ॐ कन्दुकीकृतकैलासशिखराय नमो नमः ॐ । ४० ॐ अथर्वशीर्षकारण्यमयूराय नमो नमः ॐ । ॐ कल्याणाचलश‍ृङ्गाग्रविहाराय नमो नमः ॐ । ॐ आतुनैन्द्रादिसामसंस्तुताय नमो नमः ॐ । ॐ ब्राह्म्यादिमातृनिवःपरीताय नमो नमः ॐ । ॐ चतुर्थावरणारक्षिदिगीशाय नमो नमः ॐ । रक्षिधीशाय ॐ द्वाराविष्टनिधिद्वन्द्वशोभिताय नमो नमः ॐ । ॐ अनन्तपृथिवीकूर्मपीठाङ्गाय नमो नमः ॐ । ॐ तीव्रादियोगिनीवृन्दपीठस्थाय नमो नमः ॐ । ॐ जयादिनवपीठश्रीमण्डिताय नमो नमः ॐ । ॐ पञ्चावरणमध्यस्थसदनाय नमो नमः ॐ । ५० ॐ क्षेत्रपालगणेशादिद्वारपाय नमो नमः ॐ । ॐ महीरतीरमागौरीपार्श्वकाय नमो नमः ॐ । ॐ मद्यप्रियादिविनयिविधेयाय नमो नमः ॐ । ॐ वाणीदुर्गांशभूतार्हकलत्राय नमो नमः ॐ । भूतार्ध ॐ वरहस्तिपिशाचीहृन्नन्दनाय नमो नमः ॐ । ॐ योगिनीशचतुष्षष्टिसंयुताय नमो नमः ॐ । ॐ नवदुर्गाष्टवसुभिस्सेविताय नमो नमः ॐ । ॐ द्वात्रिंशद्भैरवव्यूहनायकाय नमो नमः ॐ । ॐ ऐरावतादिदिग्दन्तिसंवृताय नमो नमः ॐ । ॐ कण्ठीरवमयूराखुवाहनाय नमो नमः ॐ । ६० ॐ मूषकाङ्कमहारक्तकेतनाय नमो नमः ॐ । ॐ कुम्भोदरकरन्यस्तपादाब्जाय नमो नमः ॐ । ॐ कान्ताकान्ततराङ्गस्थकराग्राय नमो नमः ॐ । ॐ अन्तस्थभुवनस्फीतजठराय नमो नमः ॐ । ॐ कर्पूरवीटिकासाररक्तोष्ठाय नमो नमः ॐ । ॐ श्वेतार्कमालासन्दीप्तकन्धराय नमो नमः ॐ । ॐ सोमसूर्यबृहद्भानुलोचनाय नमो नमः ॐ । ॐ सर्वसम्पत्प्रदामन्दकटाक्षाय नमो नमः ॐ । ॐ अतिवेलमदारक्तनयनाय नमो नमः ॐ । ॐ शशाङ्कार्धसमादीप्तमस्तकाय नमो नमः ॐ । ७० ॐ सर्पोपवीतहारादिभूषिताय नमो नमः ॐ । ॐ सिन्दूरितमहाकुम्भसुवेषाय नमो नमः ॐ । ॐ आशावसनतादृष्यसौन्दर्याय नमो नमः ॐ । ॐ कान्तालिङ्गनसञ्जातपुलकाय नमो नमः ॐ । ॐ पाशाङ्कुशधनुर्बाणमण्डिताय नमो नमः ॐ । ॐ दिगन्तव्याप्तदानाम्बुसौरभाय नमो नमः ॐ । ॐ सायन्तनसहस्रांशुरक्ताङ्गाय नमो नमः ॐ । ॐ सम्पूर्णप्रणवाकारसुन्दराय नमो नमः ॐ । ॐ ब्रह्मादिकृतयज्ञाग्निसम्भूताय नमो नमः ॐ । ॐ सर्वामरप्रार्थनात्तविग्रहाय नमो नमः ॐ । ८० ॐ जनिमात्रसुरत्रासनाशकाय नमो नमः ॐ । ॐ कलत्रीकृतमातङ्गकन्यकाय नमो नमः ॐ । ॐ विद्यावदसुरप्राणनाशकाय नमो नमः ॐ । ॐ सर्वमन्त्रसमाराध्यस्वरूपाय नमो नमः ॐ । ॐ षट्कोणयन्त्रपीठान्तर्लसिताय नमो नमः ॐ । ॐ चतुर्नवतिमन्त्रात्मविग्रहाय नमो नमः ॐ । ॐ हुङ्गङ्क्लाङ्ग्लाम्मुखानेकबीजार्णाय नमो नमः ॐ । ॐ बीजाक्षरत्रयान्तस्थशरीराय नमो नमः ॐ । ॐ हृल्लेखागुह्यमन्त्रान्तर्भाविताय नमो नमः ॐ । बीजमन्त्रान्तर्भाविताय ॐ स्वाहान्तमातृकामालारूपाध्याय नमो नमः ॐ । ९० ॐ द्वात्रिंशदक्षरमयप्रतीकाय नमो नमः ॐ । ॐ शोधनानर्थसन्मन्त्रविशेषाय नमो नमः ॐ । ॐ अष्टाङ्गयोगिनिर्वाणदायकाय नमो नमः ॐ । ॐ प्राणेन्द्रियमनोबुद्धिप्रेरकाय नमो नमः ॐ । ॐ मूलाधारवरक्षेत्रनायकाय नमो नमः ॐ । ॐ चतुर्दलमहापद्मसंविष्टाय नमो नमः ॐ । ॐ मूलत्रिकोणसंशोभिपावकाय नमो नमः ॐ । ॐ सुषुम्नारन्ध्रसञ्चारदेशिकाय नमो नमः ॐ । ॐ षट्ग्रन्थिनिम्नतटिनीतारकाय नमो नमः ॐ । ॐ दहराकाशसंशोभिशशाङ्काय नमो नमः ॐ । १०० ॐ हिरण्मयपुराम्भोजनिलयाय नमो नमः ॐ । ॐ भ्रूमध्यकोमलारामकोकिलाय नमो नमः ॐ । ॐ षण्णवद्वादशान्तस्थमार्ताण्डाय नमो नमः ॐ । ॐ मनोन्मणीसुखावासनिर्वृताय नमो नमः ॐ । ॐ षोडशान्तमहापद्ममधुपाय नमो नमः ॐ । ॐ सहस्रारसुधासारसेचिताय नमो नमः ॐ । ॐ नादबिन्दुद्वयातीतस्वरूपाय नमो नमः ॐ । ॐ उच्छिष्टगणनाथाय महेशाय नमो नमः ॐ । १०८ यति श्रीरामानन्देन्द्रसरस्वतीस्वामिगल् (शान्ताश्रम, तञ्जावुर १९५९)

श्रीउच्छिष्टगणनाथस्य अष्टोत्तरशतनामावलिः Read More »