- Version
- Download 664
- File Size 0.00 KB
- File Count 1
- Create Date October 8, 2023
- Last Updated October 8, 2023
श्रीगणेश्वरप्रमाणिका
ॐ
श्रीरामजयम् ।
सद्गुरु श्रीत्यागराजस्वामिने नमो नमः ।
ॐ विनायकाय विद्महे । विघ्नघ्नाय च धीमहि ।
तन्नो दन्तिः प्रचोदयात् ॥
अथ श्रीगणेश्वरप्रमाणिका ।
गणेशनाममोदनं कराम्बुजस्थमोदकम् ।
वरप्रसाददैविकं सुरासुरार्चितं वरम् ॥ १॥
कुविघ्नवारणं गणं सुहासहस्तिवक्त्रकम् ।
शिवाशिवस्य पुत्रकं शिवाकरं शिवंकरम् ॥ २॥
सुकार्यसादरानुतं सुकाव्यपुष्पवर्षकम् ।
सुभाषदं सुगानदं सुनामकीर्तनामुदम् ॥ ३॥
सुनामकं सुबोधदं लयश्रुतिप्रनृत्यकम् ।
सुकाव्यनादरासकं सुरासशब्दभावकम् ॥ ४॥
सुरागदं विरागदं लयाश्रयं लयास्पदम् ।
सदामुदं मुदारसं सदा भजे गणेश्वरम् ॥ ५॥
गणेश्वरप्रमाणिका गणेश्वरप्रसादिका ।
गणेश्वरप्रसादजा गणेश्वरप्रसाददा ॥ ६॥
प्रसादकाय मङ्गलं रुजापहाय मङ्गलम् ।
गणेश्वराय मङ्गलं सुमङ्गलाय मङ्गलम् ॥ ७॥
गुरुप्रगेयनाटकं गुरुप्रसन्नकीर्तनम् ।
गुरुप्रसादकीर्तितं गुरुप्रसादमङ्गलम् ॥ ८॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता
श्रीगणेश्वरप्रमाणिका गुरौ समर्पिता ।
ॐ शुभमस्तु ।
Download