Krishnamangalam

shrIkRiShNadvAdashama~njarI: श्रीकृष्णद्वादशमञ्जरी

shrIkRiShNadvAdashama~njarI: श्रीकृष्णद्वादशमञ्जरी ॥ श्री श्रीधरवेंकटेशार्येण कृता ॥ दुराशान्धो-ऽमुष्मिन्विषय-विसरावर्तजठरेतृणच्छन्ने कूपे तृणकबललुब्धः पशुरिव ।पतित्वा खिद्येऽसावगतिरित उद्धृत्य कलयेःकदा मां कृष्ण त्वत्पदकमललाभेन सुखितम् ॥ १॥ कथंचि-द्यच्चित्ते कमलभव-कामान्तकमुखाःवहन्तो मज्जन्ति स्वय-मनवधौ हर्षजलधौ ।Vक्व तद्दिव्य-श्रीमच्चरणकमलं कृष्ण भवतःक्व चाहं तत्रेहा मम शुन इवा-खण्डलपदे ॥ २॥ दुरापस्त्वं कृष्ण स्मरहर-मुखानां तदपि तेक्षतिः का कारुण्या-दगतिरिति मां लालयसि चेत् ।प्रपश्यन् रथ्यायां शिशु-मगति-मुद्दामरुदितंन सम्राडप्यङ्गे दधदुरुदयस्सान्त्वयति किम् ॥ ३॥

shrIkRiShNadvAdashama~njarI: श्रीकृष्णद्वादशमञ्जरी Read More »