Shri Krishna PrAtahsmarana Stotram: श्रीकृष्णप्रातःस्मरणस्तोत्रम्
Shri Krishna PrAtahsmarana Stotram: श्रीकृष्णप्रातःस्मरणस्तोत्रम् प्रातः स्मरामि युगकेलिरसाभिषिक्तं वृन्दावनं सुरमणीयमुदारवृक्षम् ।सौरीप्रवाहवृतमात्मगुणप्रकाशं युग्माङ्घ्रिरेणुकणिकाञ्चितसर्वसत्त्वम् ॥ १॥ प्रातः स्मरामि दधिघोषविनीतनिद्रं निद्रावसानरमणीयमुखानुरागम् ।उन्निद्रपद्मनयनं नवनीरदाभं हृदानवद्यललनाञ्चितवामभागम् ॥ २॥ प्रातर्भजामि शयनोत्थितयुग्मरूपं सर्वेश्वरं सुखकरं रसिकेशभूपम् ।अन्योन्यकेलिरसचिह्नसखीदृगौघं सख्यावृतं सुरतकाममनोहरं च ॥ ३॥ प्रातर्भजे सुरतसारपयोधिचिह्नं गण्डस्थलेन नयनेन च सन्दधानौ ।रत्याद्यशेषशुभदौ समुपेतकामौ श्रीराधिकावरपुरन्दरपुण्यपुञ्जौ ॥ ४॥ प्रातर्धरामि हृदयेन हृदीक्षणीयं युग्मस्वरूपमनिशं सुमनोहरं च ।लावण्यधाम ललनाभिरुपेयमानम् उत्थाप्यमानमनुमेयमशेषवेषैः ॥
Shri Krishna PrAtahsmarana Stotram: श्रीकृष्णप्रातःस्मरणस्तोत्रम् Read More »


KARMASU