Shri Krishnamangalam:कृष्णमङ्गलम् २ (मङ्गलं यादवेन्द्राय)
Shri Krishnamangalam: श्रीकृष्णमङ्गलम् मङ्गलं यादवेन्द्राय महनीयगुणाब्धये । (महनीयगुणात्मने) ।वसुदेवतनूजाय वासुदेवाय मङ्गलम् ॥ १॥ किरीटकुण्डलभ्राजदलकैर्यन्मुखश्रिये ।श्रीवत्सकौस्तुभोद्भासि वक्षसे चास्तु मङ्गलम् ॥ २॥ नीलाम्बुदनिकाशाय विद्युत्सदृशवाससे ।देवकीवसुदेवाभ्यां संस्तुतायास्तु मङ्गलम् ॥ ३॥ ताभ्यां सम्प्रार्थितायाथ प्राकृतार्भकरूपिणे ।यशोदाय गृहं पित्रा प्रापितायास्तु मङ्गलम् ॥ ४॥ पूतनाऽसुपयःपानपेशलायाऽसुरारिणे ।शकटासुर विध्वंसि पादपद्माय मङ्गलम् ॥ ५॥ यशोदाऽऽलोकिते स्वास्ये विश्वरूपप्रदर्शिने ।मायामानुषरूपाय माधवायास्तु मङ्गलम् ॥ ६॥ तृणावर्तदनूजासु हारिणे शुभकारिणे
Shri Krishnamangalam:कृष्णमङ्गलम् २ (मङ्गलं यादवेन्द्राय) Read More »


KARMASU