haridrAgaNeshakavacham: हरिद्रागणेशकवचम्
haridrAgaNeshakavacham: हरिद्रागणेशकवचम् श्रीगणेशाय नमः ।ईश्वर उवाच ।शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥ १॥ अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥ ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥ गणाक्रीडो नेत्रयुग्मं नासायां गणनायकः ।गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥ जिह्वायां सुमुखः


KARMASU