annapUrNAstotram 2: अन्नपूर्णास्तोत्रम् २
annapUrNAstotram 2: अन्नपूर्णास्तोत्रम् २ श्रीब्रह्मभैरव उवाच –साधनानि च सर्वाणि श्रुतानि तव सुव्रत ।इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥ श्रीशिव उवाच –कथयामि तव स्नेहात् स्तोत्राणि कवचानि च ।अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥ ह्रींकारं प्रथमं नमो भगवति स्वाहावसानां ध्रुवं मन्त्रं सप्तदशाक्षरं जपति ते माहेश्वरि प्रोक्षितम् ।ध्यायेऽम्बे तरुणारुणं तव वपुर्नित्यान्नपूर्णे शिवे गेहे तस्य विराजते सरभसं दिव्यान्नराशिर्ध्रुवम् ॥


KARMASU