KARMASU

Lakshmanakritam

Shri Lakshminrisimhastavana Stotram:श्रीलक्ष्मीनृसिंहस्तवनस्तोत्रम्

श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः ।
अथ ध्यानम् ।
लक्ष्मीशोभितवामभागममलं सिंहासने सुन्दरं
सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरम् ।
सर्पाधीशकृतान्तपत्रममलं Lakshminrisimhastavana श्रीवत्सवक्षःस्थलं
वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥ १॥

नमोऽस्तु लीलामयविग्रहाय स्वरूपदृष्ट्या हतसद्भ्रमाय ।
नमः परानन्दपरालयाय स्वभावसम्पत्तिमहोदयाय ॥ २॥

नमो गुणानां पतये महिम्ने विकारधाम्नेऽखिलकारणाय ।
नमो जगद्भासयते गरिम्णे सते चिदात्माकृतये गुणाय ॥ ३॥

त्वमादिरस्यासि निदानमध्यं विश्वाकृतिस्त्वं प्रलयो विभुस्त्वम् ।
त्वं सर्वयोनिस्त्वं सर्वयोनिस्त्वं सर्वशोऽसि त्वं सर्वशश्च ॥ ४॥

नमः पुरस्तादथ पार्श्वयोस्ते पश्चान्नमो ते बहिरीश्वराय ।
पूर्णाद्वितीयाय नमः पराय अणीयसेऽनन्तचिदे परस्मै ॥ ५॥

वह्नेः स्फुल्लिङ्गा इव वारिभझ सिन्धोरिवौघा इव वासनानाम् ।
भवन्ति तिष्ठन्ति वियन्ति यत्र ब्रह्माण्डसङ्घास्तमजं प्रपद्ये ॥ ६॥


यदीक्षया जनिरस्या प्रमेयो विभुर्नृसिंहो वरदो ममास्तु ।
येनाहमस्मिन् विविधेऽत्रसर्गे सम्प्रेरितः कालविनष्टदृष्टिः ॥ ७॥

यस्यादेशात् सर्गकर्मप्रवृत्तो भूत्वाप्यहं कालसम्मूढचेताः ।
स पुण्यवाचा ममसृष्टीमेतामलङ्करोतु प्रभविष्णुरीशः ॥ ८॥

इहैष लोके ह्यसमीक्ष्य बद्धो मायागुणैः कामयते तु कामान् ।
यच्छन्नमुष्मै य इहाप्रमेयो हरन्त्यनन्तो निमिषं प्रसीद ॥ ९॥

नमो नियन्त्रे नियमालयाय नमो जगन्मोहतमोरुणाय ।
नमो नृसिंहाय विलासधाम्ने नमः शिवायामितविक्रमाय ॥ १०॥

नमो मनोदूरचराय वाचां वाचामनिर्देश्य पदाय भूम्ने ।
नमः स्वभासाखिलभासकाय प्रमाणमात्रे जगदीश्वराय ॥ ११॥

इति पद्मपुराणे श्रीनृसिंहस्तवनं सम्पूर्णम् । ॐ तत्सत् ।

Leave a Reply

Your email address will not be published. Required fields are marked *