Loading...

KARMASU

Matangi Hridaya Stotra

Matangi Stotra:नमामि वरदां देवीं सुमुखीं सर्वसिद्धिदाम् 
सूर्यकोटिनिभां देवीं वह्निरूपां व्यवस्थिताम् ॥ १ ॥

रक्तवस्त्र नितम्बां च रक्तमाल्योपशोभिताम् ।
गुंजाहारस्तनाढ्यान्तां परंज्योतिस्वरूपिणीम् ॥ २ ॥

मारणं मोहनं वश्यं स्तम्भनाकर्ष दायिनी ।
मुण्ड कर्त्रिं शरावामां परंज्योतिस्वरूपिणीम् ॥ ३ ॥

स्वयम्भुकुसुम प्रीतां ऋतुयोनिनिवासिनीम् ।
शवस्थां स्मेरवदनां परंज्योतिस्वरूपिणीम् ॥ ४ ॥

रजस्वला भवेन्नित्यं पूजेष्टफलदायिनी ।
मद्यप्रियं रतिमयीं परंज्योतिस्वरूपिणीम् ॥ ५॥

शिवविष्णुविरञ्चीनां साद्यां बुद्धिप्रदायिनीम् ।
असाध्यं साधिनीं नित्यां परंज्योतिस्वरूपिणीम् ॥ ६॥

रात्रौ पूजा बलियुतां गोमांस रुधिरप्रियाम् ।
नानाऽलङ्कारिणीं रौद्रीं पिशाचगणसेविताम् ॥ ७ ॥

इत्यष्टकं पठेद्यस्तु ध्यानरूपां प्रसन्नधीः ।
शिवरात्रौ व्रतेरात्रौ वारूणी दिवसेऽपिवा ॥ ८ ॥

पौर्णमास्याममावस्यां शनिभौमदिने तथा ।
सततं वा पठेद्यस्तु तस्य सिद्धि पदे पदे ॥ ९ ॥

॥ एकजटा कल्पलतिका शिवदीक्षायान्तर्गतम् मातंगी स्तोत्र सम्पूर्णम् ॥

Matangi Stotra

Leave a Reply

Your email address will not be published. Required fields are marked *