
Lakshmanakritam Ramanatha Stotram: लक्ष्मणकृतं रामनाथस्तोत्रम्
लक्ष्मण उवाच ।
नमस्ते रामनाथाय त्रिपुरघ्नाय शम्भवे ।
पार्वतीजीवितेशाय गणेशस्कन्दसूनवे ॥ १३॥
नमस्ते सूर्यचद्राग्निलोचनाय कपर्दिने ।
नमः शिवाय सोमाय मार्कण्डेयभयच्छिदे ॥ १४॥
नमः सर्वप्रपञ्चस्य सृष्टिस्थित्यन्तहेतवे ।
नम उग्राय भीमाय महादेवाय साक्षिणे ॥ १५॥
सर्वज्ञाय वरेण्याय वरदाय वराय ते ।
श्रीकण्ठाय नमस्तुभ्यं पञ्चपातकभेदिने ॥ १६॥
नमस्तेऽस्तु परानन्दसत्यविज्ञानरूपिणे ।
नमस्ते भवरोगघ्न स्नायूनां पतये नमः ॥ १७॥
पतये तस्कराणां ते वनानां पतये नमः ।
गणानां पतये तुभ्यं विश्वरूपाय साक्षिणे ॥ १८॥
कर्मणा प्रेरितः शम्भो जनिष्ये यत्र यत्र तु ।
तत्र तत्र पदद्वन्द्वे भवतो भक्तिरस्तु मे ॥ १९॥
असन्मार्गे रतिर्मा भूद्भवतः कृपया मम ।
वैदिकाचारमार्गे च रतिः स्याद्भवते नमः ॥ १.४९.२०॥
इति श्रीस्कन्दपुराणे ब्रह्मखण्डे सेतुखण्डे एकोनपञ्चाशत्तमाध्यायान्तर्गतं
लक्ष्मणकृतं रामनाथस्तोत्रं समाप्तम् ।
स्कन्दपुराण । ब्रह्मखण्ड । सेतुल्खण्ड । अध्याय ४९/१३-२०॥