• Version
  • Download 658
  • File Size 0.00 KB
  • File Count 1
  • Create Date October 8, 2023
  • Last Updated October 8, 2023
 श्रीगणेश्वरप्रमाणिका 

                ॐ
           श्रीरामजयम् ।
सद्गुरु श्रीत्यागराजस्वामिने नमो नमः ।

ॐ विनायकाय विद्महे । विघ्नघ्नाय च धीमहि ।
तन्नो दन्तिः प्रचोदयात् ॥

       अथ श्रीगणेश्वरप्रमाणिका ।
गणेशनाममोदनं कराम्बुजस्थमोदकम् ।
वरप्रसाददैविकं सुरासुरार्चितं वरम्  ॥ १॥

कुविघ्नवारणं गणं सुहासहस्तिवक्त्रकम् ।
शिवाशिवस्य पुत्रकं शिवाकरं शिवंकरम्  ॥ २॥

सुकार्यसादरानुतं सुकाव्यपुष्पवर्षकम् ।
सुभाषदं सुगानदं सुनामकीर्तनामुदम् ॥ ३॥

सुनामकं सुबोधदं लयश्रुतिप्रनृत्यकम् ।
सुकाव्यनादरासकं सुरासशब्दभावकम्  ॥ ४॥

सुरागदं विरागदं लयाश्रयं लयास्पदम् ।
सदामुदं मुदारसं सदा भजे गणेश्वरम्  ॥ ५॥

गणेश्वरप्रमाणिका गणेश्वरप्रसादिका ।
गणेश्वरप्रसादजा  गणेश्वरप्रसाददा ॥ ६॥

प्रसादकाय मङ्गलं रुजापहाय मङ्गलम् ।
गणेश्वराय मङ्गलं सुमङ्गलाय मङ्गलम्  ॥ ७॥

गुरुप्रगेयनाटकं गुरुप्रसन्नकीर्तनम् ।
गुरुप्रसादकीर्तितं गुरुप्रसादमङ्गलम् ॥ ८॥

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता
श्रीगणेश्वरप्रमाणिका गुरौ समर्पिता ।
ॐ शुभमस्तु ।

Download

Leave a Reply

Your email address will not be published. Required fields are marked *