shrIlakShmInArAyaNakavacham:श्रीलक्ष्मीनारायणकवचम्
shrIlakShmInArAyaNakavacham: श्रीलक्ष्मीनारायणकवचम् श्रीगणेशाय नमः ।श्रीभैरव उवाच ।अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते ।कवचं मन्त्रगर्भं च वज्रपञ्जरकाख्यया ॥ १॥ श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् ।रहस्यं सर्वदेवानां साधकानां विशेषतः ॥ २॥ यं धृत्वा भगवान् देवः प्रसीदति परः पुमान् ।यस्य धारणमात्रेण ब्रह्मा लोकपितामहः ॥ ३॥ ईश्वरोऽहं शिवो भीमो वासवोऽपि दिवस्पतिः ।सूर्यस्तेजोनिधिर्देवि चन्द्रर्मास्तारकेश्वरः ॥ ४॥ वायुश्च बलवांल्लोके वरुणो यादसाम्पतिः ।कुबेरोऽपि धनाध्यक्षो धर्मराजो यमः स्मृतः ॥ ५॥ यं धृत्वा सहसा विष्णुः संहरिष्यति दानवान् ।जघान रावणादींश्च किं वक्ष्येऽहमतः परम् ॥ ६॥ कवचस्यास्य सुभगे कथितोऽयं मुनिः शिवः ।त्रिष्टुप् छन्दो देवता च लक्ष्मीनारायणो मतः ॥ ७॥ रमा बीजं परा शक्तिस्तारं कीलकमीश्वरि ।भोगापवर्गसिद्ध्यर्थं shrIlakShmInArAyaNakavacham विनियोग इति स्मृतः ॥ ८॥ ॐ अस्य श्रीलक्ष्मीनारायणकवचस्य शिवः ऋषिः ,त्रिष्टुप् छन्दः , श्रीलक्ष्मीनारायण देवता ,श्रीं बीजं , ह्रीं शक्तिः , ॐ कीलकं ,भोगापवर्गसिद्ध्यर्थे पाठे विनियोगः ।अथ ध्यानम् ।पूर्णेन्दुवदनं पीतवसनं कमलासनम् ।लक्ष्म्या श्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥ ९॥ shrIlakShmInArAyaNakavacham: अथ कवचम् ।ॐ वासुदेवोऽवतु मे मस्तकं सशिरोरुहम् ।ह्रीं ललाटं सदा पातु लक्ष्मीविष्णुः समन्ततः ॥ १०॥ ह्सौः नेत्रेऽवताल्लक्ष्मीगोविन्दो जगतां पतिः ।ह्रीं नासां सर्वदा पातु लक्ष्मीदामोदरः प्रभुः ॥ ११॥ श्रीं मुखं सततं पातु देवो लक्ष्मीत्रिविक्रमः ।लक्ष्मी कण्ठं सदा पातु देवो लक्ष्मीजनार्दनः ॥ १२॥ नारायणाय बाहू मे पातु लक्ष्मीगदाग्रजः ।नमः पार्श्वौ सदा पातु लक्ष्मीनन्दैकनन्दनः ॥ १३॥ अं आं इं ईं पातु वक्षो ॐ लक्ष्मीत्रिपुरेश्वरः ।उं ऊं ऋं ॠं पातु कुक्षिं ह्रीं लक्ष्मीगरुडध्वजः ॥ १४॥ लृं लॄं एं ऐं पातु पृष्ठं ह्सौः लक्ष्मीनृसिंहकः ।ओं औं अं अः पातु नाभिं ह्रीं लक्ष्मीविष्टरश्रवः ॥ १५॥ कं खं गं घं गुदं पातु श्रीं लक्ष्मीकैटभान्तकः ।चं छं जं झं पातु शिश्र्नं लक्ष्मी लक्ष्मीश्वरः प्रभुः ॥ १६॥ टं ठं डं ढं कटिं पातु नारायणाय नायकः ।तं थं दं धं पातु चोरू नमो लक्ष्मीजगत्पतिः ॥ १७॥ पं फं बं भं पातु जानू ॐ ह्रीं लक्ष्मीचतुर्भुजः ।यं रं लं वं पातु जङ्घे ह्सौः लक्ष्मीगदाधरः ॥ १८॥ शं षं सं हं पातु गुल्फौ ह्रीं श्रीं लक्ष्मीरथाङ्गभृत् ।ळं क्षः पादौ सदा पातु मूलं लक्ष्मीसहस्रपात् ॥ १९॥ ङं ञं णं नं मं मे पातु लक्ष्मीशः सकलं वपुः ।इन्द्रो मां पूर्वतः पातु वह्निर्वह्नौ सदावतु ॥ २०॥ यमो मां दक्षिणे पातु नैरृत्यां निरृतिश्च माम् ।वरुणः पश्चिमेऽव्यान्मां वायव्येऽवतु मां मरुत् ॥ २१॥ उत्तरे धनदः shrIlakShmInArAyaNakavacham पायादैशान्यामीश्वरोऽवतु ।वज्रशक्तिदण्डखड्ग पाशयष्टिध्वजाङ्किताः ॥ २२॥ सशूलाः सर्वदा पान्तु दिगीशाः परमार्थदाः ।अनन्तः पात्वधो नित्यमूर्ध्वे ब्रह्मावताच्च माम् ॥ २३॥ दशदिक्षु सदा पातु लक्ष्मीनारायणः प्रभुः ।प्रभाते पातु मां विष्णुर्मध्याह्ने वासुदेवकः ॥ २४॥ दामोदरोऽवतात् सायं निशादौ नरसिंहकः ।सङ्कर्षणोऽर्धरात्रेऽव्यात् प्रभातेऽव्यात् त्रिविक्रमः ॥ २५॥ अनिरुद्धः सर्वकालं विश्वक्सेनश्च सर्वतः ।रणे राजकुले द्युते विवादे शत्रुसङ्कटेॐ ह्रीं ह्सौः ह्रीं श्रीं मूलं लक्ष्मीनारायणोऽवतु ॥ २६॥ ॐॐॐरणराजचौररिपुतः पायाच्च मां केशवःह्रींह्रींह्रींहह्हाह्सौः ह्सह्सौः वह्नेर्वतान्माधवः ।ह्रींह्रींह्रींजलपर्वताग्निभयतः पायादनन्तो विभुःश्रींश्रींश्रींशशशाललं प्रतिदिनं लक्ष्मीधवः पातु माम् ॥ २७॥ इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् ।लक्ष्मीनारायणस्येष्टं shrIlakShmInArAyaNakavacham चतुर्वर्गफलप्रदम् ॥ २८॥ सर्वसौभाग्यनिलयं सर्वसारस्वतप्रदम् ।लक्ष्मीसंवननं तत्त्वं परमार्थरसायनम् ॥ २९॥ मन्त्रगर्भं जगत्सारं रहस्यं त्रिदिवौकसाम् ।दशवारं पठेद्रात्रौ रतान्ते वैष्णवोत्तमः ॥ ३०॥ स्वप्ने वरप्रदं पश्येल्लक्ष्मीनारायणं सुधीः ।त्रिसन्ध्यं यः पठेन्नित्यं कवचं मन्मुखोदितम् ॥ ३१॥ स याति परमं धाम वैष्णवं वैष्णवेश्वरः ।महाचीनपदस्थोऽपि यः पठेदात्मचिन्तकः ॥ ३२॥ आनन्दपूरितस्तूर्णं लभेद् मोक्षं स साधकः ।गन्धाष्टकेन विलिखेद्रवौ भूर्जे जपन्मनुम् ॥ ३३॥ पीतसूत्रेण संवेष्ट्य सौवर्णेनाथ वेष्टयेत् ।धारयेद्गुटिकां मूर्ध्नि लक्ष्मीनारायणं स्मरन् ॥ ३४॥ रणे रिपुन् विजित्याशु कल्याणी गृहमाविशेत् ।वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥ ३५॥ सा बध्नीयान् कण्ठदेशे लभेत् पुत्रांश्चिरायुषः ।गुरुपदेशतो धृत्वा गुरुं ध्यात्वा मनुं जपन् ॥ ३६॥ वर्णलक्षपुरश्चर्या shrIlakShmInArAyaNakavacham फलमाप्नोति साधकः ।बहुनोक्तेन किं देवि कवचस्यास्य पार्वति ॥ ३७॥ विनानेन न सिद्धिः स्यान्मन्त्रस्यास्य महेश्वरि ।सर्वागमरहस्याढ्यं तत्त्वात् तत्त्वं परात् परम् ॥ ३८॥ अभक्ताय न दातव्यं कुचैलाय दुरात्मने ।दीक्षिताय कुलीनाय स्वशिष्याय महात्मने ॥ ३९॥ महाचीनपदस्थाय दातव्यं कवचोत्तमम् ।गुह्यं गोप्यं महादेवि लक्ष्मीनारायणप्रियम् ।वज्रपञ्जरकं वर्म गोपनीयं स्वयोनिवत् ॥ ४०॥ ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्येलक्ष्मीनारायणकवचं सम्पूर्णम् ॥
shrIlakShmInArAyaNakavacham:श्रीलक्ष्मीनारायणकवचम् Read More »

KARMASU