KRISHNA MANTRA

nAmAvali

Ekadanta Stuti Naradamunikrita: नारदमुनिकृता एकदन्तस्तुतिः

Ekadanta Stuti Naradamunikrita: नारदमुनिकृता एकदन्तस्तुतिः ॥ श्रीगणेशाय नमः ॥नारद उवाच ।नमामि गणनाथं तं सर्वविघ्नविनाशिनम् ।वेदान्तागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥ ४०॥मनोवाणीविहीनं नो मनोवाणीमयं न च ।ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥ ४१॥त्वद्दर्शनेन हेरम्ब कृतकृत्योऽहमञ्जसा ।इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥ ४२॥पूजयित्वा गणेशानं पुनस्तुष्टाव नारदः ।रोमाञ्चितशरीरोऽसौ भावयुक्तो महामुनिः ॥ ४३॥नमो नमो गणेशाय विघ्नराजाय ते नमः ।भक्तानां विघ्नहन्त्रे चाभक्तानां विघ्नकारिणे ॥ ४४॥ अमेयमायया चैव संयुक्ताय नमो नमः ।योगरूपाय वै तुभ्यं योगिभ्यो मोहदाय ते ॥ ४५॥विनायकाय सर्वेश नमश्चिन्तामणे नमः ।अनन्तमहिमाधार नमस्ते चन्द्रमौलये ॥ ४६॥एकदन्ताय देवाय मायिभ्यो मोहदाय ते ।नमो नमः परेशाय परात्परतमाय ते ॥ ४७॥निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे ।महाखुवाहनायैव मूषकध्वजधारिणे ॥ ४८॥अनादये नमस्तुभ्यं ज्येष्ठराजाय ढुण्ढये ।हर्त्रे कर्त्रे सदा पात्रे नानाभेदमयाय च ॥ ४९॥त्वद्दर्शनसुधापानाद्धतं मे भ्रान्तिजं महत् ।मरणं भिन्नभावाख्यं गणेशोऽहं कृतस्त्वया ॥ ५०॥न भिन्नं परिपश्यामि त्वदृते गणनायक ।शान्तिदं योगमासाद्य प्रसादात्ते न संशयः ॥ ५१॥भक्तिं देहि गणाधीश परां त्वत्पादपद्मयोः ।कुरु मां गाणपत्यं त्वं प्रेमयुक्तं च ते पदि ॥ ५२॥इत्युक्त्वा विररामाथ तं पुनर्गणपोऽवदत् ।मदीया भक्तिरत्यन्तं भविष्यति सदाऽचला ॥ ५३॥ (फलश्रुतिः)एकदन्त उवाच ।न योगाच्चलनं क्वापि भविष्यति महामुने ।सदा योगीन्द्रपूज्यस्त्वं सर्वमान्यो भविष्यसि ॥ ५४॥त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् ।पठते श‍ृण्वते चैव भुक्तिमुक्तिप्रदायकम् ॥ ५५॥इत्युक्त्वा तस्य हृदये ययौ लीनो गजाननः ।सदा हृदि गणेशानं पश्यति स्म मुनिः स्वयम् ॥ ५६॥इत्याख्यानं नारदीयं कथितं ते प्रजापते ।श‍ृणुयाद्यः पठेद्वा यः सोऽपि सद्गतिमाप्नुयात् ॥ ५७॥ इति नारदमुनिकृता एकदन्तस्तुतिः सम्पूर्णा ॥ – ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ३ । २.३ ४०-५७॥

Ekadanta Stuti Naradamunikrita: नारदमुनिकृता एकदन्तस्तुतिः Read More »

Krishnamangalam

Shri Krishnamangalam:कृष्णमङ्गलम् २ (मङ्गलं यादवेन्द्राय)

Shri Krishnamangalam: श्रीकृष्णमङ्गलम् मङ्गलं यादवेन्द्राय महनीयगुणाब्धये । (महनीयगुणात्मने) ।वसुदेवतनूजाय वासुदेवाय मङ्गलम् ॥ १॥ किरीटकुण्डलभ्राजदलकैर्यन्मुखश्रिये ।श्रीवत्सकौस्तुभोद्भासि वक्षसे चास्तु मङ्गलम् ॥ २॥ नीलाम्बुदनिकाशाय विद्युत्सदृशवाससे ।देवकीवसुदेवाभ्यां संस्तुतायास्तु मङ्गलम् ॥ ३॥ ताभ्यां सम्प्रार्थितायाथ प्राकृतार्भकरूपिणे ।यशोदाय गृहं पित्रा प्रापितायास्तु मङ्गलम् ॥ ४॥ पूतनाऽसुपयःपानपेशलायाऽसुरारिणे ।शकटासुर विध्वंसि पादपद्माय मङ्गलम् ॥ ५॥ यशोदाऽऽलोकिते स्वास्ये विश्वरूपप्रदर्शिने ।मायामानुषरूपाय माधवायास्तु मङ्गलम् ॥ ६॥ तृणावर्तदनूजासु हारिणे शुभकारिणे ।वत्सासुरप्रभेत्रे च वत्सपालाय मङ्गलम् ॥ ७॥ दामोदराय वीराय यमलार्जुनपातिने ।धात्रा हृतानां वत्सानां रूपधर्त्रेऽस्तु मङ्गलम् ॥ ८॥ ब्रह्मस्तुताय कृष्णाय कालीयफणनृत्यते ।दावाग्निरक्षिताशेष गोगोपालाय मङ्गलम् ॥ ९॥ गोवर्धनाचलोद्घर्त्रे गोपी क्रीडाभिलाषिणे ।अञ्जल्याऽऽहृतवस्त्राणां सुप्रीतायास्तु मङ्गलम् ॥ १०॥ सुदर्शनाख्य गन्धर्व शापमोक्षणकारिणे ।शङ्खचूडशिरोहर्त्रे वृषभघ्नाय मङ्गलम् ॥ ११॥ गान्दिनीसुतसन्दृष्ट दिव्यरूपाय शौरिणे ।त्रिवक्रया प्रार्थिताय सुन्दराङ्गाय मङ्गलम् ॥ १२॥ गन्धमाल्याम्बराढ्याय गजराजविमर्दिने ।चाणूरमुष्टिकप्राणहारिणे चास्तु मङ्गलम् ॥ १३॥ कंसहन्त्रे जरासन्धबलमर्दन कारिणे ।मथुरापुरवासाय महाधीराय मङ्गलम् ॥ १४॥ मुचुकुन्द महानन्ददायिने परमात्मने ।रुक्मिणी परिणेत्रे च सबलायास्तु मङ्गलम् ॥ १५॥ द्वारकापुरवासाय हारनूपुरधारिणे ।सत्यभामासमेताय नरकघ्नाय मङ्गलम् ॥ १६॥ बाणासुरकरच्छेत्रे भूतनाथस्तुताय च ।धर्माहूताय यागार्थं शर्मदायास्तु मङ्गलम् ॥ १७॥ कारयित्रे जरासन्धवधं भीमेन राजभिः ।मुक्तैः स्तुताय तत्पुत्र राज्यदायास्तु मङ्गलम् ॥ १८॥ चैद्यतेजोपहर्त्रे च पाण्डवप्रियकारिणे ।कुचेलाय महाभाग्यदायिने तेऽस्तु मङ्गलम् ॥ १९॥ देव्यष्टक समेताय पुत्रपौत्रयुताय च ।षोडशस्त्री सहस्रैस्तु संयुतायास्तु मङ्गलम् ॥ २०॥ यश्शिष्टरक्षणपरः करुणाम्बुराशिः दुष्टासुरांशनृपतीन् विनिगृह्य शूरान् ।कष्टां दशां अपनुदन्तरसा पृथिव्याः पुष्टिं ददातु स हरिः कुलदैवतं नः ॥ २१॥ ॥ इति श्रीकृष्णमङ्गलं सम्पूर्णम् ॥

Shri Krishnamangalam:कृष्णमङ्गलम् २ (मङ्गलं यादवेन्द्राय) Read More »

Krishnamangalam

 Shri Krishnamangalam:कृष्णमङ्गलम् १ (मङ्गलं बालकृष्णाय)

Shri Krishnamangalam:श्रीकृष्णमङ्गलम् मङ्गलं बालकृष्णाय दिव्यलीलाय मङ्गलम् ।मङ्गलं नीलवर्णाय मातृमान्याय मङ्गलम् ॥ १॥ मङ्गलं रुक्मिणीशाय जगदीशाय मङ्गलम् ।मङ्गलं यदुनाथाय दीननाथाय मङ्गलम् ॥ २॥ मङ्गलं देवदेवाय वासुदेवाय मङ्गलम् ।मङ्गलं नन्दपुत्राय सदानन्दाय मङ्गलम् ॥ ३॥ मङ्गलं पूतनाहन्त्रे लीलामर्त्याय मङ्गलम् ।मङ्गल शकटच्छेत्रे पद्मपादाय मङ्गलम् ॥ ४॥ मङ्गलं वत्सपालाय विश्वपालाय मङ्गलम् ।मङ्गलं योगिमृग्याय गोपमित्राय मङ्गलम् ॥ ५॥ मङ्गलं बालगोपाय ब्रह्मविद्याय मङ्गलम् ।मङ्गलं कमलाभर्त्रे गोपीकान्ताय मङ्गलम् ॥ ६॥ मङ्गलं मातृबद्धाय जडघ्नायास्तु मङ्गलम् ।मङ्गलं क्रीडते स्त्रीभिः कुन्दारूढाय मङ्गलम् ॥ ७॥ मङ्गलं द्विषते क्रूरान् प्रियाक्रूराय मङ्गलम् ।मङ्गलं वल्लवीभर्ने कंसघ्नायास्तु मङ्गलम् ॥ ८॥ मङ्गलं प्रीतभक्ताय विद्यावासाय मङ्गलम् ।मङ्गलं मागधजिते द्वारकेशाय मङ्गलम् ॥ ९॥ मङ्गलं पार्थसुहृदे जितदैत्याय मङ्गलम् ।मङ्गलं रुक्मिणीजाने रुक्मिणीशाय मङ्गलम् ॥ १०॥ मङ्गलं नैकरूपाय नरदैत्याय मङ्गलम् ।पुत्रिणे नित्यरूपाय ब्रह्माचार्याय मङ्गलम् ॥ ११॥ मङ्गलं द्रौपदीड्याय मानदायास्तु मङ्गलम् ।मङ्गलं प्रियभक्ताय भक्तपालाय मङ्गलम् ॥ १२॥ मङ्गलं दिशते कामान् विप्रप्रार्थ्याय मङ्गलम् ।मङ्गलं शिष्टपालाय भारघ्नायास्तु मङ्गलम् ॥ १३॥ मङ्गलं मायिनेऽमायसारथ्यायास्तु मङ्गलम ।मङ्गलं पूर्णरूपाय गीताचार्याय मङ्गलम् ॥ १४॥ मङ्गलं विश्वरूपाय योगिध्येयाय मङ्गलम् ।मङ्गलं विश्वगुरवे कृपावासाय मङ्गलम् ॥ १५॥ मङ्गलं ज्ञानरूपाय सर्वाभिज्ञाय मङ्गलम् ।मङ्गलं सर्वशक्ताय महासत्त्वाय मङ्गलम् ॥ १६॥ मङ्गलं दिव्यवीर्याय माहेश्वर्याय मङ्गलम् ।मङ्गलं तेऽच्युता य सत्कुलत्राणाय मङ्गलम् ॥ १७॥ इति श्रीकृष्णमङ्गलं सम्पूर्णम् ।

 Shri Krishnamangalam:कृष्णमङ्गलम् १ (मङ्गलं बालकृष्णाय) Read More »

Krishnamangalam

Shri Krishna PrAtahsmarana Stotram: श्रीकृष्णप्रातःस्मरणस्तोत्रम्

Shri Krishna PrAtahsmarana Stotram: श्रीकृष्णप्रातःस्मरणस्तोत्रम् प्रातः स्मरामि युगकेलिरसाभिषिक्तं वृन्दावनं सुरमणीयमुदारवृक्षम् ।सौरीप्रवाहवृतमात्मगुणप्रकाशं युग्माङ्घ्रिरेणुकणिकाञ्चितसर्वसत्त्वम् ॥ १॥ प्रातः स्मरामि दधिघोषविनीतनिद्रं निद्रावसानरमणीयमुखानुरागम् ।उन्निद्रपद्मनयनं नवनीरदाभं हृदानवद्यललनाञ्चितवामभागम् ॥ २॥ प्रातर्भजामि शयनोत्थितयुग्मरूपं सर्वेश्वरं सुखकरं रसिकेशभूपम् ।अन्योन्यकेलिरसचिह्नसखीदृगौघं सख्यावृतं सुरतकाममनोहरं च ॥ ३॥ प्रातर्भजे सुरतसारपयोधिचिह्नं गण्डस्थलेन नयनेन च सन्दधानौ ।रत्याद्यशेषशुभदौ समुपेतकामौ श्रीराधिकावरपुरन्दरपुण्यपुञ्जौ ॥ ४॥ प्रातर्धरामि हृदयेन हृदीक्षणीयं युग्मस्वरूपमनिशं सुमनोहरं च ।लावण्यधाम ललनाभिरुपेयमानम् उत्थाप्यमानमनुमेयमशेषवेषैः ॥ ५॥ प्रातर्ब्रवीमि युगलावपि सोमराजौ राधामुकुन्दपशुपालसुतौ वरिष्ठौ ।गोविन्दचन्द्रवृषभानुसुतौ वरिष्ठौ सर्वेश्वरौ स्वजनपालनतत्परेशौ ॥ ६॥ प्रातर्नमामि युगलाङ्घ्रिसरोजकोशम् अष्टाङ्गयुक्तवपुषा भवदुःखदारम् ।वृन्दावने सुव्चरन्तमुदारचिह्नं लक्ष्म्याउरोजधृतकुङ्कुमरागपुष्टम् ॥ ७॥ प्रातर्नमामि वृषभानुसुतापदाब्जं नेत्रालिभिः परिणुतं व्रजसुन्दरीणाम् ।प्रेमातुरेण हरिणा सुविशारदेन श्रीमद्व्रजेशतनयेन सदाभिवन्द्यम् ॥ ८॥ सञ्चितनीयमनुमृत्यमभीष्टदोहं संसारतापशमनं चरणं महार्हम् ।नन्दात्मजस्य सततं मनसा गिरा च संसेवयामि वपुषा प्रणयेन रम्यम् ॥ ९॥ प्रातः स्तवमिमं पुण्यं प्रातरुत्थाय यः पठेत् ।सर्वकालं क्रियास्तस्य सफलाः स्युः सदा ध्रुवाः ॥ १०॥ इति श्रीनिम्बार्काचार्यविरचितं श्रीकृष्णप्रातःस्मरणस्तोत्रं सम्पूर्णम् ।

Shri Krishna PrAtahsmarana Stotram: श्रीकृष्णप्रातःस्मरणस्तोत्रम् Read More »

Krishnamangalam

Shrikrishna Purushottama Siddhanta Upanishad: श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत्

Shrikrishna Purushottama Siddhanta Upanishad: श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत् निरञ्जनो निराख्यातो निर्विकल्पो नमो नमः ।पूर्णानन्दो हरिर्मायारहित पुरुषोत्तमः ॥ अष्टावष्टसहस्रे द्वे स्त्रियो जायन्ते पुरुषोत्तमात् । स्मृतिर्जायतेपुरुषोत्तमात् । षट्च्छास्त्राणि जायन्ते पुरुषोत्तमात् । छन्दोजायते पुरुषोत्तमात् । निगमो जायते पुरुषोत्तमात् । प्रजापतिर्जायतेपुरुषोत्तमात् । शशिरवी जायेते पुरुषोत्तमात् । सकलतीर्थानि जायन्तेपुरुषोत्तमात् । परशिवशक्तिर्जायते पुरुषोत्तमात् । ऋषयोऽनृषयोजायन्ते पुरुषोत्तमात् । इन्द्रो जायते पुरुषोत्तमात् । द्वादशादित्यारुद्राः सर्वा देवता ज्जयन्ते पुरुषोत्तमात् । देवा जायन्ते पुरुषोत्तमात् ।सप्त सागरा जायन्ते पुरुषोत्तमात् । सर्व आत्मा जायते पुरुषोत्तमात् ।मनःसर्वेन्द्रियाणि जायन्ते पुरुषोत्तमात् । अष्टादश ब्रह्माण्डानि जायन्तेपुरुषोत्तमात् । अष्टसिद्धिनवनिधयो जायन्ते पुरुषोत्तमात् । वनभाराअष्टादश जायन्ते पुरुषोत्तमात् । अमृतो जायते पुरुषोत्तमात् । अम्भोजायते पुरुषोत्तमात् ॥ ॐ निगमं शङ्करोऽब्रवीत् । गौः । ग्मा । ज्मा । क्ष्मा । क्षा । क्षमा ।क्षोणिः । क्षितिः । अवनिः । उर्वी । पृथ्वी । मही । रिपः । अदितिः ।इला । जीवामकालाशूता (९) “जीवामकालाशूता जीवः” इत्यारभ्य“पुष्प एवेदं सर्वम्” इत्येतत्पर्यन्तं अतीव विकला मातृकेतिसानुतापं यथास्थितं दीयते ऽजीवः जीवा अस्ताजीव्यामं सर्वमायुजीव्याप्तं (?) ।लोदङ्कञ्चनङ्कांञ्चानु अमृतं न भवति (?) पारमधाराणि (परमधर्माणि) जातवेदाः प्रोवाचैवेदं सर्वम् । शिवशक्तिपशुजीवोब्रह्मा भक्तः पशुवत् (?) । यन्नत्यादेव परं श्रत्को परशिवः अन्याअवतारातेहि व्यासवल्लश्रविठलेहरयस्तथा (?) । ललाटे ऊर्ध्वपुण्ड्रंमध्यच्छिद्रं चन्दनतिलकं शुभं हरिमन्दिरं मध्यपद्मंकण्ठेतुलसी शङ्खचक्रं गदा बाहुगोपीचन्दनचर्चनं परंगतिः जीवोत्तमस्य । ब्रह्मा शक्तिर्महादेवो जन्यते पुरुषोत्तमात् ।ॐ आपोऽमृतमर्त्यस्य मर्त्योऽपश्यत् यस्तु जन्यते पुरुषोत्तमात् ।अमृतात् प्राणाश्चाहो मम जायन्ते पुरुषोत्तमात् । मनसि निषण्णः श्रीप्राणायप्रज्ञानाय स्वराट् पुरुषोत्तमः । श्रीकृष्णभगवान् नारायणः परमात्मापुरुषोत्तमः त्रिगुणरहितः स्वयम् । कथम्? पुरुष एवेदं सर्वम् ॥ (वैष्णव-उपनिषदः) इति श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत् समाप्ता ।

Shrikrishna Purushottama Siddhanta Upanishad: श्रीकृष्णपुरुषोत्तमसिद्धान्तोपनिषत् Read More »

Krishnamangalam

Shri Krishnanamashtakam: श्रीकृष्णनामाष्टकम्

Shri Krishnanamashtakam: श्रीकृष्णनामाष्टकम् निखिलश्रुतिमौलिरत्नमाला द्युतिनीराजितपादपङ्कजान्त । अयि मुक्तकुलैरुपास्यमानं परितस्त्वां हरिनाम संश्रयामि ॥ १॥ जय नामधेय मुनिवृन्दगेय हे जनरञ्जनाय परमाक्षराकृते । त्वमनादरादपि मनाग् उदीरितं निखिलोग्रतापपटलीं विलुम्पसि ॥ २॥ यदाभासोऽप्युद्यन् कवलितभवध्वान्तविभवो दृशं तत्त्वान्धानामपि दिशति भक्तिप्रणयिनीम् । जनस्तस्योदात्तं जगति भगवन्नामतरणे कृती ते निर्वक्तुं क इह महिमानं प्रभवति ॥ ३॥ यद् ब्रह्मसाक्षात्कृतिनिष्ठयापि विनाशमायाति विना न भोगैः । अपैति नाम स्फुरणेन तत् ते प्रारब्धकर्मेति विरौति वेदः ॥ ४॥ अघदमनयशोदानन्दनौ नन्दसूनो कमलनयनगोपीचन्द्रवृन्दावनेन्द्राः । प्रणतकरुणकृष्णावित्यनेकस्वरूपे त्वयि मम रतिरुच्चैर्वर्धतां नामधेय ॥ ५॥ वाच्यो वाचकमित्युदेति भवतो नाम स्वरूपद्वयं पूर्वस्मात् परमेव हन्त करुणा तत्रापि जानीमहे । यस्तस्मिन् विहितापराधनिवहः प्राणी समन्ताद् भवेद् आस्येनेदमुपास्य सोऽपि हि सदानन्दाम्बुधौ मज्जति ॥ ६॥ सूदिताश्रितजनार्तिराशये रम्यचिद्घनसुखस्वरूपिणे । नाम गोकुलमहोत्सवाय ते कृष्णपूर्णवपुषे नमो नमः ॥ ७॥ नारदवीणोज्जीवनसुधोर्मिनिर्यासमाधुरीपूर । त्वं कृष्णनाम कामं स्फुर मे रसने रसेन सदा ॥ ८॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीनामाष्टकं सम्पूर्णम् ।

Shri Krishnanamashtakam: श्रीकृष्णनामाष्टकम् Read More »

Krishnamangalam

Shri Krishnanamakaranapra Stava: श्रीकृष्णनामकरणप्रस्तवः

Shri Krishnanamakaranapra Stava: श्रीकृष्णनामकरणप्रस्तवः गोलोकनाथो भगवाञ्छ्रीकृष्णो राधिकापतिः ॥ ४८॥ नारायणो यो वैकुण्ठे कमलाकान्त एव च । श्वेतद्वीपनिवासी यः पिता विष्णुश्च सोऽप्यजः ॥ ४९॥ कपिलोऽन्ये तदंशाश्च नरनारायणावृषी । सर्वेषां तेजसां राशिर्मूर्तिमानागतः किमु ॥ ५०॥ तं वसुं दर्शयित्वा च शिशुरूपो बभूव ह । साम्प्रतं सूतिकागारादाजगाम तवालयम् ॥ ५१॥ अयोनिसम्भवश्चायमाविर्भूतो महीतले । वायुपूर्णं मातृगर्भे कृत्वा च मायया हरिः ॥ ५२॥ आविर्भूय वसुं मूर्तिं दर्शयित्वा जगाम ह । युगे युगे वर्णभेदो नामभेदोऽस्य बल्लव ॥ ९३॥ शुक्लः पीतस्तथा रक्त इदानीं कृष्णतां गतः । शुक्लवर्णः सत्ययुगे सुतीव्रतेजसा वृतः ॥ ५४॥ त्रेतायां रक्तवर्णोऽयं पीतोऽयं द्वापरे विभुः । कृष्णवर्णः कलौ श्रीमांस्तेजसां राशिरेव च ॥ ५५॥ परिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः । ब्रह्मणो वाचकः कोऽयमृकारोऽनन्तवाचकः ॥ ५६॥ शिवस्य वाचकः षश्च नकारो धर्मवाचकः । अकारो विष्णुवचनः श्वेतद्वीपनिवासिनः ॥ ५७॥ नरनारायणार्थस्य विसर्गो वाचकः स्मृतः । सर्वेषां तेजसां राशिः सर्वमूर्तिस्वरूपकः ॥ ५८॥ सर्वाधारः सर्वबीजस्तेन कृष्ण इति स्मृतः । कर्मनिर्मूलवचनः कृषिर्नो दास्यवाचकः ॥ ५९॥ अकारो दातृवचनस्तेन कृष्ण इति स्मृतः । कृषिर्निश्चेष्टवचनो नकारो भक्तिवाचकः ॥ ६०॥ अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृतः । कृषिर्निर्वाणवचनो नकारो मोक्षवाचकः ॥ ६१॥ अकारो दातृवचनस्तेन कृष्ण इति स्मृतः । नाम्नां भगवतो नन्द कोटीनां स्मरणेन यत् ॥ ६२॥ तत्फलं लभते नूनं कृष्णेति स्मरणे नरः । यद्विधं स्मरणात्पुण्यं वचनाच्छ्रवणात्तथा ॥ ६३॥ कोटिजन्मांहसो नाशो भवेद्यत्स्मरणादिकात् । विष्णोर्नाम्नां च सर्वेषां सारात्सारं परात्परम् ॥ ६४॥ कृष्णेति सुन्दरं नाम मङ्गलं भक्तिदायकम् । ककारोच्चारणाद्भक्तः कैवल्यं मृत्युजन्महम् ॥ ६९॥ ऋकाराद्दास्यमतुलं षकाराद्भक्तिमीप्सिताम् । नकारात्सहवासं च तत्समं कालमेव च ॥ ६६॥ तत्सारूप्यं विसर्गाच्च लभते नात्र संशयः । ककारोच्चारणादेव वेपन्ते यमकिङ्कराः ॥ ६७॥ ऋकारोक्तेर्न तिष्ठन्ति षकारात्पातकानि च । नकारोच्चारणाद्रोगा अकारान्मृत्युरेव च ॥ ६८॥ ध्रुवं सर्वे पलायन्ते नामोच्चारणभीरवः । स्मृत्युक्तिश्रवणोद्योगात्कृष्णनाम्नो व्रजेश्वर ॥ ६९॥ रथं गृहीत्वा धावन्ति गोलोकात्कृष्णकिङ्कराः । पृथिव्या रजसः सङ्ख्यां कर्तुं शक्ता विपश्चितः ॥ ७०॥ नाम्नः प्रभावसङ्ख्यानं सन्तो वक्तुं न च क्षमाः । पुरा शङ्करवक्त्रेण नाम्नोऽस्य महिमा श्रुतः ॥ ७१॥ गुणान्नामप्रभावं च किञ्चिज्जानाति मद्गुरुः । ब्रह्माऽनन्तश्च धर्मश्च सुरर्षिमनुमानवाः ॥ ७२॥ वेदाः सन्तो न जानन्ति महिम्नः षोडशीं कलाम् । इत्येवं कथितो नन्द महिमा च सुतस्य च ॥ ७३॥ यथामति यथाज्ञानं गुरुवक्त्राद्यथा श्रुतम् । कृष्णः पीताम्बरः कंसध्वंसी च विष्टरश्रवाः ॥ ७४॥ देवकीनन्दनः श्रीशो यशोदानन्दनो हरिः । सनातनोऽच्युतोऽनन्तः सर्वेशः सर्वरूपधृक् ॥ ७५॥ सर्वाधारः सर्वगतिः सर्वकारणकारणम् । राधाबन्धू राधिकात्मा राधिकाजीवनं स्वयम् ॥ ७६॥ राधाप्राणो राधिकेशो राधिकारमणः स्वयम् । राधिकासहचारी च राधामानसपूरणः ॥ ७७॥ राधाधनो राधिकाङ्गो राधिकासक्तमानसः । राधिकाचित्तचोरश्च राधाप्राणाधिकः प्रभुः ॥ ७८॥ परिपूर्णतमं ब्रह्म गोविन्दो गरुडध्वजः । नामान्येतानि कृष्णस्य श्रुतानि मन्मुखाद्धृदि ॥ ७९॥ जन्ममृत्युहराण्येव रक्ष नन्द शुभेक्षण । कृतं निरूपणं नाम्नां कनिष्ठस्य यथा श्रुतम् ॥ ८०॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे द्वादशाध्यायान्तर्गतः नामकरणप्रस्तावः समाप्तः । ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय १३/४८-८०॥

Shri Krishnanamakaranapra Stava: श्रीकृष्णनामकरणप्रस्तवः Read More »

Krishnamangalam

shrIkRiShNadvAdashama~njarI: श्रीकृष्णद्वादशमञ्जरी

shrIkRiShNadvAdashama~njarI: श्रीकृष्णद्वादशमञ्जरी ॥ श्री श्रीधरवेंकटेशार्येण कृता ॥ दुराशान्धो-ऽमुष्मिन्विषय-विसरावर्तजठरेतृणच्छन्ने कूपे तृणकबललुब्धः पशुरिव ।पतित्वा खिद्येऽसावगतिरित उद्धृत्य कलयेःकदा मां कृष्ण त्वत्पदकमललाभेन सुखितम् ॥ १॥ कथंचि-द्यच्चित्ते कमलभव-कामान्तकमुखाःवहन्तो मज्जन्ति स्वय-मनवधौ हर्षजलधौ ।Vक्व तद्दिव्य-श्रीमच्चरणकमलं कृष्ण भवतःक्व चाहं तत्रेहा मम शुन इवा-खण्डलपदे ॥ २॥ दुरापस्त्वं कृष्ण स्मरहर-मुखानां तदपि तेक्षतिः का कारुण्या-दगतिरिति मां लालयसि चेत् ।प्रपश्यन् रथ्यायां शिशु-मगति-मुद्दामरुदितंन सम्राडप्यङ्गे दधदुरुदयस्सान्त्वयति किम् ॥ ३॥ प्रतिश्वासं नेतुं प्रयतनधुरीणः पितृपतिःविपत्तीनां व्यक्तं विहरणमिदं तु प्रतिपदम् ।तथा हेयव्यूहा तनुरियमिहा-थाप्य्भिरमेहतात्मा कृष्णैतां कुमति-मपहन्या मम कदा ॥ ४॥ विधीशाराध्यस्त्वं प्रणय-विनयाभ्यां भजसि यान्प्रियस्ते यत्सेवी विमत इतरस्तेषु तृणधीः ।किमन्य-त्सर्वापि त्वदनभिमतैव स्थितिरहोदुरात्मैवं ते स्यां यदुवर दयार्हाः कथमहम् ॥ ५॥ विनिन्द्यत्वे तुल्याधिक-विरहिता य खलु खलाःतथा भूतं कृत्यं यदपि सह तैरेव वसतिः ।तदेवानुष्ठेयं मम भवति नेहास्त्यरुचिर-प्यहो धिङ्मां कुर्वे किमिव न दया कृष्ण मयि ते ॥ ६॥ त्वदाख्या-भिख्यान त्वदमल-गुणास्वादन भवत्-सपर्यायासक्ता जगति कति वाऽऽनन्दजलधौ ।न खेलन्त्येवं दुर्व्यसन-हुतभुग्गर्भ-पतित-स्त्वहं सीदाम्येको यदुवर दयेथा मम कदा ॥ ७॥ कद वा निर्हेतून्मिषित-करुणालिङ्गितभवत्-कटाक्षालब्धेन व्यसनगहना-न्निर्गत इतः ।हताशेष-ग्लानिन्यमृतरस-निष्यन्दशिशिरेसुखं पादांभोजे यदुवर कदासानि विहरन् ॥ ८॥ अनित्यत्वं जान-न्नतिदृढ-मदर्पस्सविनयःस्वके दोषेऽभिज्ञः परजुषि तु मूढस्सकरुणः ।सतां दासश्शान्त-स्सममति-रजस्रं तव यथाभजेयं पादाब्जं यदुवर दयेथा मम कदा ॥ ९॥ करालं दावाग्निं कबलितवता देव भवतापरित्राता गोपाः परमकृपया किन्न हि पुरा ।मदीयान्तर्वैरिप्रकर-दहनं किं कबलयन्दयासिन्धो गोपीदयित वद गोपायसि न माम् ॥ १०॥ न भीरारुह्यांस नदति शमने नाप्युदयतेजुगुप्सा देहस्याशुचिनिचयभावे स्पुटतरे ।अपि व्रीडा नोदेत्यवमतिशते सत्यनुपदंक्व मे स्यात्तवभक्तिः कथमिव कृपा कृष्ण मयि ते ॥ ११॥ बलीयस्यत्यन्तं मदघपटली तद्यदुपतेपरित्रातुं नो मां प्रभवसि तथा नो दमयितुम् ।अलाभादर्तीनामिदमनुगुणानामदयितेकियद्दौस्थ्यं धिङ्मां त्वयि विमतमात्मद्रुहमिमम् ॥ १२॥ ॥ इति श्री श्रीधरवेङ्कटेशार्येणकृताकृष्णद्वादशमञ्जरी समाप्ता ॥

shrIkRiShNadvAdashama~njarI: श्रीकृष्णद्वादशमञ्जरी Read More »

Krishnamangalam

ShrIkRiShNajayantI nirNayaH: श्रीकृष्णजयन्ती निर्णयः

ShrIkRiShNajayantI nirNayaH: श्रीकृष्णजयन्ती निर्णयः श्री गुरुभ्यो नमः हरिः ॐ श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितः श्रीकृष्णजयन्ती निर्णयः रोहिण्या मध्यरात्रे तु यदा कृष्णाष्टमी भवेत् ।जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशनी(नं) ॥ १॥ यस्यां जातो हरिः साक्षान्नि शेते भगवानजः ।तस्मात्तद्दिनमत्यर्थं पुण्यं पापहरं शुभपरम् ॥ २॥ तस्मात्सर्वैर्रुपोश्या सा जयन्ती नाम सा(वै) सदा ।द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः ॥ ३॥ यो भुङ्क्ते तद्दिने मोहा(लोभा)त् पूयशोणितमत्ति सः ।तस्मादुपवासेन्नित्य(पुण्य)ं तद्दिने(नं) श्रद्धयान्वितः ॥ ४॥ कृत्वा शौचं यथा न्यायं स्नानं कुर्यादतंद्रितः ।प्रभात काले कुर्वीत यूगायेत्यादिमन्त्रतः ॥ ५॥ नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन् ।मध्याह्न काले च पुमान् सायङ्काले त्वतन्द्रितः ॥ ६॥ स्नायेत पूर्वमन्त्रेण वासुदेवमनुस्मरन् ।ततः पूजां प्रकुर्वेत विधिवत्सुसमाहितः ॥ ७॥ यनायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान् ।कृष्णं च बलभद्रं च वसुदेवं च देवकीम् ॥ ८॥ नन्दगोपं यशोदाञ्च सुभद्रां तत्र पूजयेत् ।(अर्घ्यं दत्वा समभ्यच्यार्भ्युधिते शशिमण्डले) ।जातः कंसवधार्ताय भूभारोत्थारणाय च ॥ ९॥ कौरवानां विनाशाय दैत्यानां निधनाय च ।पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ॥ १०। गृहाणर्घ्यं मया दत्तं देवक्या सहितो हरिः ।अर्घ्यं दत्वासमभ्यर्च्याभ्युदिते शशिमण्डले ॥ ११॥ क्षीरोदार्णवसम्भूत अत्रिनेत्र समुद्भवः ।गृहाणर्घ्यं मया दत्तं रोहिण्या सहितः शशिम् ॥ १२॥ दत्वार्घ्यं मनुनानेन उपस्थाय विधुं बुधः ।शशिने चन्द्रदेवाय सोमदेवाय छेन्दवे ॥ १३॥ मृगिणे शी(सि)त बिम्बाय लोकदीपाय दीपिणे ।(रोहिणीसक्तचित्ताय कन्यादानप्रदायिने)शीतदीदितिबिम्बाय तारकापतये नमः ॥ १४॥ उपसम्हृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः ।विश्वायेति च मन्त्रेण ततः स्वापं समाचरेत् ॥ १५॥ ततो नित्यान्हि कं कृत्वा शक्तितो दीयतां धनम् ।सर्वायेति च मन्त्रेण ततः पारणमाचरेत् ।धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः ॥ १६॥ ॥ इति श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितम् ॥ ॥ जयन्ती निर्णयः सम्पूर्णम् ॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु

ShrIkRiShNajayantI nirNayaH: श्रीकृष्णजयन्ती निर्णयः Read More »

Krishnamangalam

Devakikritam Shrikrishnastotram or Krishnajanmastutih: देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः

Devakikritam Shrikrishnastotram or Krishnajanmastutih: देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः देवक्युवाच । रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ २४॥ नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु । व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यते शेषसंज्ञः ॥ २५॥ योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम् । निमेषादिर्वत्सरान्तो महीयां- स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६॥ मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान्निर्भयं नाध्यगच्छत् । त्वत्पादाब्जं प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति ॥ २७॥ स त्वं घोरादुग्रसेनात्मजान्न- स्त्राहि त्रस्तान् भृत्यवित्रासहासि । रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥ २८॥ जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन । समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ २९॥ उपसंहर विश्वात्मन्नदो रूपमलौकिकम् । शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३०॥ विश्वं यदेतत्स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान् । बिभर्ति सोऽयं मम गर्भगोऽभू- दहो नृलोकस्य विडम्बनं हि तत् ॥ ३१॥ इति श्रीमद्भागवते दशमस्कन्धे तृतीयाध्यायान्तर्गता देवकीकृता स्तुतिः समाप्ता । इति श्रीमद्भागवतमहापुराणे दशमस्कन्धे पूर्वार्धे तृतीयाध्यायान्तर्गतं देवकीकृतं श्रीकृष्णस्तोत्रं समाप्तम् । भागवतपुराण । अध्याय १०/३/२४-३१॥

Devakikritam Shrikrishnastotram or Krishnajanmastutih: देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः Read More »

Krishnamangalam

Krishnachaitanya Dvadashanama Stotram:कृष्णचैतन्यद्वादशनामस्तोत्रम्

Krishnachaitanya Dvadashanama Stotram:कृष्णचैतन्यद्वादशनामस्तोत्रम् चैतन्यः कृष्णचैतन्यो गौराङ्गो द्विजनायकः ।यतीनां दण्डिनां चैव न्यासिनां च शिरोमणिः ॥ १॥ रक्ताम्बरधरः श्रीमान् नवद्वीपसुधाकरः ।प्रेमभक्तिप्रदश्चैव श्रीशचीनन्दनस्तथा ॥ २॥ द्वादशैतानि नामानि त्रीसन्ध्यं यः पठेन्नरः ।तस्य वाञ्छासुसिद्धिः स्याद्भक्तिः श्रीलपदाम्बुजे ॥ ३॥ इति सार्वभौम भट्टाचार्यविरचितं कृष्णचैतन्यद्वादशनामस्तोत्रं सम्पूर्णम् ।

Krishnachaitanya Dvadashanama Stotram:कृष्णचैतन्यद्वादशनामस्तोत्रम् Read More »

Krishnamangalam

Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी

Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी विष्णुर्ब्रह्मादिदेवैः क्षितिभरहरणे प्रार्थितः प्रादुरासीद् देवक्यां नन्दनन्दी शिशुवधविहितां पूतनां यो जघान ।उत्थानौत्सुक्यकाले रथचरणगतं चासुरं पादघातै- श्चक्रावर्तं च मात्रा गुरुरिति निहितो भूतले सोऽवतान्माम् ॥ १॥ यो मातुर्जृम्भमाणो जगदिदमखिलं दर्शयन्नङ्करूढो गर्गेणाचीर्णनामा कृतरुचिरमहाबाललीलो वयस्यैः ।गोपीगेहेषु भाण्डस्थितमुरुदयया क्षीरदध्यादि मुष्णन् मृन्ना भक्षीति मातुः स्ववदनगजगद्भासयन् भासतां मे ॥ २॥ दध्नोमत्रस्य भङ्गादुपगमितरुषा नन्दपत्न्याऽथ बद्धः कृच्छ्रेणोलूखले यो धनपतितनयौ मोचयामास शापात् ।नन्दाद्यैः प्राप्य वृन्दावनमिह रमयन् वेणुनादादिभिर्यो वत्सान्पान्वत्सरूपं क्रतुभुगरिमथो पोथयन्सोऽवतान्माम् ॥ ३॥ रक्षन् वत्सान्वयस्यैर्बकमभिनदथो तिग्मतुण्डे गृहीत्वा प्रीतिं कर्तुं सखीनां खरमपि बलतो घातयन् कालियाहिम् ।उन्मथ्योद्वास्य कृष्णामतिविमलजलां यो व्यधाद्दाववह्निं सुप्तानावृत्य गोष्ठे स्थितमपिबदसौ दुष्टवृक्षच्चिदव्यात् ॥ ४॥ दुर्गारण्यप्रवेशाच्च्युतनिजसरणीन् गोगणानाह्वयद्यो दावाग्निं तत्र पीत्वा समपुषदनुगान् गोपकानाविषिण्णान् ।गोभिर्गोपैः परितः सरिदुदकतटस्थोपले भोज्यमन्नं भुक्त्वा वेणोर्निनादाद्व्रजगतवनिताचित्तहारी स माऽव्यात् ॥ ५॥ कृष्णोऽस्माकं पतिः स्यादिति कृततपसां मज्जने गोपिकानां नग्नानां वस्त्रदाता द्विजवरवनितानीतमन्नं समश्नन् ।श्रान्तैर्गोपैः समं यो बलमथनबलावाहृतेऽस्मिन् सवृष्टौ प्रोद्ध्रुत्याहार्यवर्यं निजजनमखिलं पालयन् पात्वसौ माम् ॥ ६॥ गोविन्दाख्योऽथ तातं जलपतिहृतमानीय लोकं स्वकीयं यः कालिन्द्या निशायामरमयदमलज्योत्स्नया दीपितायाम् ।नन्दादीनां प्रदर्श्य व्रजगतवनितागानकृष्टार्तचित्ताः चार्वङ्गीर्नर्मवाक्यैः स्तनभरनमिताः प्रीणयन् प्रीयतां नः ॥ ७॥ अन्तर्धत्ते स्म तासां मदहरणकृते त्वेकया क्रीडमानः स्वस्कन्धारोहणाद्यैः पुनरपि विहितो गर्वशान्त्यै मृगाक्ष्याः ।खिन्नानां गोपिकानां बहुविधनुतिभिर्यो वहन् प्रीतिमाविः- प्राप्तो रासोत्सवेन न्यरमयदबलाः प्रीयतां मे हरिः सः ॥ ८॥ हत्वा यः शङ्खचूडं मणिमथ समदादग्रजायार्तगोपी- गीतानेकस्वलीलो हतवृषभमहापूर्वदेवोऽमरेड्यः ।केशिप्राणापहारी सुरमुनिवदनप्रार्थिताशेषकृत्यो हत्वा पुत्रं मयस्य स्वजनमपिहितं मोचयन् मोक्षदः स्यात् ॥ ९॥ अक्रूराकारितो यान् व्रजयुवतिजनान्सान्त्वयित्वाऽभितप्तान् स्वं रूपं मज्जतेऽस्मै विलसितमहिगं दर्शयंस्तेन वन्द्यः ।यो गत्वा कंसधानीं हृतरजकशिराश्चारुवेषः सुदाम्नः प्रीतिं कुर्वंस्त्रिवक्रां व्यतनुत रुचिरां पौरमह्योऽवतात्सः ॥ १०॥ शार्वं भङ्क्त्वा धनुर्यो बलमपि धनुषो रक्षकं कुञ्जरं तं मल्लांश्चाणूरपूर्वानपि सहसहजो मर्दयन्स्तुङ्गमञ्चात् ।भोजेशं पातयित्वा व्यसुमकृत निजान् नन्दयन् प्राप्य गर्गात् द्वैजं संस्कारमाप्तो गुरुमथ विदिताशेषविद्योऽवतान्नः ॥ ११॥ दत्वा पुत्रं प्रवक्त्रे प्रतिगतमधुरः सान्त्वयन्नुद्धवास्या- द्गोष्टस्थान् नन्दपूर्वानरमयदबलां प्रीतिकृद्यः शुभस्य ।अक्रूरस्याथ तेन प्रतिविदितपृथापुत्रकृत्यो जरायाः सूनुं निर्भिन्नसेनं व्यतनुत बहुशो विद्रुतं नः स पायात् ॥ १२॥ पुर्या निर्गत्य रामादथ सहमुसली प्राप्य कृष्णोऽभ्यनुज्ञां गोमन्तं चापि मौलिं खगपतिविहितां वासुदेवं सृगालम् ।हत्वा शत्रुं च पुर्यामधिजलधि पुरीं निर्मितां बन्धुवर्गान् नित्ये यः सोऽवतान्नः प्रमथितयवनो मौचुकुन्दाक्षिवह्नेः ॥ १३॥ राज्ञा संस्तूयमानो हतयवनबलो भीतवन्मागधेशा- द्गोमन्तं प्राप्य भूयो जितमगधपतिर्जातशान्ताग्निशैलः ।आगत्य द्वारकां यो हृदिकसुतगिरा ज्ञातकौन्तेयकृत्यः पश्यत्स्वादाय भैष्मीं नृषु युधि जितावान्भूभृतः प्रीयतां नः ॥ १४॥ वैरूप्यं रुक्मिणो योऽकृत मणिसहितं जाम्बवद्देहजातां सत्यां तेनैव युक्तामपि परिजगृहे हस्तिनं कुल्यहेतोः ।यातो व्यस्यात्र सत्याशुचमथ समगाद्द्वारकां सत्ययेतो द्रष्टुं पार्थान्सकृष्णान्द्रुपदपुरमगाद्विद्धलक्ष्यान्स पायात् ॥ १५॥ कृष्णः प्राप्याथ सत्राजिदहितवधकृद्यः श्वफल्कस्य सूनौ रत्नं सन्दर्श्य रामं व्यधित गतरूषं द्रष्टुकामः प्रतस्थे ।इन्द्रप्रस्थस्थस्थपार्थानथ सहविजयो यामुनं तीरमायन् कालिन्दीं तत्र लब्ध्वा यमसुतपुरकृत् पातु मां द्वारकास्थः ॥ १६॥ यो जह्ने मित्रविन्दामथ दृढवृषभान् सप्त बध्वाऽपि नीलां भद्रां मद्रेशपुत्रीमपि परिजगृहे शक्र विज्ञापितार्थः ।तार्क्ष्यरूढः सभार्यो हिमगिरिशिखरे भौमदुर्गं समेत्य छित्वा दुर्गाणि कृन्त्वा मुरगलमरिणा देवतेड्यः स माऽव्यात् ॥ १७॥ त्रिंशत्पञ्चावधीद्यः सचिववरसुतान् भूमिजेनातिघोरं युद्धं कृत्वा गजाद्यैररिहृतशिरसं तं व्यधाद्भूस्तुतोऽथ ।कृत्वा राज्येऽस्य सूनुं वरयुवतिजनान् भूरिशश्चारुवेषान् प्रापय्य द्वारकां सोऽकृत मुदमदितेः कुण्डलाभ्यामवेन्माम् ॥ १८॥ इन्द्राराध्योऽमरेन्द्रप्रियतममगमाहृत्य देवान् विजित्य प्राप्याथ द्वारकां यः सुतमतिरुचिरं रुक्मिणीशः प्रपेदे ।भ्रातृव्यं पौण्ड्रकाख्यं पुररुधमतनोत् कृत्तशीर्षं तदीया- पत्योत्पन्नां च कृत्यां रथचरणरुचा कालयन् कामधुक् स्यात् ॥ १९॥ कृष्णः सूर्योपरागे निजयुवतिगणैर्भार्गवं क्षेत्रमाप्त- स्तत्रायातान् स्वबन्धून् मुनिगणमपि सन्तोष्य यज्ञं स्वपित्रा ।योऽनुष्ठाप्याप्य नैजं पुरमथ वदिताऽनेकतत्त्वानि पित्रे मातुः पुत्रान् प्रदर्श्याकृत हितमहितं मेऽपनुद्यात् स ईशः ॥ २०॥ रुक्मिण्या नर्मवाक्यैररमत बहुभिः स्त्रीजनैर्योऽथ पुत्रा- नेकैकस्यां प्रपेदे दश दश रुचिरान् पौत्रकानप्यनेकान् ।पौत्रस्योद्वाहकाले भृशकुपितबलाद्रुक्मिणं घातयित्वा नन्दन् योषिद्गणेन प्रतिगृहमबलाप्रीतिकारी गतिर्मे ॥ २१॥ नानारत्नप्रदीप्तासमविभवयुतद्व्यष्टसाहस्रकान्ता- गेहेष्वश्नन् शयानः क्व च जपमगृयादीनि कुर्वन् क्वचिच्च ।दीव्यन्नक्षैर्ब्रुवाणः प्रवचनमपरैर्मन्त्रयन्नेवमादि- व्यापरान्नादरस्य प्रतिसदमहो दर्शयन् नः स पायात् ॥ २२॥ प्रातर्ध्यायन् प्रसन्नः कृतनिजविहितः सत्सभां प्राप्य कृष्णो दूतं राज्ञां प्रतोष्यामरमुनिविदिताशेषकृत्यः प्रयासीत् ।शक्रप्रस्थं चमूभिर्बहुविभवयुतं बन्धुभिर्मानितोऽयं भीमेनापात्य बार्हद्रथमथ नृपतीन् मोचयन्मे प्रसीदेत् ॥ २३॥ पुत्रं राज्येऽस्य कृत्वा हृतशिरसमथो चेदिराजं विधाय प्रोद्यन्तं राजसूयं यमसुतविहितं संस्थितं यो विधाय ।शक्रप्रस्थात् प्रयातो निजनगरमसौ साल्वभग्नं समीक्ष्य क्रुद्धो घन्नब्धिगं तं शिववरबलिनं यान् पुरं पातु नित्यम् ॥ २४॥ विप्रादाकर्ण्य धर्मं वनगतमनुजैः सान्त्वयित्वैत्य सर्वा- नभ्येत्य द्वारकां यो नृगमथ कुजनिं दिव्यरूपं चकार ।गत्वा वैदेहगेहं कतिपयदिवसांस्तत्र नीत्वाऽतिभक्तौ सन्तोष्य द्वारकां यान् बहुबलसमतोऽयन्नुपप्लाव्यमव्यात् ॥ २५॥ दौत्यं कुर्वन्ननन्ता निजरुचिरतनूर्दर्शयन् दिव्यदृष्टे- र्गीतातत्त्वोपदेशाद्रणमुखविजयस्याचरन् सारथित्वम् ।नीत्वा कैलासमेनं पशुपतिमुखतो दापयित्वाऽस्त्रमस्मै भीमेनापात्य दुष्टं क्षितिपतिमकरोद्धर्मराजं तमीडे ॥ २६॥ प्राप्तः स्थानं यदूनां प्रियसखमकृतावाप्तकामं कुचेलं कुर्वन् कर्माश्वमेधं निजभवनमथो दर्शयित्वाऽर्जुनाय ।पुत्रान् विप्राय दत्वा सहसहजमसौ दन्तवक्रं निपात्य प्राप्याथ द्वारकां स्वां समवतु विहरन्नुद्धवायोक्ततत्त्वः ॥ २७॥ रक्षन् लोकान् समस्तान् निजजननयनान्दकारी निरस्ता- वद्यः सौख्यैकमूर्तिः सुरतरुकुसुमैः कीर्यमाणोऽमरेन्द्रैः ।सिद्धैर्गन्धर्वपूर्वैर्जयजयवचनैः स्तूयमानोऽत्र कृष्णः स्त्रीभिः पुत्रैश्च पौत्रैः स जयति भगवान् सर्वसम्पत्समृद्धः ॥ २८॥ इति श्रीकृष्णचारित्रमञ्जरी लेशतः कृता ।राघवेन्द्रेण यतिना भूयात् कृष्णप्रसाददा ॥ २९॥ श्रीराघवेन्द्रतीर्थश्रीचरणविरचिता श्रीकृष्णचारित्रमञ्जरीभारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।

Shri Krishnacharitra Manjari: श्रीकृष्णचारित्रमञ्जरी Read More »