Krishnamangalam

Shri Krishnanamakaranapra Stava: श्रीकृष्णनामकरणप्रस्तवः

Shri Krishnanamakaranapra Stava: श्रीकृष्णनामकरणप्रस्तवः

गोलोकनाथो भगवाञ्छ्रीकृष्णो राधिकापतिः ॥ ४८॥नारायणो यो वैकुण्ठे कमलाकान्त एव च । श्वेतद्वीपनिवासी यः पिता विष्णुश्च सोऽप्यजः ॥ ४९॥कपिलोऽन्ये तदंशाश्च नरनारायणावृषी । सर्वेषां तेजसां राशिर्मूर्तिमानागतः किमु ॥ ५०॥तं वसुं दर्शयित्वा च शिशुरूपो बभूव ह । साम्प्रतं सूतिकागारादाजगाम तवालयम् ॥ ५१॥अयोनिसम्भवश्चायमाविर्भूतो महीतले । वायुपूर्णं मातृगर्भे कृत्वा च मायया हरिः ॥ ५२॥आविर्भूय वसुं मूर्तिं दर्शयित्वा जगाम ह । युगे युगे वर्णभेदो नामभेदोऽस्य बल्लव ॥ ९३॥शुक्लः पीतस्तथा रक्त इदानीं कृष्णतां गतः । शुक्लवर्णः सत्ययुगे सुतीव्रतेजसा वृतः ॥ ५४॥त्रेतायां रक्तवर्णोऽयं पीतोऽयं द्वापरे विभुः । कृष्णवर्णः कलौ श्रीमांस्तेजसां राशिरेव च ॥ ५५॥परिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः । ब्रह्मणो वाचकः कोऽयमृकारोऽनन्तवाचकः ॥ ५६॥शिवस्य वाचकः षश्च नकारो धर्मवाचकः । अकारो विष्णुवचनः श्वेतद्वीपनिवासिनः ॥ ५७॥नरनारायणार्थस्य विसर्गो वाचकः स्मृतः । सर्वेषां तेजसां राशिः सर्वमूर्तिस्वरूपकः ॥ ५८॥सर्वाधारः सर्वबीजस्तेन कृष्ण इति स्मृतः । कर्मनिर्मूलवचनः कृषिर्नो दास्यवाचकः ॥ ५९॥अकारो दातृवचनस्तेन कृष्ण इति स्मृतः । कृषिर्निश्चेष्टवचनो नकारो भक्तिवाचकः ॥ ६०॥अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृतः । कृषिर्निर्वाणवचनो नकारो मोक्षवाचकः ॥ ६१॥अकारो दातृवचनस्तेन कृष्ण इति स्मृतः । नाम्नां भगवतो नन्द कोटीनां स्मरणेन यत् ॥ ६२॥तत्फलं लभते नूनं कृष्णेति स्मरणे नरः । यद्विधं स्मरणात्पुण्यं वचनाच्छ्रवणात्तथा ॥ ६३॥कोटिजन्मांहसो नाशो भवेद्यत्स्मरणादिकात् । विष्णोर्नाम्नां च सर्वेषां सारात्सारं परात्परम् ॥ ६४॥कृष्णेति सुन्दरं नाम मङ्गलं भक्तिदायकम् । ककारोच्चारणाद्भक्तः कैवल्यं मृत्युजन्महम् ॥ ६९॥ऋकाराद्दास्यमतुलं षकाराद्भक्तिमीप्सिताम् । नकारात्सहवासं च तत्समं कालमेव च ॥ ६६॥तत्सारूप्यं विसर्गाच्च लभते नात्र संशयः । ककारोच्चारणादेव वेपन्ते यमकिङ्कराः ॥ ६७॥ऋकारोक्तेर्न तिष्ठन्ति षकारात्पातकानि च । नकारोच्चारणाद्रोगा अकारान्मृत्युरेव च ॥ ६८॥ध्रुवं सर्वे पलायन्ते नामोच्चारणभीरवः । स्मृत्युक्तिश्रवणोद्योगात्कृष्णनाम्नो व्रजेश्वर ॥ ६९॥रथं गृहीत्वा धावन्ति गोलोकात्कृष्णकिङ्कराः । पृथिव्या रजसः सङ्ख्यां कर्तुं शक्ता विपश्चितः ॥ ७०॥नाम्नः प्रभावसङ्ख्यानं सन्तो वक्तुं न च क्षमाः । पुरा शङ्करवक्त्रेण नाम्नोऽस्य महिमा श्रुतः ॥ ७१॥गुणान्नामप्रभावं च किञ्चिज्जानाति मद्गुरुः । ब्रह्माऽनन्तश्च धर्मश्च सुरर्षिमनुमानवाः ॥ ७२॥वेदाः सन्तो न जानन्ति महिम्नः षोडशीं कलाम् । इत्येवं कथितो नन्द महिमा च सुतस्य च ॥ ७३॥यथामति यथाज्ञानं गुरुवक्त्राद्यथा श्रुतम् । कृष्णः पीताम्बरः कंसध्वंसी च विष्टरश्रवाः ॥ ७४॥देवकीनन्दनः श्रीशो यशोदानन्दनो हरिः । सनातनोऽच्युतोऽनन्तः सर्वेशः सर्वरूपधृक् ॥ ७५॥सर्वाधारः सर्वगतिः सर्वकारणकारणम् । राधाबन्धू राधिकात्मा राधिकाजीवनं स्वयम् ॥ ७६॥राधाप्राणो राधिकेशो राधिकारमणः स्वयम् । राधिकासहचारी च राधामानसपूरणः ॥ ७७॥राधाधनो राधिकाङ्गो राधिकासक्तमानसः । राधिकाचित्तचोरश्च राधाप्राणाधिकः प्रभुः ॥ ७८॥परिपूर्णतमं ब्रह्म गोविन्दो गरुडध्वजः । नामान्येतानि कृष्णस्य श्रुतानि मन्मुखाद्धृदि ॥ ७९॥जन्ममृत्युहराण्येव रक्ष नन्द शुभेक्षण । कृतं निरूपणं नाम्नां कनिष्ठस्य यथा श्रुतम् ॥ ८०॥इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे द्वादशाध्यायान्तर्गतः नामकरणप्रस्तावः समाप्तः ।ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय १३/४८-८०॥

Leave a Comment

Your email address will not be published. Required fields are marked *