KARMASU

Utkalikavallarih

Utkalikavallarih: उत्कलिकावल्लरीः

श्रीवृन्दारण्यविहारिणे नमः ।
प्रपद्य वृन्दावनमध्यमेकः
     क्रोशन्नसावुत्कलिकाकुलात्मा ।
उद्घाटयामि ज्वलतः कठोरां
     बाष्पस्य मुद्रां हृदि मुद्रितस्य ॥ १॥

अये वृन्दारण्य त्वरितमिह ते सेवनपराः
     परामापुः के वा न किल परमानन्दपदवीम् ।
अतो नीचैर्याचे स्वयमधिपयोरीक्षणविधे-
     र्वरेण्यां मे चेतस्युपदिश दिशं हा कुरु कृपाम् ॥ २॥

तवारण्ये देवि ध्रुवमिह मुरारिपोर्विहरते
     सदा प्रेयस्येति श्रुतिरपि विरौति स्मृतिरपि ।
 इति ज्ञात्वा वृन्दे चरणमभिवन्दे तव कृपां
     कुरुष्व क्षिप्रं मे फलतु नितरां तर्षविटपी ॥ ३॥

हृदि चिरवसदाशामण्डलालम्बपादौ
     गुणवति तव नाथौ नाथितुं जन्तुरेषः ।
सपदि भवदनुज्ञां याचते देवि वृन्दे
     मयि किर करुणार्द्रां दृष्टिमत्र प्रसीद ॥ ४॥

दधतं वपुरंशुकन्दलीं
     दलदिन्दीवरवृन्दबन्धुराम् ।
कृतकाञ्चनकान्तिवञ्चनैः
     स्फुरितां चारुमरीचिसञ्चयैः ॥ ५॥

निचितं घनचञ्चलातते-
     रनुकूलेन दुकूलरोचिषा ।
मृगनाभिरुचः सनाभिना
     महितां मोहनपट्टवाससा ॥ ६॥

माधुरीं प्रकटयन्तमुज्ज्वलां
     श्रीपतेरपि वरिष्ठसौष्ठवाम् ।
इन्दिरामधुरगोष्ठसुन्दरी
     वृन्दविस्मयकरप्रभोन्नताम् ॥ ७॥

इतरजनदुर्घटोदयस्य
     स्थिरगुणरत्नचयस्य रोहणाद्रिम् ।
अखिलगुणवतीकदम्बचेतः
     प्रचुरचमत्कृतिकारिसद्गुणाढ्यम् ॥ ८॥

निस्तुलव्रजकिशोरमण्डली
     मौलिमण्डनहरिन्मणीश्वरम् ।
विश्वविस्फूरितगोकुलोल्लसन्
     नव्ययौवतवतंसमालिकाम् ॥ ९॥

स्वान्तसिन्धुमकरीकृतराधं
     हृन्निशाकरकुरङ्गितकृष्णाम् ।
प्रेयसीपरिमलोन्मदचित्तं
     प्रेष्ठसौरभहृतेन्द्रियवर्गाम् ॥ १०॥

प्रेममूर्तिवरकार्त्तिकदेवी
     कीर्तिगानमुखरीकृतवंशम् ।
विश्वनन्दनमुकुन्दसमज्ञा
     वृन्दकीर्तनरसज्ञरसज्ञाम् ॥ ११॥

नयनकमलमाधुरीनिरुद्ध
     व्रजनवयौवतमौलिहृन्मरालम् ।
व्रजपतिसुतचित्तमीनराज
     ग्रहणपटिष्ठविलोचनान्तजालाम् ॥ १२॥

गोपेन्द्रमित्रतनयाध्रुवधैर्यसिन्धु
     पानक्रियाकलससम्भववेणुनादम् ।
विद्यामहिष्ठमहतीमहनीयगान
     सम्मोहिताखिलविमोहनहृत्कुरङ्गाम् ॥ १३॥

क्वाप्यानुसङ्गिकतयोदितराधिकाख्या
     विस्मारिताखिलविलासकलाकलापम् ।
कृष्णेतिवर्णयुगलश्रवणानुबन्ध
     प्रादुर्भवज्जडिमडम्बरसंविताङ्गीम् ॥ १४॥

त्वां च वल्लवपुरन्दरात्मज
     त्वां च गोकुलवरेण्यनन्दिनि ।
एष मूर्ध्नि रचिताञ्जलिर्नयन्
     भिक्षते किमपि दुर्भगो जनः ॥ १५॥

हन्त सान्द्रकरुणासुधाझरी
     पूर्णमानसह्रदौ प्रसीदतम् ।
दुर्जनेऽत्र दिशतं रते निज
     प्रेक्षणप्रतिभुवश्छटामपि ॥ १६॥

श्यामयोर्नववयःसुषमाभ्यां
     गौरयोरमलकान्तियशोभ्याम् ।
क्वापि वामखिलवल्गुवतंसौ
     माधुरी हृदि सदा स्फुरतान् मे ॥ १७॥

सर्ववल्लववरेण्यकुमारौ
     प्रार्थये बत युवां प्रणिपत्य ।
लीलया वितरतं निजदास्यं
     लीलया वितरतं निजदास्यम् ॥ १८॥

प्रणिपत्य भवन्तमर्थये
     पशुपालेन्द्रकुमार काकुभिः ।
व्रजयौवतमौलिमालिका
     करुणापात्रमिमं जनं कुरु ॥ १९॥

भवतीमभिवाद्य चाटुभि-
     र्वरमूर्जेश्वरि वर्यमर्थये ।
भवदीयतया कृपां यथा
     मयि कुर्यादधिकां बकान्तकः ॥ २०॥

दिशि विदिशि विहारमाचरन्तः
     सह पशुपालवरेण्यनन्दनाभ्याम् ।
प्रणयिजनगणास्तयोः कुरुध्वं
     मयि करुणां बत काकुमाकलय्य ॥ २१॥

गिरिकुञ्जकुटीरनागरौ
     ललिते देवि सदा तवाश्रवौ ।
 इति ते किल नास्ति दुष्करं
     कृपयाङ्गीकुरु मामतः स्वयम् ॥ २२॥

भाजनं वरमिहासि विशाखे
     गौरनीलवपुषोः प्रणयानाम् ।
त्वं निजप्रणयिनोर्मयि तेन
     प्रापयस्व करुणार्द्रकटाक्षम् ॥ २३॥

सुबल वल्लववर्यकुमारयो-
     र्दयितसखस्त्वमसि व्रजे ।
 इति तयोः पुरतो विधुरं जनं
     क्षणममुं  कृपयाद्य निवेदय ॥ २४॥

श‍ृणुत कृपया हन्त प्राणेशयोः प्रणयोद्धुराः
     किमपि यदयं दीनः प्राणी निवेदयति क्षणम् ।
प्रवणितमनाः किं युष्माभिः समं तिलमप्यसौ
     युगपदनयोः सेवां प्रेम्णा कदापि विधास्यति ॥ २५॥

क्व जनोऽयमतीव पामरः
     क्व दुरापं रतिभाग्भिरप्यदः ।
इयमुल्लयत्यजर्जरा गुरु-
     रुत्तर्षधुरा तथापि माम् ॥ २६॥

ध्वन्तब्रह्ममरालकूजितभरैरूर्जेश्वरीनूपुर
     क्वानैरूर्जितवैभवस्तव विभो वंशीप्रसूतः कलः ।
लब्धः शस्तसमस्तनादनगरीसाम्राज्यलक्ष्मीं परां
     आराध्यः प्रणयात् कदा श्रवणयोर्द्वन्द्वेन मन्देन मे ॥ २७॥

स्तम्भं प्रपञ्चयति यः शिखिपिञ्छमौलि
     वेणोरपि प्रवलयन् स्वरभङ्गमुच्चैः ।
नादः कदा क्षणमवाप्स्यति ते महत्या
     वृन्दावनेश्वरि स मे श्रवणातिथित्वम् ॥ २८॥

कस्य सम्भवति हा तदहर्वा
     यत्र वां प्रभुवरौ कलगीतिः ।
उन्नमन् मधुरिमोर्मिसमृद्धा
     दुष्कृतं श्रवणयोर्विधुनोति ॥ २९॥

परिमलसरणिर्वां गौरनीलाङ्गराजन्
     मृगमदघुसृणानुग्राहिणी नागरेशौ ।
स्वमहिमपरमाणुप्रावृताशेषगन्धा
     किमिह मम भवित्री घ्राणभृङ्गोत्सवाय ॥ ३०॥

प्रदेशिनीं मुखकुहरे विनिक्षिपन्
     जनो मुहुर्वनभुवि फुत्करोत्यसौ ।
प्रसीदतं क्षणमधिपौ प्रसीदतं
     दृशोः पुरः स्फुरतु तडिद्घनच्छविः ॥ ३१॥

व्रजमधुरजनव्रजावतंसौ
     किमपि युवामभियाचते जनोऽयम् ।
मम नयनचमत्कृतिं करोतु
     क्षणमपि पादनखेन्दुकौमुदी वाम् ॥ ३२॥

अतर्कितसमीक्षणोल्लसितया मुदा श्लिष्यतो-
     र्निकुञ्जभवनाङ्गने स्फुरितगौरनीलाङ्गयोः ।
रुचः प्रचुरयन्तु वां पुरटयूथिकामञ्जरी
     विराजदलिरम्ययोर्मम चमत्कृतिं चक्षुषोः ॥ ३३॥

साक्षात्कृतिं बत ययोर्न महत्तमोऽपि
     कर्तुं मनस्यपि मनाक् प्रभुतामुपैति ।
इच्छन्नयं नयनयोः पथि तौ भवन्तौ
     जन्तुर्विजित्य निजगार भियं ह्रियं च ॥ ३४॥

अथवा मम किं नु दूषणं
     बत वृन्दावनचक्रवर्तिनौ ।
युवयोर्गुणमाधुरी नवा
     जनमुन्मादयतीव कं न वा ॥ ३५॥

अहह समयः सोऽपि क्षेमो घटेत नरस्य किं
     व्रजनटवरौ यत्रोद्दीप्ता कृपासुधयोज्ज्वला ।
कृतपरिजनश्रेणिचेतश्चकोरचमत्कृति-
     र्व्रजति युवयोः सा वक्त्रेन्दुद्वयी नयनाध्वनि ॥ ३६॥

प्रियजनकृतपार्ष्णिग्राहचर्योन्नताभिः
     सुगहनघटनाभिर्वक्रिमाडम्बरेण ।
प्रणयकलहकेलिक्ष्वेलिभिर्वामधीशौ
     किमिह रचयितव्यः कर्णयोर्विस्मयो मे ॥ ३७॥

निभृतमपहृतायामेतया वंशिकायां
     दिशि दिशि दृशमुत्कां प्रेर्य सम्पृच्छमानः ।
स्मितशवलमुखीभिर्विप्रलब्धः सखीभि-
     स्त्वमघहर कदा मे तुष्टिमक्ष्णोर्विधत्से ॥ ३८॥

क्षतमधरदलस्य स्वस्य कृत्वा त्वदाली
     कृतमिति ललितयां देवि कृष्णे ब्रुवाणे ।
स्मितशवलदृगन्ता किञ्चिदुत्तम्भितभ्रू-
     र्मम मुदमुपधास्यत्यास्यलक्ष्मीः कदा ते ॥ ३९॥

कथमिदमपि वाञ्छितुं निकृष्टः
     स्फुटमयमर्हति जन्तुरुत्तमार्हम् ।
गुरुलघुगणनोज्झितार्तनाथौ
     जयतितरामथवा कृपाद्युतिर्वाम् ॥ ४०॥

वृत्ते दैवाद् व्रजपतिसुहृन्नन्दिनीविप्रलम्भे
     संरम्भेणोल्ललित ललिताशङ्कयोद्भ्रान्तनेत्रः ।
त्वं शारीभिः समयपटुभिर्द्राग् उपालभ्यमानः
     कामं दामोदर मम कदा मोदमक्ष्णोर्विधाता ॥ ४१॥

रासारम्भे विलसति परित्यज्य गोष्ठाम्बुजाक्षी
     वृन्दं वृन्दावनभुवि रहः केशवेनोपनीय ।
त्वां स्वाधीनप्रियतमपदप्रापणेनार्चिताङ्गीं
     दूरे दृष्ट्वा हृदि किमचिरादर्पयिष्यामि दर्पम् ॥ ४२॥

रम्या शोणद्युतिभिरलकैर्यावकेनोर्जदेव्याः
     सद्यस्तन्द्रीमुकुलदलसक्लान्तनेत्रा व्रजेश ।
प्रातश्चन्द्रावलीपरिजनैः साचि दृष्टा विवर्णै-
     रास्यश्रीस्ते प्रणयति कदा सम्मदं मे मुदं च ॥ ४३॥

व्यात्युक्षीरभसोत्सवेऽधरसुधापानग्लहे प्रस्तुते
     जित्वा पातुमथोत्सुकेन हरिणा कण्ठे धृतायाः पुरः ।
ईषच्छोणिममीलिताक्षमनृजुभ्रूवल्लिहेलोन्नतं
     प्रेक्षिष्ये तव सस्मितं सरुदितं तद् देवि वक्त्रं कदा ॥ ४४॥

आलीभिः सममभुपेत्य शनकैर्गान्धर्विकायां मुदा
     गोष्ठाधीशकुमार हन्त कुसुमश्रेणीं हरन्त्यां तव ।
प्रेक्षिष्ये पुरतः प्रविश्य सहसा गूढस्मितास्यं बलाद्
     आच्छिन्दानमिहोत्तरीयमुरसस्त्वां भानुमत्याः कदा ॥ ४५॥

उदञ्चति मधूत्सवे सहचरीकुलेनाकुले कदा
     त्वमवलोक्यसे व्रजपुरन्दरस्यात्मज ।
स्मितोज्ज्वलमदीश्वरीचलदृगञ्चलप्रेरणान्
     निलीनगुणमञ्जरीवदनमत्र चुम्बन् मया ॥ ४६॥

कलिन्दतनयातटिवनविहारतः श्रान्तयोः
     स्फुरन्मधुरमाधवीसदनसीम्नि विश्राम्यतोः ।
विमुच्य रचयिष्यते स्वकचवृन्दमत्रामुना
     जनेन युवयोः कदा पदसरोजसन्मार्जनम् ॥ ४७॥

परिमिलदुपबर्हं पल्लवश्रेणिभिर्वां
     मदनसमरचर्याभारपर्याप्तमत्र ।
मृदुभिरमलपुष्पैः कल्पयिष्यामि तल्पं
     भ्रमरयुजि निकुञ्जे हा कदा कुञ्जराजौ ॥ ४८॥

अलिद्युतिभिराहृतैर्मिहिरनन्दिनीनिर्झरात्
     पुरः पुरटझर्झरीपरिभृतैः पयोभिर्मया ।
निजप्रणयिभिर्जनैः सह विधास्यते वां कदा
     विलासशयनस्थयोरिह पदाम्बुजक्षालन ॥ ४९॥

लीलातल्पे कलितवपुषोर्व्यावहासीमनल्पां
     स्मित्वा स्मित्वा जयकलनया कुर्वतोः कौतुकाय ।
मध्ये कुञ्जं किमिह युवयोः कल्पयिष्याम्यधीशौ
     सन्धारम्भे लघु लघु पदाम्भोजसंवाहनानि ॥ ५०॥

प्रमदमदनयुद्धारम्भसम्भावुकाभ्यां
     प्रमुदितहृदयाभ्यां हन्त वृन्दावनेशौ ।
किमहमिह युवाभ्यां पानलीलोन्मुखाभ्यां
     चषकमुपहरिष्ये साधु माध्वीकपूर्णम् ॥ ५१॥

कदाहं सेविष्ये व्रततिचमरीचामरमरुद्
     विनोदेन क्रीडाकुसुमशयने न्यस्तवपुषौ ।
दरोन्मीलन्नेत्रौ श्रमजलकणक्लिद्यदलकौ
     ब्रुवाणावन्योन्यं व्रजनवयुवानाविह युवाम् ॥ ५२॥

च्युतशिखरशिखण्डं किञ्चिदुत्स्रंसमानां
     विलुठदमलपुष्पश्रेणिमुन्मुच्य चूडाम् ।
दनुजदमन देव्याः शिक्षया ते कदाहं
     कमलकलितकोटिं कल्पयिष्यामि वेणीम् ॥ ५३॥

कमलमुखि विलासैरंसयोः स्रंसितानां
     तुलितशिखिकलापं कुन्तलानां कलापम् ।
तव कवरतयाविर्भाव्य मोदात् कदाहं
     विकचविचकिलानां मालयालङ्करिष्ये ॥ ५४॥

मिथःस्पर्धाबद्धे बलवति वलत्यक्षकलहे
     व्रजेश त्वां जित्वा व्रजयुवतिधम्मिल्लमणिना ।
दृगन्तेन क्षिप्ताः पणमिह कुरङ्गं तव कदा
     ग्रहीष्यामो बद्धा कलयति वयं तत्प्रियगणे ॥ ५५॥

किं भविष्यति शुभः स वासरो
     यत्र देवि नयनाञ्चलेन माम् ।
गर्वितं विहसितुं नियोक्ष्यसे
     द्यूतसंसदि विजित्य माधवम् ॥ ५६॥

किं जनस्य भवितास्य तद् दिनं
     यत्र नाथ मुहुरेनमादृतः ।
त्वं व्रजेश्वरवयस्यनन्दिनी
     मानभङ्गविधिमर्थयिष्यसे ॥ ५७॥

त्वदादेशं शारीकथितमहमाकर्ण्य मुदितो
     वसामि त्वत्कुण्डोपरि सखि विलम्बस्तव कथम् ।
इतीदं श्रीदामस्वसरि मम सन्देशकुसुमं
     हरेति त्वं दामोदर जनममुं नोत्स्यसि कदा ॥ ५८॥

शठोऽयं नावेक्ष्य पुनरिह मया मानधनया
     विशन्तं स्त्रीवेशं सुबलसुहृदं वारय गिरा ।
इदं ते साकूतं वचनमवधार्योच्छलितधीश्-
     छलाटोपैर्गोपप्रवरमवरोत्स्यामि किमहम् ॥ ५९॥

अघहर बलीवर्दः प्रेयान्नवस्तव यो व्रजे
     वृषभवपुषा दैत्येनासौ बलादभियुज्यते ।
 इति किल मृषागीर्भिश्चन्द्रावलीनिलयस्थितं
     वनभुवि कदा नेष्यामि त्वां मुकुन्द मदीश्वरीम् ॥ ६०॥

निगिरति जगदुच्चैः सूचिभेद्ये तमिस्रे
     भ्रमररुचिनिचोलेनाङ्गमावृत्य दीप्तम् ।
परिहृतमणिकाञ्चीनूपुरायाः कदाहं
     तव नवमभिसाऋअं काऋअयिष्यामि देवि ॥ ६१॥

आस्ये देव्याः कथमपि मुदा न्यस्तमास्यात् त्वयेश
     क्षिप्तं पर्णे प्रणयजनिताद् देवि वाम्यात् त्वयाग्रे ।
आकूतज्ञस्तदतिनिभृतं चर्वितं खर्विताङ्ग-
     स्ताम्बूलीयं रसयति जनः फुल्लरोमा कदायम् ॥ ६२॥

परस्परमपश्यतोः प्रणयमानिनोर्वां कदा
     धृतोत्केलिकयोरपि स्वमभिरक्षतोराग्रहम् ।
द्वयोः स्मितमुदञ्चये नुदसि किं मुकुन्दामुना
     दृगन्तनटनेन मामुपरमेत्यलीकोक्तिभिः ॥ ६३॥

कदाप्यवसरः स मे किमु भविष्यति स्वामिनौ
     जनोऽयमनुरागतः पृथुनि यत्र कुञ्जोदरे ।
त्वया सह तवालिके विविधवर्णगन्धद्रव्यैश्-
     चिरं विरचयिष्यति प्रकटपत्रवल्लीश्रियम् ॥ ६४॥

इदं सेवाभाग्यं भवति सुलभं येन युवयोश्-
     छटाप्यस्य प्रेम्णः स्फुरति नहि सुप्तावपि मम ।
पदार्थेऽस्मिन् युष्मद्व्रजमनु निवासेन जनित-
     स्तथाप्याशाबन्धः परिवृढवरौ मां द्रढयति ॥ ६५॥

प्रपद्य भवदीयतां कलितनिर्मलप्रेमभि-
     र्महद्भिरपि काम्यते किमपि यत्र तार्णं जनुः ।
कृतात्र कुजनेरपि व्रजवने स्थितिर्मे यया
     कृपां कृपणगामिनीं सदसि नौमि तामेव वाम् ॥ ६६॥

माधव्या मधुराङ्ग काननपदप्राप्ताधिराज्यश्रिया
     वृन्दारण्यविकासिसौरभतते तापिञ्छकल्पद्रुम ।
नोत्तापं जगदेव यस्य भजते कीर्तिच्छटाच्छायया
     चित्रा तस्य तवाङ्घ्रिसन्निधिजुषां किं वा फलाप्तिर्नेणाम् ॥ ६७॥

त्वल्लीलामधुकुल्ययोल्लसितया कृष्णाम्बुदस्यामृतैः
     श्रीवृन्दावनकल्पवल्लिपरितः सौरभ्यविस्फारया ।
माधुर्येण समस्तमेव पृथुना ब्रह्माण्डमप्यायितं
     नाश्चर्यं भुवि लब्धपादरजसां पर्वोन्नतिर्वीरुधाम् ॥ ६८॥

पशुपालवरेण्यनन्दनौ
     वरमेतं मुहुरर्थये युवाम् ।
भवतु प्रणयो भवे भवे
     भवतोरेव पदाम्बुजेषु मे ॥ ६९॥

उद्गीर्णाभूदुत्कलिकावल्लरिरग्रे
     वृन्दाटाव्यां नित्यविलासव्रतयोर्वाम् ।
वाङ्मात्रेण व्याहरतोऽप्युल्ललमेतां
     आकर्ण्येशौ कामितसिद्धिं कुरुतं मे ॥ ७०॥

चन्द्राश्वभुवने शाके पौषे गोकुलवासिना ।
इयमुत्कलिकापूर्वा वल्लरी निर्मिता मया ॥ ७१॥

(१४७१ शकाब्दे, १५५० खृष्टाब्दे)

इति श्रीरूपगोस्वामिविरचितस्तवमालायां उत्कलिकावल्लरी समाप्ता ।

Leave a Reply

Your email address will not be published. Required fields are marked *