
शिव अपराधस्तवः शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापते भूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक । शर्वोग्राभय भर्ग भीम जगतां नाथाक्षय श्रीनिधे रुद्रेशान महेश्वरेश्वर महायोगीशतुभ्यं नमः ॥ १॥ स्वामिन् सर्वजगद्गुरो हर महालीलाक्षमाक्षेत्रस- च्चिद्रूपाखिलभूतभाव्यजगतां नाथ प्रपन्नार्तिहन् । पापघ्नाशुभपाशदुःखभयहृद्भक्तेष्टद ज्ञानद श्रीदातर्क्य षडङ्ग मोक्षण महायोगीश तुभ्यं नमः ॥ २॥ क्रूरं कष्टतरं विनष्टहृदयं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशिनं हिंसकम् । आशापाशशतप्रबद्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३॥ मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं कामान्धं क्षणिकं कदर्थनपरं दौश्शील्यजन्मस्थलम् । अज्ञं लुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ४॥ क्षुद्रं दुर्भगमल्पसत्त्वमलसं भग्नव्रतं रागिणं भीरुं डाम्भिकमीर्ष्यकं व्यसनिनं पापात्मकं सूतकम् । आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ५॥ आकाङ्क्षाश्रयमार्यवर्तिविमुखं क्षीणं गुणद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् । दीनं पापरतं समस्त विषयेष्वासक्तमन्यायिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ६॥ अश्रद्धं गतपौरुषं कुपथगं जाज्वल्यमानं हृषा संसारार्णवमग्नमूर्मितरलं नीचप्रियं निर्दयम् । वैराग्यानतिदानयोगनियमद्वेष्टारमुन्मादिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ७॥ द्वन्द्वग्रस्तसमस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं दुःसङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् । शैवज्ञानपराङ्मुखं खलजनव्यापारपारङ्गतं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ८॥ दुर्मत्यावमतिप्रवृद्धरजसं सद्वृद्धसेवारिपुं सद्धर्मेष्वसमुत्सुकं गुरुजने मान्येषु चात्युद्धतम् । शिष्टाशिष्टकरप्रियं च सततं दुष्टस्य तुष्टिप्रदं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ९॥ स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं ध्यानाध्यानविचारणागुणरिपुं तुच्छं मदोच्छृङ्खलम् । दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्याश्रयं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १०॥ आत्मातिस्तुतिकारिणं परमहानिन्दाकरं निन्दितं लुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् । व्याक्रोशाद्विहतस्वकार्यनिचयं सर्वापदां सञ्चयं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ११॥ कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महावञ्चकं दुर्बुद्धिं मदमानमत्सरनिधिं दुर्वृत्तवृत्त्याश्रयम् । मिथ्याज्ञानिनमार्यकण्टकमलं लोकत्रये दूषितं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १२॥ दुष्कर्मप्रचये प्रहृष्टहृदयं क्लेशैश्च सम्पीडितं चार्वाकं कुमतिं कुचेलमलसं कार्पण्यजन्मस्थलम् । भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यच्युतं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १३॥ चित्तक्षोभकरं कलङ्कहृदयं शोकास्पदं लोलुपं सारासारविचारहीनमनसं नीचप्रियं नीरसम् । मत्तोन्मत्तनिकृष्टनष्टचकितं शून्यं हृदालापिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १४॥ आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं सङ्कल्पैर्बहुभिर्विभिन्नहृदयं दैत्यप्रसक्तं सदा । मर्माविद्वचनं कठोरहृदयं मित्रद्रुहं चुम्बकं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १५॥ वेदोक्ताचरणाशिवात्मचरितं स्वेच्छाप्रवृत्तिं सदा सच्छास्नेष्वपरागिणं प्रियतमालक्ष्मीगुणावेष्टितम् । दाक्षिण्यप्रतिपन्नताविरहितं स्वार्थैकदृष्टिं सदा कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १६॥ सत्यत्यागदयाक्षमाशमदमाद्यर्थानभिज्ञात्मकं देवब्राह्मणगोव्रजातिथिपितृज्ञानात्मकापूजकम् । विश्वस्तेष्वपकारवञ्चनपरं मैत्रीरिपुं दुर्जनं कारुण्याकरवारिधे भव पितर्दोषकरं पाहि माम् ॥ १७॥ कृत्वाधर्ममतिं कथञ्चिदपरः को मत्समोऽस्मिन्भवे- दित्येवं बहुजल्पिनं कुपुरुषं भ्रान्त्याश्रयं राक्षसम् । दृष्टादृष्टसुखैषिणं बत मुदा मुक्त्वा शिवाराधनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १८॥ मार्जालाखुबकाश्वकुक्कुटकपिक्रोडाहिवृत्तिं सदा तीर्थध्वाङ्क्षमनर्थकं परसुखे सन्तापिनं दुःसहम् । त्यक्तोपायममेयकाङ्क्षिणमहो शुण्ठं च चोरोपमं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १९॥ अस्पृश्यं विकलं कुधैर्यमखिले दोषे स्वकीये गुणं पश्यन्तं चलमात्मकार्यनिरतं पूज्यं विषादात्मकम् । चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २०॥ दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं दासीमेषखरस्वभावमपटुं सम्मानने भाजने । रिक्तं बालकदीर्घसूत्रिणमलं हृच्छल्यशीलं सदा कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि भाम् ॥ २१॥ अत्यादेशिनमुत्तमस्थितिमतां सन्त्यागिनं नास्तिकं रन्ध्रान्वेषिणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः । माहात्म्य श्रवणस्तुतीक्षणविधौ माहेश्वरा वत्सलं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २२॥ दुष्कार्यालघुभारवाहनपशुं तृष्णातृणग्राहिणं संसारार्णवदुःखपङ्कपतितं यान्तं सदाधो भृशम् । स्वत्वाहन्त्वममत्वमोहमकरैराकृष्यमाणं सदा कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २३॥ भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं सम्भ्रान्तं चपलं विधानविहितव्यापारविद्वेषिणम् । शम्भो त्वत्पदभक्तिहीनमदृढं सम्मूढमात्मद्विषं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २४॥ ज्येष्ठावासमतिप्रमादितमतिं क्षुत्तृड्जराद्यर्दितं स्वप्नेऽप्यन्यपरोपकाररहितं सर्वाहितं दुर्लभम् । लोके सत्परिहार्यनिन्दितमहो दुःखप्रदेशक्रियं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २५॥ त्वक्चुक्लान्त्रसिरातनूरुहमयं काराख्यरन्ध्रस्थितं नानापायपतिष्णु कालशिखिना पापच्यमानं भृशम् । दृष्ट्वापि स्वकलेवरं कृशतरं तत्रापि रक्तं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २६॥ किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतले नाभून्नास्ति च नो भविष्यति पुमान् निर्भाग्यचूडामणिः । तस्मादीदृशमात्मवञ्चकमहो त्रैलोक्यचूडामणे कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २७॥ सर्वश्रेष्ठ गुणैकभाजन विभो सत्त्वोत्तमेषूत्तमा- सङ्ख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् । श्रीशाश्रीशमतीन्द्रियेन्द्रियवशं निस्सङ्गिनं सङ्गिनं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २८॥ विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं निर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् । दृष्ट्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २९॥ विष्ठामूत्रकुजन्त्वनिष्टमशुभं स्वाभाव्यतो नश्वरं कृष्णक्षेण्यविषूचिकाज्वरशिरश्शूलादिरोगास्पदम् । ज्ञात्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३०॥ पङ्गुत्वान्ध्यजरित्वमौर्ख्यखलताबाधिर्यजन्मस्थलं क्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् । सम्पश्यन्नपि दोषमत्र तु सदा सम्प्रीतियुक्तं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३१॥ देहक्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचा छन्नं क्लिन्नमहार्णवं व्रणमुखैर्नित्यं स्रवन्तं मलम् । तं दृष्ट्वाप्यविरागिणं च नरके शूनं सरागं पशुं कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३२॥ ॥ इति अपराधस्तवः सम्पूर्णः ॥