श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् हिंदी पाठ:Venkateswara Ashtottara Shatanama Stotram in Hindi

श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः
अमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः
प्रभुं शेषाद्रि निलयो देवः केशवो मधुसूदनः ।
अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर ॥ १ ॥
श्री वत्सवक्षसर्वेशो गोपालः पुरुषोत्तमः ।
गोपीश्वरः परञ्ज्योतिर्वैकुण्ठ पतिरव्ययः ॥ २ ॥
सुधातनर्यादवेन्द्रो नित्ययौवनरूपवान् ।
चतुर्वेदात्मको विष्णु रच्युतः पद्मिनीप्रियः ॥ ३ ॥
धरापतिस्सुरपतिर्निर्मलो देवपूजितः ।
चतुर्भुज श्चक्रधर स्त्रिधामा त्रिगुणाश्रयः ॥ ४ ॥
निर्विकल्पो निष्कळङ्को निरान्तको निरञ्जनः ।
निराभासो नित्यतृप्तो निर्गुणोनिरुपद्रवः ॥ ५ ॥
गदाधर शार्ङ्गपाणिर्नन्दकी शङ्खधारकः ।
अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥ ६ ॥
अनेकात्मा दीनबन्धुरार्तलोकाभयप्रदः ।
आकाशराजवरदो योगिहृत्पद्म मन्दिरः ॥ ७ ॥
दामोदरो जगत्पालः पापघ्नोभक्तवत्सलः ।
त्रिविक्रमशिंशुमारो जटामकुटशोभितः ॥ ८ ॥
शङ्खमध्योल्लसन्मञ्जूकिङ्किण्याध्यकरन्दकः ।
नीलमेघश्यामतनुर्बिल्वपत्रार्चन प्रियः ॥ ९ ॥
जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।
चिन्तितार्थप्रदो जिष्णुर्दाशरथे दशरूपवान् ॥ १० ॥
देवकीनन्दन शौरि हयग्रीवो जनार्धनः ।
कन्याश्रवणतारेज्य पीताम्बरोनघः ॥ ११ ॥
वनमालीपद्मनाभ मृगयासक्त मानसः ।
अश्वारूढं खड्गधारीधनार्जन समुत्सुकः ॥ १२ ॥
घनसारसन्मध्यकस्तूरीतिलकोज्ज्वलः ।
सच्चिदानन्दरूपश्च जगन्मङ्गळदायकः ॥ १३ ॥
यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।
परमार्थप्रद श्शान्तश्श्रीमान् दोर्धण्ड विक्रमः ॥ १४ ॥
परात्परः परब्रह्मा Venkateswara श्रीविभुर्जगदीश्वरः ।
एवं श्री वेङ्कटेशस्यनाम्नां अष्टोत्तरं शतम् ॥ १५ ॥
पठ्यतां शृण्वतां भक्त्या सर्वाभीष्ट प्रदं शुभम् ।
॥ इति श्री वेङ्कटेश्वर शतनामावली स्तोत्रम् सम्पूर्णम् ॥
Sri Subramanya Bhujanga Stotram: श्री सुब्रह्मण्य भुजङ्ग स्त्रोत….
श्री सुब्रह्मण्य भुजङ्ग स्त्रोत हिंदी पाठ : Sri Subramanya Bhujanga Stotram in Hindiसदा बालरूपाऽपि विघ्नाद्रिहंत्रीमहादंतिवक्त्राऽपि पंचास्यमान्या ।विधींद्रादिमृग्या गणेशाभिधा मेविधत्तां श्रियं काऽपि…
Sri Subramanya Karavalamba : श्री सुब्रह्मण्य करावलम्ब स्तोत्रम्….
श्री सुब्रह्मण्य करावलम्ब स्तोत्रम् हिंदी पाठ : Sri Subramanya Karavalamba in Hindiहे स्वामिनाथ करुणाकर दीनबंधो,श्रीपार्वतीशमुखपंकज पद्मबंधो ।श्रीशादिदेवगणपूजितपादपद्म,वल्लीसनाथ मम देहि करावलंबम् ॥…
Shri Saraswati Stotra : श्री सरस्वती स्तोत्र….
Shri Saraswati Stotra श्री सरस्वती स्तोत्र: माता सरस्वती को प्रसन्न करने और उन पर व अपने परिवार पर उनकी कृपा…



KARMASU