Utkalikavallarih: उत्कलिकावल्लरीः
Utkalikavallarih: उत्कलिकावल्लरीः श्रीवृन्दारण्यविहारिणे नमः । प्रपद्य वृन्दावनमध्यमेकः क्रोशन्नसावुत्कलिकाकुलात्मा । उद्घाटयामि ज्वलतः कठोरां बाष्पस्य मुद्रां हृदि मुद्रितस्य ॥ १॥ अये वृन्दारण्य त्वरितमिह ते सेवनपराः परामापुः के वा न किल परमानन्दपदवीम् । अतो नीचैर्याचे स्वयमधिपयोरीक्षणविधे- र्वरेण्यां मे चेतस्युपदिश दिशं हा कुरु कृपाम् ॥ २॥ तवारण्ये देवि ध्रुवमिह मुरारिपोर्विहरते सदा प्रेयस्येति श्रुतिरपि विरौति स्मृतिरपि । इति ज्ञात्वा वृन्दे




KARMASU