Maa Chinnamasta Stotram in Hindi:माँ छिन्नमस्ता स्तोत्र हिंदी पाठ
Maa Chinnamasta Stotram:आनन्दयित्रि परमेश्वरि वेदगर्भे मातः पुरन्दरपुरान्तरलब्धनेत्रे ।
लक्ष्मीमशेषजगतां परिभावयन्तः सन्तो भजन्ति भवतीं धनदेशलब्ध्यै ॥ १ ॥
लज्जानुगां विमलविद्रुमकान्तिकान्तां कान्तानुरागरसिकाः परमेश्वरि त्वाम् ।
ये भावयन्ति मनसा मनुजास्त एते सीमन्तिनीभिरनिशं परिभाव्यमानाः ॥ २ ॥
मायामयीं निखिलपातककोटिकूटविद्राविणीं भृशमसंशयिनो भजन्ति ।
त्वां पद्मसुन्दरतनुं तरुणारुणास्यां पाशाङ्कुशाभयवराद्यकरां वरास्त्रैः ॥ ३ ॥
ते तर्ककर्कशधियः श्रुतिशास्त्रशिल्पैश्छन्दोऽ- भिशोभितमुखाः सकलागमज्ञाः ।
सर्वज्ञलब्धविभवाः कुमुदेन्दुवर्णां ये वाग्भवे च भवतीं परिभावयन्ति ॥ ४ ॥
वज्रपणुन्नहृदया समयद्रुहस्ते वैरोचने मदनमन्दिरगास्यमातः ।
मायाद्वयानुगतविग्रहभूषिताऽसि दिव्यास्त्रवह्निवनितानुगताऽसि धन्ये ॥ ५ ॥

वृत्तत्रयाष्टदलवह्निपुरःसरस्य मार्तण्डमण्डलगतां परिभावयन्ति ।
ये वह्निकूटसदृशीं मणिपूरकान्तस्ते कालकण्टकविडम्बनचञ्चवः स्युः ॥ ६ ॥
कालागरुभ्रमरचन्दनकुण्डगोल- खण्डैरनङ्गमदनोद्भवमादनीभिः ।
सिन्दूरकुङ्कुमपटीरहिमैर्विधाय सन्मण्डलं तदुपरीह यजेन्मृडानीम् ॥ ७ ॥
चञ्चत्तडिन्मिहिरकोटिकरां विचेला- मुद्यत्कबन्धरुधिरां द्विभुजां त्रिनेत्राम् ।
वामे विकीर्णकचशीर्षकरे परे तामीडे परं परमकर्त्रिकया समेताम् ॥ ८ ॥
कामेश्वराङ्गनिलयां कलया सुधांशोर्विभ्राजमानहृदयामपरे स्मरन्ति ।
सुप्ताहिराजसदृशीं परमेश्वरस्थां त्वामाद्रिराजतनये च समानमानाः ॥ ९ ॥
लिङ्गत्रयोपरिगतामपि वह्निचक्र- पीठानुगां सरसिजासनसन्निविष्टाम् ।
सुप्तां प्रबोध्य भवतीं मनुजा गुरूक्तहूँकारवायुवशिभिर्मनसा भजन्ति ॥ १० ॥
शुभ्रासि शान्तिककथासु तथैव पीता स्तम्भे रिपोरथ च शुभ्रतरासि मातः ।
उच्चाटनेऽप्यसितकर्मसुकर्मणि त्वं संसेव्यसे स्फटिककान्तिरनन्तचारे ॥ ११ ॥
त्वामुत्पलैर्मधुयुतैर्मधुनोपनीतैर्गव्यैः पयोविलुलितैः शतमेव कुण्डे ।
साज्यैश्च तोषयति यः पुरुषस्त्रिसन्ध्यं षण्मासतो भवति शक्रसमो हि भूमौ ॥ १२ ॥
जाग्रत्स्वपन्नपि शिवे तव मन्त्रराजमेवं विचिन्तयति यो मनसा विधिज्ञः ।
संसारसागरसमृद्धरणे वहित्रं चित्रं न भूतजननेऽपि जगत्सु पुंसः ॥ १३ ॥
इयं विद्या वन्द्या हरिहरविरिञ्चिप्रभृतिभिः पुरारातेरन्तः पुरमिदमगम्यं पशुजनैः ।
सुधामन्दानन्दैः पशुपतिसमानव्यसनिभिः सुधासेव्यैः सद्भिर्गुरुचरणसंसारचतुरैः ॥ १४ ॥
कुण्डे वा मण्डले वा शुचिरथ मनुना भावयत्येव मन्त्री संस्थाप्योच्चैर्जुहोति प्रसवसुफलदैः पद्मपालाशकानाम् ।
हैमं क्षीरैस्तिलैर्वां समधुककुसुमैर्मालतीबन्धुजातीश्वेतैरब्धं सकानामपि वरसमिधा सम्पदे सर्वसिद्ध्यै ॥ १५ ॥
अन्धः साज्यं समांसं दधियुतमथवा योऽन्वहं यामिनीनां मध्ये देव्यै ददाति प्रभवति गृहगा श्रीरमुष्यावखण्डा ।
आज्यं मांसं सरक्तं तिलयुतमथवा तण्डुलं पायसं वा हुत्वा मांसं त्रिसन्ध्यं स भवति मनुजो भूतिभिर्भूतनाथः ॥ १६ ॥
इदं देव्याः स्तोत्रं पठति मनुजो यस्त्रिसमयं शुचिर्भूत्वा विश्वे भवति धनदो वासवसमः ।
वशा भूपाः कान्ता निखिलरिपुहन्तुः सुरगणा भवन्त्युच्चैर्वाचो यदिह ननु मासैस्त्रिभिरपि ॥ १७ ॥
Maa Chinnamasta Stotram॥ इति माँ छिन्नमस्ता स्तोत्र सम्पूर्णम् ॥
Shri Vishnu Stotra : श्री विष्णु स्तोत्र….
Vishnu Stotra: श्री विष्णु स्तोत्र: श्री विष्णु स्तोत्र हिंदू धर्म में सबसे पवित्र और सम्मानित मंत्रों में से एक है।…
Shri Laghu Stotram : श्री लघु स्तोत्रम्….
श्री लघु स्तोत्रम् हिंदी पाठ : Shri Laghu Stotram in Hindiआधारे तरुणार्कबिम्बरूचिरं सोमप्रभं वाग्भवंबीजं मनमथमिंद्रगोपकनिभं ह्रत्पंकजे संस्थितम् ।रन्ध्रे ब्रह्मपदे च शाक्तमपरं…
Sri Laghu Annapurna Stotram : श्री लघु अन्नपूर्णा स्तोत्र…..
श्री लघु अन्नपूर्णा स्तोत्र हिंदी पाठ : Sri Laghu Annapurna Stotram in Hindiभगवति भवरोगात् पीडितं दुष्कृतोत्यात् ।सुतदुहितृकलत्र उपद्रवेणानुयातम् ।विलसदमृतदृष्ट्या वीक्ष…
Sri Lakshmi Narayana Stotram : श्री लक्ष्मी नारायण स्तोत्रम्….
श्री लक्ष्मी नारायण स्तोत्रम् हिंदी पाठ : Sri Lakshmi Narayana Stotram in Hindiध्यानम् –चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मंदोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम्…
Krishnapingal Sankashti Chaturthi 2026 Date And Time : कृष्णपिङ्गल संकष्टी चतुर्थी तिथि, शुभ मुहूर्त, पूजा विधि और सभी कष्टों से मुक्ति का अचूक उपाय…..
Krishnapingal Sankashti Chaturthi 2026 Date And Time: सनातन धर्म और भारतीय संस्कृति में भगवान श्री गणेश जी को प्रथम पूज्य…
Shri Rama Stotram : श्री राम स्तोत्र….
श्री राम स्तोत्र हिंदी पाठ : Shri Rama Stotram in Hindiआपदामपहर्तारं दातारं सर्वसंपदाम् ।लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ १…
Shri Vishnu Stotra : श्री विष्णु स्तोत्र….
Vishnu Stotra: श्री विष्णु स्तोत्र: श्री विष्णु स्तोत्र हिंदू धर्म में सबसे पवित्र और सम्मानित मंत्रों में से एक है।…
Shri Laghu Stotram : श्री लघु स्तोत्रम्….
श्री लघु स्तोत्रम् हिंदी पाठ : Shri Laghu Stotram in Hindiआधारे तरुणार्कबिम्बरूचिरं सोमप्रभं वाग्भवंबीजं मनमथमिंद्रगोपकनिभं ह्रत्पंकजे संस्थितम् ।रन्ध्रे ब्रह्मपदे च शाक्तमपरं…
Sri Laghu Annapurna Stotram : श्री लघु अन्नपूर्णा स्तोत्र…..
श्री लघु अन्नपूर्णा स्तोत्र हिंदी पाठ : Sri Laghu Annapurna Stotram in Hindiभगवति भवरोगात् पीडितं दुष्कृतोत्यात् ।सुतदुहितृकलत्र उपद्रवेणानुयातम् ।विलसदमृतदृष्ट्या वीक्ष…






KARMASU