2021

गर्भरक्षणस्तोत्रम्

एह्यहि भगवन् ब्रह्मन् प्रजाकर्तः प्रजापते । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ १॥ अश्विनौ देवदेवेशौ प्रगृह्णीधन् बलिं त्विमम् । सापत्यं गर्भिणीं सैमं स रक्षतां पूजयानया ॥ २॥ रुद्रेशा एकादश प्रोक्ताः प्रगृह्णन्तु बलिं त्विमम् । यक्षागमप्रीतये वृत्तं नित्यं रक्षन्तु गर्भिणीम् ॥ ३॥ आदित्या द्वादश प्रोक्ताः प्रगृह्णीध्वं बलिं त्विमाम् । अस्माकं तेजसां वृद्ध्यै नित्यं रक्षतु गर्भिणीम् ॥ ४॥ विनायक गणाध्यक्ष शिवपुत्र महाबल । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ ५ ॥ स्कन्द षण्मुख देवेश पुत्रप्रीतिविवर्धन । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ ६॥ प्रभासः प्रभवश्यामः प्रत्यासौ मारुतोऽनलः । ध्रुवाधर धराशैव वसवेष्टौ प्रकीर्तितः । प्रगृह्णीष्व बलिं सैमं नित्यं रक्षतु गर्भिणीम् ॥ ७॥ पितृदेवि पितृश्रेष्ठे बहुपुत्रि महाबले । बुधश्रेष्ठे निशावासे निवृत्ते शौनकप्रिये । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ ८॥ रक्ष रक्ष महादेव भक्तानुग्रहकारक । पक्षिवाहन गोविन्द सापत्यं रक्ष गर्भिणीम् ॥ ९॥

गर्भरक्षणस्तोत्रम् Read More »

गरुडकवचम्

अथ गरुडकवचम् । हरिः ॐ । अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारद भगवान् ऋषिः वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः । ॐ शिरो मे गरुडः पातु ललाटे विनितासुतः । नेत्रे तु सर्पहा पातु कर्णौ पातु सुराहतः ॥ १॥ नासिकां पातु सर्पारिः वदनं विष्णुवाहनः । सूर्येतालू च कण्ठे च भुजौ पातु महाबलः ॥ २॥ हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ॥ ३॥ स्तनौ मे विहगः पातु हृदयं पातु सर्पहा । नाभिं पातु महातेजाः कटिं मे पातु वायुनः ॥ ४॥ ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा । पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ॥ ५॥ रोमकूपानि मे वीरो त्वचं पातु भयापहा । इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् ॥ ६॥ यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति । त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः । द्वादशाहं पठेद्यस्तु मुच्यते सर्वकिल्विषैः ॥ ७॥ ॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम् ॥

गरुडकवचम् Read More »

श्रीकृष्णसहस्रनामस्तोत्र

श्रीमद्रुक्मिमहीपालवंशरक्षामणिः स्थिरः । राजा हरिहरः क्षोणीं रक्षत्यम्बुधिमेखलाम् ।१॥ स राजा सर्वतन्त्रज्ञः समभ्यर्च्य वरप्रदम् । देवं श्रियः पतिं स्तुत्या समस्तौद्वेदवेदितम् ॥ २॥ तस्य हृष्टाशयः स्तुत्या विष्णुर्गोपांगनावृतः । स पिंछश्यामलं रूपं पिंछोत्तंसमदर्शयत् ॥ ३॥ स पुनः स्वात्मविन्यस्तचित्तं हरिहरं नृपम् । अभिषिच्य कृपावर्षैरभाषत कृतांजलिम् ॥ ४॥ श्रीभगवानुवाच । मामवेहि महाभाग कृष्णं कृत्यविदां वर । पुरःस्थितोऽस्मि त्वद्भक्त्या पूर्णास्सन्तु मनोरथाः ॥ ५॥ संरक्षणाय शिष्टानां दुष्टानां शिक्षणाय च । समृद्ध्यै वेदधर्माणां ममांशत्वमिहोदितः ॥ ६॥ राजन्नामसहस्रेण रामो नाम्नां स्तुतस्त्वया । सोऽहं सर्वविदो तस्मात्प्रसन्नोऽस्मि विशेषतः ॥ ७॥ मामपि त्वं महाभाग मदीयचरितात्मना । सम्प्रीणय सहस्रेण नाम्नां सर्वार्थदायिनाम् ॥ ८॥ पराशरेण मुनिना व्यासेनाम्नायर्दशिना । स्वात्मभाजा शुकेनापि सूक्तेऽप्येतद्विभावितम् ॥ ९॥ तं हि त्वमनुसन्धेहि सहस्रशिरसं प्रभुम् । दत्तान्येषु मया न्यस्तं सहस्रं रक्षयिष्यति ॥ १०॥ इदं विश्वहितार्थाय रसनारंगगोचरम् । प्रकाशय त्वं मेदिन्यां परमागमसम्मतम् ॥ ११॥ इदं शठाय मूर्खाय नास्तिकाय विकीर्णिने । असूयिनेऽहितायापि न प्रकाश्यं कदाचन ॥ १२॥ विवेकिने विशुद्धाय वेदमार्गानुसारिणे । आस्तिकायात्मनिष्ठाय स्वात्मन्यनुसृतोदयम् ॥ १३॥ कृष्णनामसहस्रं वै कृतधीरेतदीरयेत् । विनियोगः ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य पराशरऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णः परमात्मा देवता, श्रीकृष्णेति बीजम्, श्रीवल्लभेति शक्तिः, शार्ङ्गीति कीलकं, श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥ न्यासः पराशराय ऋषये नमः इति शिरसि, अनुष्टुप् छन्दसे नमः इति मुखे, गोपालकृष्णदेवतायै नमः, इति हृदये, श्रीकृष्णाय बीजाय नमः इति गुह्ये, श्रीवल्लभाय शक्त्यै नमः इति पादयोः, शार्ङ्गधराय कीलकाय नमः इति सर्वांगे ॥ करन्यासः श्रीकृष्ण इत्यारभ्य शूरवंशैकधीरित्यन्तानि अंगुष्ठाभ्यां नमः । शौरिरित्यारभ्य स्वभासोद्भासितव्रज इत्यन्तानि तर्जनीभ्यां नमः । कृतात्मविद्याविन्यासेत्यारभ्य प्रस्थानशकटारूढ इति मध्यमाभ्यां नमः, वृंदावनकृतालय इत्यारभ्य मधुराजनवीक्षित इत्यानामिकाभ्यां नमः, रजकप्रतिघातक इत्यारभ्य द्वारकापुरकल्पन इति कनिष्ठिकाभ्यां नमः द्वारकानिलय इत्यारभ्य पराशर इति करतलकरपृष्ठाभ्यां नमः, एवं हृदयादिन्यासः ॥ ध्यानम् । केषांचित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् । केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत् ॥ १॥ क्षीराब्धौ कृतसंस्तवस्सुरगणैर्ब्रह्मादिभिः पण्डितैः प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले । कंसध्वंसकृते जगाम मधुरां सारामसद्वारकां गोपालोऽखिलगोपिकाजनसखः पायादपायात् स नः ॥ २॥ फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं गोविन्दं कलवेणुवादनरतं दिव्यांगभूषं भजे ॥ ३॥ ॐ कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः । क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ १॥ भक्तिगम्यः त्रईमूर्तिर्भारार्तवसुधास्तुतः । देवदेवो दयासिन्धुर्देवदेवशिखामणिः ॥ २॥ सुखभावस्सुखाधारो मुकुन्दो मुदिताशयः । अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ ३॥ शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः । अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥ ४॥ वसुधायासहरणो नारदप्रेरणोन्मुखः । प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥ ५॥ रौहिणेयकृतानन्दो योगज्ञाननियोजकः । महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥ ६॥ शूरवंशैकधीश्शौरिः कंसशंकाविषादकृत् । वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः ॥ ७॥ वसुदेवसुतः श्रीमान्देवकीनन्दनो हरिः । आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ ८॥ स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः । प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः ॥ ९॥ शंखचक्रगदापद्मपाणिः पद्मनिभेक्षणः । किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥ १०॥ पीतवासा घनश्यामः कुंचितांचितकुन्तलः । सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ ११॥ कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः । वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ १२॥ निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः । अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ १३॥ महर्षिमानसोल्लासो महीमंगलदायकः । सन्तोषितसुरव्रातः साधुचित्तप्रसादकः ॥ १४॥ जनकोपायनिर्देष्टा देवकीनयनोत्सवः । पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ १५॥ स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः । शेषोरगफणाच्छत्रश्शेषोक्ताख्यासहस्रकः ॥ १६॥ यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः । कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः ॥ १७॥ दुर्गानिवेदितोद्भावो यशोदातल्पशायकः । नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥ १८॥ सुजातजातकर्म श्रीर्गोपीभद्रोक्तिनिर्वृतः । अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ १९॥ स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः । विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ २०॥ नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः । बालः पर्यंकनिद्रालुर्मुखार्पितपदांगुलिः ॥ २१॥ अंजनस्निग्धनयनः पर्यायांकुरितस्मितः । लीलाक्षस्तरलालोकश्शकटासुरभंजनः ॥ २२॥ द्विजोदितस्वस्त्ययनो मंत्रपूतजलाप्लुतः । यशोदोत्संगपर्यंको यशोदामुखवीक्षकः ॥ २३॥ यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः । तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ २४॥ प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः । व्यालम्बिचूलिकारत्नो घोषगोपप्रहर्षणः ॥ २५॥ स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः । पंकानुलेपरुचिरो मांसलोरूकटीतटः ॥ २६॥ घृष्टजानुकरद्वंद्वः प्रतिबिम्बानुकारकृत् । अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्ग्मः ॥ २७॥ धात्रीकरसमालम्बी प्रस्खलच्चित्रचंक्रमः । अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥ २८॥ वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः । विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥ २९॥ अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः । नवनीतमहाचोरो दारकाहारदायकः ॥ ३०॥ पीठोलूखलसोपानः क्षीरभाण्डविभेदनः । शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥ ३१॥ भूषारत्नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः । परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ ३२॥ बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः । कृतसन्त्रासलोलाक्षो जननीप्रत्ययावहः ॥३३। मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः । यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ ३४॥ सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः । नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥ ३५॥ मृषाकोपप्रकम्पोष्ठो गोष्ठांगणविलोकनः । दधिमन्थघटीभेत्ता किकिंणीक्वणसूचितः ॥ ३६॥ हैयंगवीनरसिको मृषाश्रुश्चौर्यशंकितः । जननीश्रमविज्ञाता दामबन्धनियंत्रितः ॥ ३७॥ दामाकल्पश्चलापांगो गाढोलूखलबन्धनः । आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥। ३८॥ नारदोक्तिपरामर्शी यमलार्जुनभंजनः । धनदात्मजसंघुष्टो नन्दमोचितबन्धनः ॥ ३९॥ बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः । आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ ४०॥ प्रस्थानशकटारूढो वृन्दावनकृतालयः । गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ ४१॥ क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः । वृषवत्सानुकरणो वृषध्वनिविडम्बनः ॥ ४२॥ नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः । उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत् ॥ ४३॥ भृंगानुकारी दध्यन्नचोरो वत्सपुरस्सरः । बली बकासुरग्राही बकतालुप्रदाहकः ॥ ४४॥ भीतगोपार्भकाहूतो बकचंचुविदारणः । बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥ ४५॥ बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः । क्रीडासेतुनिधानज्ञः प्लवंगोत्प्लवनोऽद्भुतः ॥ ४६॥ कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः । सुमनोऽलंकृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥ ४७॥ गुंजाप्रालम्बनच्छन्नः पिंछैरलकवेषकृत् । वन्याशनप्रियः श‍ृंगरवाकारितवत्सकः ॥ ४८॥ मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः । मंजुशिंजितमंजीरचरणः करकंकणः ॥ ४९॥ अन्योन्यशासनः कीडापटुः परमकैतवः । प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः ॥ ५०॥ अघदानवसंहर्ता व्रजविघ्नविनाशनः । व्रजसंजीवनः श्रेयोनिधिर्दानवमुक्तिदः ॥ ५१॥ कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः । कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ ५२॥ भुजसन्ध्यन्तरन्यस्तश‍ृंगवेत्रः शुचिस्मितः । वामपाणिस्थदध्यन्नकबलः कलभाषणः ॥ ५३॥ अंगुल्यन्तरविन्यस्तफलः परमपावनः । अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ ५४॥ अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः । गोवत्सवत्सपान्वेषी विराट्-पुरुषविग्रहः ॥ ५५॥ स्वसंकल्पानुरूपार्थो वत्सवत्सपरूपधृक् । यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ ५६॥ यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी । चिराद्वलोहितो दान्तो ब्रह्मविज्ञातवैभवः ॥ ५७॥ विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः । ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः ॥ ५८॥ ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः । निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ ५९॥ प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् । अकामस्सर्ववेदादिरणीयस्थूलरूपवान् ॥ ६०॥ व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः । छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः ॥ ६१॥ अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः । सकलावरणोपेतस्सर्वदेवो महेश्वरः ॥ ६२॥ महाप्रभावनः पूर्ववत्सवत्सपदर्शकः । कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ ६३॥ स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः । ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः ॥ ६४॥ बलभद्रैकहृदयो नामाकारितगोकुलः । गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ ६५॥ वृक्षच्छायाहताशान्तिर्गोपोत्संगोपबर्हणः । गोपसंवाहितपदो गोपव्यजनवीजितः ॥६६। गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः । सुनन्दसुहृदेकात्मा सुबलप्राणरंजनः ॥ ६७॥ तालीवनकृतक्रीडो बलपातितधेनुकः । गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः ॥ ६८॥ गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः । प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥ ६९॥ विलासललितस्मेरगर्भलीलावलोकनः । स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक् ॥ ७०॥ वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः । यमुनातटसंचारी विषार्तव्रजहर्षदः ॥ ७१॥ कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः । कालियाहिफणारंगनटः कालियमर्दनः ॥ ७२॥ नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् । अविष्वक्तदृगात्मेशः खदृगात्मस्तुतिप्रियः ॥ ७३॥ सर्वेश्वरस्सर्वगुणः प्रसिद्धस्सर्वसात्वतः । अकुंठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥ ७४॥ अनिर्देश्यगतिर्नागवनितापतिभैक्षदः । स्वांघ्रिमुद्रांकनागेन्द्रमूर्धा कालियसंस्तुतः ॥ ७५॥ अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः । अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥ ७६॥ नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः । बलभद्रसुखालापो गोपालिंगननिर्वृतः ॥ ७७॥ दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः । नयनाच्छादनक्रीडालम्पटो नृपचेष्टितः ॥ ७८॥ काकपक्षधरस्सौम्यो बलवाहककेलिमान् । बलघातितदुर्धर्षप्रलम्बो बलवत्सलः ॥ ७९॥ मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् । शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥ ८०॥ सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः । नटवेषधरः पद्ममालांको गोपिकावृतः ॥ ८१॥ गोपीमनोहरापांगो वेणुवादनतत्परः । विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ॥ ८२॥ बिम्बाधरार्पितोदारवेणुर्विश्वविमोहनः । व्रजसंवर्णितश्राव्यवेणुनादः श्रुतिप्रियः ॥ ८३॥ गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः । गीतस्नुतिसरित्पूरो नादनर्तितबर्हिणः ॥ ८४॥ रागपल्लवितस्थाणुर्गीतानमितपादपः । विस्मारिततृणग्रासमृगो मृगविलोभितः ॥ ८५॥ व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः । गाढोदीरितगोवृन्दप्रेमोत्कर्णिततर्णकः ॥ ८६॥ निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः । शाखोत्कर्णशकुन्तौघश्छत्रायितबलाहकः ॥ ८७॥ प्रसन्नः परमानन्दश्चित्रायितचराचरः । गोपिकामदनो गोपीकुचकुंकुममुद्रितः ॥ ८८॥ गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापृहत् । स्कन्धारोपितगोपस्रग्वासाः कुन्दनिभस्मितः ॥ ८९॥ गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः । गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥ ९०॥ गोप्यंजलिविशेषार्थी गोपक्रीडाविलोभितः । शान्तवासस्फुरद्गोपीकृतांजलिरघापहः ॥ ९१॥ गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः । गोपस्त्रीईवस्त्रदो गोपीचित्तचोरः कुतूहली ॥ ९२॥ वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता । यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः ॥ ९३॥ मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः । द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः ॥ ९४॥ प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहिता । मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥ ९५॥ पितृप्रोक्तक्रियारूपशक्रयागनिवारणः । शक्राऽमर्षकरश्शक्रवृष्टिप्रशमनोन्मुखः ॥ ९६॥ गोवर्धनधरो गोपगोवृन्दत्राणतत्परः । गोवर्धनगिरिछत्रचंडदंडभुजार्गलः ॥ ९७॥ सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा । भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ ९८॥ स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः । सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः ॥ ९९॥ कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः । धरांघ्रिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ १००॥ ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः । ऐरावतकरानीतवियद्गंगाप्लुतो विभुः ॥ १०१॥

श्रीकृष्णसहस्रनामस्तोत्र Read More »

अपराजितास्तोत्रम्

श्रीत्रैलोक्यविजया अपराजितास्तोत्रम् । ॐ नमोऽपराजितायै । ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः वामदेव-बृहस्पति-मार्कण्डेया ऋषयः । गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि । लक्ष्मीनृसिंहो देवता । ॐ क्लीं श्रीं ह्रीं बीजम् । हुं शक्तिः । सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपाठे विनियोगः । ॐ नीलोत्पलदलश्यामां भुजङ्गाभरणान्विताम् । शुद्धस्फटिकसङ्काशां चन्द्रकोटिनिभाननाम् ॥ १॥ शङ्खचक्रधरां देवी वैष्ण्वीमपराजिताम् बालेन्दुशेखरां देवीं वरदाभयदायिनीम् ॥ २॥ नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ॥ ३॥ मार्कण्डेय उवाच – श‍ृणुष्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् । असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ॥ ४॥ ॐ नमो नारायणाय, नमो भगवते वासुदेवाय, नमोऽस्त्वनन्ताय सहस्रशीर्षायणे, क्षीरोदार्णवशायिने, शेषभोगपर्य्यङ्काय, गरुडवाहनाय, अमोघाय अजाय अजिताय पीतवाससे, ॐ वासुदेव सङ्कर्षण प्रद्युम्न, अनिरुद्ध, हयग्रीव, मत्स्य कूर्म्म, वाराह नृसिंह, अच्युत, वामन, त्रिविक्रम, श्रीधर राम राम राम । वरद, वरद, वरदो भव, नमोऽस्तु ते, नमोऽस्तुते, स्वाहा, ॐ असुर-दैत्य-यक्ष-राक्षस-भूत-प्रेत-पिशाच-कूष्माण्ड- सिद्ध-योगिनी-डाकिनी-शाकिनी-स्कन्दग्रहान् उपग्रहान्नक्षत्रग्रहांश्चान्या हन हन पच पच मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय चूर्णय चूर्णय शङ्खेन चक्रेण वज्रेण शूलेन गदया मुसलेन हलेन भस्मीकुरु कुरु स्वाहा । ॐ सहस्रबाहो सहस्रप्रहरणायुध, जय जय, विजय विजय, अजित, अमित, अपराजित, अप्रतिहत, सहस्रनेत्र, ज्वल ज्वल, प्रज्वल प्रज्वल, विश्वरूप बहुरूप, मधुसूदन, महावराह, महापुरुष, वैकुण्ठ, नारायण, पद्मनाभ, गोविन्द, दामोदर, हृषीकेश, केशव, सर्वासुरोत्सादन, सर्वभूतवशङ्कर, सर्वदुःस्वप्नप्रभेदन, सर्वयन्त्रप्रभञ्जन, सर्वनागविमर्दन, सर्वदेवमहेश्वर, सर्वबन्धविमोक्षण,सर्वाहितप्रमर्दन, सर्वज्वरप्रणाशन, सर्वग्रहनिवारण, सर्वपापप्रशमन, जनार्दन, नमोऽस्तुते स्वाहा । विष्णोरियमनुप्रोक्ता सर्वकामफलप्रदा । सर्वसौभाग्यजननी सर्वभीतिविनाशिनी ॥ ५॥ सर्वैंश्च पठितां सिद्धैर्विष्णोः परमवल्लभा । नानया सदृशं किङ्चिद्दुष्टानां नाशनं परम् ॥ ६॥ विद्या रहस्या कथिता वैष्णव्येषापराजिता । पठनीया प्रशस्ता वा साक्षात्सत्त्वगुणाश्रया ॥ ७॥ ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ८॥ अथातः सम्प्रवक्ष्यामि ह्यभयामपराजिताम् । या शक्तिर्मामकी वत्स रजोगुणमयी मता ॥ ९॥ सर्वसत्त्वमयी साक्षात्सर्वमन्त्रमयी च या । या स्मृता पूजिता जप्ता न्यस्ता कर्मणि योजिता । सर्वकामदुघा वत्स श‍ृणुष्वैतां ब्रवीमि ते ॥ १०॥ य इमामपराजितां परमवैष्णवीमप्रतिहतां पठति सिद्धां स्मरति सिद्धां महाविद्यां जपति पठति श‍ृणोति स्मरति धारयति कीर्तयति वा न तस्याग्निवायुवज्रोपलाशनिवर्षभयं, न समुद्रभयं, न ग्रहभयं, न चौरभयं, न शत्रुभयं, न शापभयं वा भवेत् । क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषि-विषगरगरदवशीकरण- विद्वेषोच्चाटनवधबन्धनभयं वा न भवेत् । एतैर्मन्त्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः । ॐ नमोऽस्तुते । अभये, अनघे, अजिते, अमिते, अमृते, अपरे, अपराजिते, पठति, सिद्धे जयति सिद्धे, स्मरति सिद्धे, एकोनाशीतितमे, एकाकिनि, निश्चेतसि, सुद्रुमे, सुगन्धे, एकान्नशे, उमे ध्रुवे, अरुन्धति, गायत्रि, सावित्रि, जातवेदसि, मानस्तोके, सरस्वति, धरणि, धारणि, सौदामनि, अदिति, दिति, विनते, गौरि, गान्धारि, मातङ्गी कृष्णे, यशोदे, सत्यवादिनि, ब्रह्मवादिनि, कालि, कपालिनि, करालनेत्रे, भद्रे, निद्रे, सत्योपयाचनकरि, स्थलगतं जलगतं अन्तरिक्षगतं वा मां रक्ष सर्वोपद्रवेभ्यः स्वाहा । यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि । म्रियते बालको यस्याः काकवन्ध्या च या भवेत् ॥ ११॥ धारयेद्या इमां विद्यामेतैर्दोषैर्न लिप्यते । गर्भिणी जीववत्सा स्यात्पुत्रिणी स्यान्न संशयः ॥ १२॥ भूर्जपत्रे त्विमां विद्यां लिखित्वा गन्धचन्दनैः । एतैर्दोषैर्न लिप्येत सुभगा पुत्रिणी भवेत् ॥ १३॥ रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् । शस्त्रं वारयते ह्येषा समरे काण्डदारुणे ॥ १४॥ गुल्मशूलाक्षिरोगाणां क्षिप्रं नाश्यति च व्यथाम् ॥ शिरोरोगज्वराणां न नाशिनी सर्वदेहिनाम् ॥ १५॥ इत्येषा कथिता विद्या अभयाख्याऽपराजिता । एतस्याः स्मृतिमात्रेण भयं क्वापि न जायते ॥ १६॥ नोपसर्गा न रोगाश्च न योधा नापि तस्कराः । न राजानो न सर्पाश्च न द्वेष्टारो न शत्रवः ॥१७॥ यक्षराक्षसवेताला न शाकिन्यो न च ग्रहाः । अग्नेर्भयं न वाताच्च न स्मुद्रान्न वै विषात् ॥ १८॥ कार्मणं वा शत्रुकृतं वशीकरणमेव च । उच्चाटनं स्तम्भनं च विद्वेषणमथापि वा ॥ १९॥ न किञ्चित्प्रभवेत्तत्र यत्रैषा वर्ततेऽभया । पठेद् वा यदि वा चित्रे पुस्तके वा मुखेऽथवा ॥ २०॥ हृदि वा द्वारदेशे वा वर्तते ह्यभयः पुमान् । हृदये विन्यसेदेतां ध्यायेद्देवीं चतुर्भुजाम् ॥ २१॥ रक्तमाल्याम्बरधरां पद्मरागसमप्रभाम् । पाशाङ्कुशाभयवरैरलङ्कृतसुविग्रहाम् ॥ २२॥ साधकेभ्यः प्रयच्छन्तीं मन्त्रवर्णामृतान्यपि । नातः परतरं किञ्चिद्वशीकरणमनुत्तमम् ॥ २३॥ रक्षणं पावनं चापि नात्र कार्या विचारणा । प्रातः कुमारिकाः पूज्याः खाद्यैराभरणैरपि । तदिदं वाचनीयं स्यात्तत्प्रीत्या प्रीयते तु माम् ॥ २४॥ ॐ अथातः सम्प्रवक्ष्यामि विद्यामपि महाबलाम् । सर्वदुष्टप्रशमनीं सर्वशत्रुक्षयङ्करीम् ॥ २५॥ दारिद्र्यदुःखशमनीं दौर्भाग्यव्याधिनाशिनीम् । भूतप्रेतपिशाचानां यक्षगन्धर्वरक्षसाम् ॥ २६॥ डाकिनी शाकिनी-स्कन्द-कूष्माण्डानां च नाशिनीम् । महारौद्रिं महाशक्तिं सद्यः प्रत्ययकारिणीम् ॥ २७॥ गोपनीयं प्रयत्नेन सर्वस्वं पार्वतीपतेः । तामहं ते प्रवक्ष्यामि सावधानमनाः श‍ृणु ॥ २८॥ एकान्हिकं द्व्यन्हिकं च चातुर्थिकार्द्धमासिकम् । द्वैमासिकं त्रैमासिकं तथा चातुर्मासिकम् ॥ २९॥ पाञ्चमासिकं षाङ्मासिकं वातिक पैत्तिकज्वरम् । श्लैष्पिकं सात्रिपातिकं तथैव सततज्वरम् ॥ ३०॥ मौहूर्तिकं पैत्तिकं शीतज्वरं विषमज्वरम् । द्व्यहिन्कं त्र्यह्निकं चैव ज्वरमेकाह्निकं तथा । क्षिप्रं नाशयेते नित्यं स्मरणादपराजिता ॥ ३१॥ ॐ हॄं हन हन, कालि शर शर, गौरि धम्, धम्, विद्ये आले ताले माले गन्धे बन्धे पच पच विद्ये नाशय नाशय पापं हर हर संहारय वा दुःखस्वप्नविनाशिनि कमलस्थिते विनायकमातः रजनि सन्ध्ये, दुन्दुभिनादे, मानसवेगे, शङ्खिनि, चक्रिणि गदिनि वज्रिणि शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्रविडि द्राविडि द्रविणि द्राविणि केशवदयिते पशुपतिसहिते दुन्दुभिदमनि दुर्म्मददमनि । शबरि किराति मातङ्गि ॐ द्रं द्रं ज्रं ज्रं क्रं क्रं तुरु तुरु ॐ द्रं कुरु कुरु । ये मां द्विषन्ति प्रत्यक्षं परोक्षं वा तान् सर्वान् दम दम मर्दय मर्दय तापय तापय गोपय गोपय पातय पातय शोषय शोषय उत्सादय उत्सादय ब्रह्माणि वैष्णवि माहेश्वरि कौमारि वाराहि नारसिंहि ऐन्द्रि चामुण्डे महालक्ष्मि वैनायिकि औपेन्द्रि आग्नेयि चण्डि नैरृति वायव्ये सौम्ये ऐशानि ऊर्ध्वमधोरक्ष प्रचण्डविद्ये इन्द्रोपेन्द्रभगिनि । ॐ नमो देवि जये विजये शान्ति स्वस्ति-तुष्टि पुष्टि- विवर्द्धिनि । कामाङ्कुशे कामदुघे सर्वकामवरप्रदे । सर्वभूतेषु मां प्रियं कुरु कुरु स्वाहा । आकर्षणि आवेशनि-, ज्वालामालिनि-, रमणि रामणि, धरणि धारिणि, तपनि तापिनि, मदनि मादिनि, शोषणि सम्मोहिनि । नीलपताके महानीले महागौरि महाश्रिये । महाचान्द्रि महासौरि महामायूरि आदित्यरश्मि जाह्नवि । यमघण्टे किणि किणि चिन्तामणि । सुगन्धे सुरभे सुरासुरोत्पन्ने सर्वकामदुघे । यद्यथा मनीषितं कार्यं तन्मम सिद्ध्यतु स्वाहा । ॐ स्वाहा । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वहा । ॐ महः स्वहा । ॐ जनः स्वहा । ॐ तपः स्वाहा । ॐ सत्यं स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । यत एवागतं पापं तत्रैव प्रतिगच्छतु स्वाहेत्योम् । अमोघैषा महाविद्या वैष्णवी चापराजिता ॥ ३२॥ स्वयं विष्णुप्रणीता च सिद्धेयं पाठतः सदा । एषा महाबला नाम कथिता तेऽपराजिता ॥ ३३॥ नानया सदृशी रक्षा। त्रिषु लोकेषु विद्यते । तमोगुणमयी साक्षद्रौद्री शक्तिरियं मता ॥ ३४॥ कृतान्तोऽपि यतो भीतः पादमूले व्यवस्थितः । मूलाधारे न्यसेदेतां रात्रावेनं च संस्मरेत् ॥ ३५॥ नीलजीमूतसङ्काशां तडित्कपिलकेशिकाम् । उद्यदादित्यसङ्काशां नेत्रत्रयविराजिताम् ॥ ३६॥ शक्तिं त्रिशूलं शङ्खं च पानपात्रं च विभ्रतीम् । व्याघ्रचर्मपरीधानां किङ्किणीजालमण्डिताम् ॥ ३७॥ धावन्तीं गगनस्यान्तः पादुकाहितपादकाम् । दंष्ट्राकरालवदनां व्यालकुण्डलभूषिताम् ॥ ३८॥ व्यात्तवक्त्रां ललज्जिह्वां भृकुटीकुटिलालकाम् । स्वभक्तद्वेषिणां रक्तं पिबन्तीं पानपात्रतः ॥ ३९॥ सप्तधातून् शोषयन्तीं क्रूरदृष्ट्या विलोकनात् । त्रिशूलेन च तज्जिह्वां कीलयन्तीं मुहुर्मुहुः ॥ ४०॥ पाशेन बद्ध्वा तं साधमानवन्तीं तदन्तिके । अर्द्धरात्रस्य समये देवीं धायेन्महाबलाम् ॥ ४१॥ यस्य यस्य वदेन्नाम जपेन्मन्त्रं निशान्तके । तस्य तस्य तथावस्थां कुरुते सापि योगिनी ॥ ४२॥ ॐ बले महाबले असिद्धसाधनी स्वाहेति । अमोघां पठति सिद्धां श्रीवैष्णवीम् ॥ ४३॥ श्रीमदपराजिताविद्यां ध्यायेत् । दुःस्वप्ने दुरारिष्टे च दुर्निमित्ते तथैव च । व्यवहारे भेवेत्सिद्धिः पठेद्विघ्नोपशान्तये ॥ ४४॥ यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वऽक्षरहीनमीडितम् । तदस्तु सम्पूर्णतमं प्रयान्तु मे सङ्कल्पसिद्धिस्तु सदैव जायताम् ॥ ४५॥ तव तत्त्वं

अपराजितास्तोत्रम् Read More »

एकदंतगणेशस्तोत्रम्

श्रीगणेशाय नमः । मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥ प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥ २॥ देवर्षय ऊचुः सदात्मरूपं सकलादि-भूतममायिनं सोऽहमचिन्त्यबोधम् । अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥ विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् । सदा निरालम्ब-समाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥ स्वबिम्बभावेन विलासयुक्तं बिन्दुस्वरूपा रचिता स्वमाया । तस्यां स्ववीर्यं प्रददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६॥ त्वदीय-वीर्येण समर्थभूता माया तया संरचितं च विश्वम् । नादात्मकं ह्यात्मतया प्रतीतं तमेकदन्तं शरणं व्रजामः ॥ ७॥ त्वदीय-सत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारम् । सेवन्त आपुस्तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ ८॥ ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै । आनन्दरूपं समभावसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ९॥ तदेव विश्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् । अनेकरूपं ह्यजमेकभूतं तमेकदन्तं शरणं व्रजामः ॥ १०॥ ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् । सत्त्वात्मकं श्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११॥ तदेव स्वप्नं तपसा गणेशं संसिद्धिरूपं विविधं वभूव । सदेकरूपं कृपया तवाऽपि तमेकदन्तं शरणं व्रजामः ॥ १२॥ सम्प्रेरितं तच्च त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् । तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३॥ जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव । तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४॥ एवं च सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् । बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५॥ त्वदाज्ञया भान्ति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभान्ति खे वै । आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजामः ॥ १६॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः । त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १७॥ यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽपः प्रवहन्ति नद्यः । सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८॥ यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणोऽचलो वै तमेकदन्तं शरणं व्रजामः ॥ १९॥ यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च कामः । यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २०॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः । यदाज्ञया वै सचराऽचरं च तमेकदन्तं शरणं व्रजामः ॥ २१॥ सर्वान्तरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति । अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः ॥ २२॥ यं योगिनो योगबलेन साध्यं कुर्वन्ति तं कः स्तवनेन स्तौति । अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३॥ गृत्समद उवाच एवं स्तुत्वा च प्रह्लाद देवाः समुनयश्च वै । तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २४॥ स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै । जगाद तान् महाभागान् देवर्षीन् भक्तवत्सलः ॥ २५॥ एकदन्त उवाच प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल । वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६॥ भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । पुत्र-पौत्रादिकं सर्वं लभते धन-धान्यकम् ॥ २८॥ गजाश्वादिकमत्यन्तं राज्यभोगं लभेद् ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९॥ मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां श‍ृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३०॥ एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् । पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१॥ न तस्य दुर्लभं किंचित् त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२॥ नित्यं यः पठते स्तोत्रं ब्रह्मभूतः स वै नरः । तस्य दर्शनतः सर्वे देवाः पूता भवन्ति वै ॥ ३३॥ एवं तस्य वचः श्रुत्वा प्रहृष्टा देवतर्षयः । ऊचुः करपुटाः सर्वे भक्तियुक्ता गजाननम् ॥ ३४॥ ॥ इति श्री एकदन्तस्तोत्रं सम्पूर्णम् ॥

एकदंतगणेशस्तोत्रम् Read More »

उच्छिष्टमहागणपति ध्यानम्

मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले । समासीनं पराशक्तिविग्रहं गणनायकम् ॥ १॥ रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् । रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥ २॥ करुणारससुधाधारास्रवदक्षित्रयान्वितम् । अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥ ३॥ पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् । नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥ ४॥ सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् । पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥ ५॥ ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् । महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥ ६॥ नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् । पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम् ॥ ७॥ अखण्डकोटिब्रह्माण्डामण्डलेश्वरमव्ययम् । रदनाक्षरसम्पूर्णमन्त्रराजस्वरूपिणम् ॥ ८॥ गिरिव्याहृतिवर्णात्ममन्त्रतत्वप्रदर्शकम् । अरुणारुणतनुच्छायमहाकामकलात्मकम् ॥ ९॥ महागोप्यमहाविद्या प्रकाशितकलेबरम् । चिच्छिवं चिद्भवं शान्तं त्रिगुणादिविवर्जितम् ॥ १०॥ अष्टोत्तरशताभिख्यकलान्यासविधिप्रियम् । चिदाकारमहाद्वीपमध्यवाससुविग्रहम् ॥ ११॥ चिदब्धिमथनोत्पन्नचित्सारघनविग्रहम् । वाचामगोचरं शान्तं शुद्धचैतन्यरूपिणम् ॥ १२॥ मूलकन्दस्थचिद्देशनवताण्डवपण्डितम् । षडम्बुरुहसंस्थायिपरचिव्द्योमभासुरम् ॥ १३॥ अकारादिक्षकारान्तवर्णलक्षितचित्सुखम् । अकाराक्षरनिर्दिष्टप्रकाशमयविग्रहम् ॥ १४॥ हकाराख्यविमर्शात्मप्रभादीप्तजगत्त्रयम् । महाहंसजपध्यानविधिज्ञातस्वरूपकम् ॥ १५॥ सदोदितमहाप्रज्ञाकारं संसारतारकम् । मोक्षलक्ष्मीप्रदातारं कालातीतमहाप्रभुम् ॥ १६॥ नामरूपादिसम्भिन्ननित्यपूर्णचिदुत्तमम् । प्रत्यग्भूतमहाप्रज्ञागात्रगोचरविग्रहम् ॥ १७॥ महाकुण्डलिनीरूपं षट्च्क्रनगरेश्वरम् । अप्राकृतमहादिव्यचैतन्यात्मस्वरूपिणम् ॥ १८॥ नादबिन्दुकलातीतं कार्यकारणवर्जितम् । षडम्बुरुहचक्रान्तः स्फुरत्सौदामिनीप्रभम् ॥ १९॥ तत्त्वमस्यादिवाक्यार्थपरिबोधनपण्डितम् । ब्रह्मादिकीटपर्यन्तव्याप्तसंवित्सुधारसम् ॥ २०॥ इच्छाज्ञानक्रियानन्दसर्वतन्त्र स्वतन्त्रिणम् । हृदयग्रन्थिभिद्विद्यादर्शनोत्सुकमानसम् ॥ २१॥ पञ्चकृत्यपरेशानं महात्रैपुरविग्रहम् । श्रीचक्रराजमध्यस्थशून्यग्राममहेश्वरम् ॥ २२॥ ब्रह्मविद्यास्वरूपश्रीललितारूपधारिणम् । वशिन्याद्यावृतं साध्यं अद्वयानन्दवर्धनम् ॥ २३॥ आदिशङ्कररूपेशदक्षिणामूर्तिपूजितम् । असंस्पृष्टमहाप्रज्ञाभिख्याद्वैतस्थितिप्रभम् ॥ २४॥ एवं सञ्चितयेद्देवं उच्छिष्टगणनायकम् । नीलतारासमेतं तु सच्चिदानन्दविग्रहम् ॥ २५॥

उच्छिष्टमहागणपति ध्यानम् Read More »

उच्छिष्टगणेशस्तवराजः

श्री गणेशाय नमः । देव्युवाच । पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् । नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् । गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १॥ केयुरिणंहारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि । सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥ २॥ सृणिंवहन्तं षडक्षरात्मानमनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च । संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥ ३॥ वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् । स्तम्बेरमास्यं ननु चन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥ ४॥ नव चन्द्रचूडं भवाख्यदावानलदह्यमानं भक्तं स्वकीयं परिषिञ्चते यः । गण्डस्रुताम्भोभिरनन्यतुल्यं वन्दे गणेशं च तमोऽरिनेत्रम् ॥ ५॥ तमालनीलम् शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्वकीयम् । भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणपोऽवतान्नः ॥ ६॥ पितुर्जटाजूटतटे सदैव भागीरथीं तत्र कुतूहलेन । विलोक्य भागीरथीं विहर्तुकामः स महीध्रपुत्र्या निवारितः पातु सदा गजास्यः ॥ ७॥ लम्बोदरो देवकुमारसङ्घैः क्रीडन्कुमारं जितवान्निजेन । करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयतः स पायात् ॥ ८॥ आगत्य योच्चैर्हरिनाभिपद्मं ददर्श तत्राशु करेण तच्च । उद्धर्तुमिच्छन्विधिवादवाक्यं मुमोच भूत्वा चतुरो गणेशः ॥ ९॥ विधिचाटुवाक्यं निरन्तरं संस्कृतदानपट्टे लग्नां तु गुञ्जद्भ्रमरावलीं वै । तं श्रोत्रतालैरपसारयन्तं स्मरेद्गजास्यं निजहृत्सरोजे ॥ १०॥ विश्वेशमौलिस्थितजह्नुकन्याजलं गृहीत्वा निजपुष्करेण । हरं सलीलं पितरं स्वकीयं प्रपूजयन्हस्तिमुखः स पायात् ॥ ११॥ स्तम्बेरमास्यं घुसृणाङ्गरागं सिन्दूरपूरारुणकान्तकुम्भम् । कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥ १२॥ स भीष्ममातुर्निजपुष्करेण जलं समादाय कुचौ स्वमातुः । प्रक्षालयामास षडास्यपीतौ स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥ १३॥ सिञ्चाम नागं शिशुभावमाप्तं केनापि सत्कारणतो धरित्र्याम् । वक्तारमाद्यं नियमादिकानां लोकैकवन्द्यं प्रणमामि विघ्नम् ॥ १४॥ विघ्नं विघ्ननाशनमित्यर्थः आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् । विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥ १५॥ हेरम्ब उद्यद्रविकोटिकान्तः पञ्चाननेनापि विचुम्बितास्यः । मुनीन्सुरान्भक्तजनांश्च सर्वान्स पातु रथ्यासु सदा गजास्यः ॥ १६॥ द्वैपायनोक्तानि स निश्चयेन स्वदन्तकोट्या निखिलं लिखित्वा । द्वैपायनोक्तं सुविचार्य येन दन्तं पुराणं शुभमिन्दुमौलिस्तपोभिरुग्रं मनसा स्मरामि ॥ १७॥ सुतमिन्दुमौलेस्तमग्र्यरूपं क्रीडातटान्ते जलधाविभास्ये वेलाजले लम्बपतिः प्रभीतः । विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥ १८॥ वाचां निमित्तं स निमित्तमाद्यं पदं त्रिलोक्यामददत्स्तुतीनाम् । सर्वैश्च वन्द्यं न च तस्य वन्द्यः स्थाणोः परं रूपमसौ स पायात् ॥ १९॥ इमां स्तुतिं यः पठतीह भक्त्या समाहितप्रीतिरतीव शुद्धः । संसेव्यते चेन्दिरया नितान्तं दारिद्र्यसङ्घं स विदारयेन्नः ॥ २०॥ ॥ इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे उच्छिष्टगणेशस्तोत्रं समाप्तम् ॥

उच्छिष्टगणेशस्तवराजः Read More »

उच्छिष्टगणेशकवचम् (रुद्रयामलान्तर्गतम्)

अथ श्रीउच्छिष्टगणेशकवचं प्रारम्भः देव्युवाच ॥ देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक । विना ध्यानं विना मन्त्रं विना होमं विना जपम् ॥ १॥ येन स्मरणमात्रेण लभ्यते चाशु चिन्तितम् । तदेव श्रोतुमिच्छामि कथयस्व जगत्प्रभो ॥ २॥ ईश्वर उवाच ॥ श्रुणु देवी प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । उच्छिष्टगणनाथस्य कवचं सर्वसिद्धिदम् ॥ ३॥ अल्पायासैर्विना कष्टैर्जपमात्रेण सिद्धिदम् । एकान्ते निर्जनेऽरण्ये गह्वरे च रणाङ्गणे ॥ ४॥ सिन्धुतीरे च गङ्गायाः कूले वृक्षतले जले । सर्वदेवालये तीर्थे लब्ध्वा सम्यग्जपं चरेत् ॥ ५॥ स्नानशौचादिकं नास्ति नास्ति निर्वंधनं प्रिये । दारिद्र्यान्तकरं शीघ्रं सर्वतत्त्वं जनप्रिये ॥ ६॥ सहस्रशपथं कृत्वा यदि स्नेहोऽस्ति मां प्रति । निन्दकाय कुशिष्याय खलाय कुटिलाय च ॥ ७॥ दुष्टाय परशिष्याय घातकाय शठाय च । वञ्चकाय वरघ्नाय ब्राह्मणीगमनाय च ॥ ८॥ अशक्ताय च क्रूराय गुरूद्रोहरताय च । न दातव्यं न दातव्यं न दातव्यं कदाचन ॥ ९॥ गुरूभक्ताय दातव्यं सच्छिष्याय विशेषतः । तेषां सिध्यन्ति शीघ्रेण ह्यन्यथा न च सिध्यति ॥ १०॥ गुरूसन्तुष्टिमात्रेण कलौ प्रत्यक्षसिद्धिदम् । देहोच्छिष्टैः प्रजप्तव्यं तथोच्छिष्टैर्महामनुः ॥ ११॥ आकाशे च फलं प्राप्तं नान्यथा वचनं मम । एषा राजवती विद्या विना पुण्यं न लभ्यते ॥ १२॥ अथ वक्ष्यामि देवेशि कवचं मन्त्रपूर्वकम् । येन विज्ञातमात्रेण राजभोगफलप्रदम् ॥ १३॥ ऋषिर्मे गणकः पातु शिरसि च निरन्तरम् । त्राहि मां देवि गायत्रीछन्दो ऋषिः सदा मुखे ॥ १४॥ हृदये पातु मां नित्यमुच्छिष्टगणदेवता । गुह्ये रक्षतु तद्बीजं स्वाहा शक्तिश्च पादयोः ॥ १५॥ कामकीलकसर्वाङ्गे विनियोगश्च सर्वदा । पार्श्वर्द्वये सदा पातु स्वशक्तिं गणनायकः ॥ १६॥ शिखायां पातु तद्बीजं भ्रूमध्ये तारबीजकम् । हस्तिवक्त्रश्च शिरसी लम्बोदरो ललाटके ॥ १७॥ उच्छिष्टो नेत्रयोः पातु कर्णौ पातु महात्मने । पाशाङ्कुशमहाबीजं नासिकायां च रक्षतु ॥ १८॥ भूतीश्वरः परः पातु आस्यं जिह्वां स्वयंवपुः । तद्बीजं पातु मां नित्यं ग्रीवायां कण्ठदेशके ॥ १९॥ गंबीजं च तथा रक्षेत्तथा त्वग्रे च पृष्ठके । सर्वकामश्च हृत्पातु पातु मां च करद्वये ॥ २०॥ उच्छिष्टाय च हृदये वह्निबीजं तथोदरे । मायाबीजं तथा कट्यां द्वावूरू सिद्धिदायकः ॥ २१॥ जङ्घायां गणनाथश्च पादौ पातु विनायकः । शिरसः पादपर्यन्तमुच्छिष्टगणनायकः ॥ २२॥ आपादमस्तकान्तं च उमापुत्रश्च पातु माम् । दिशोऽष्टौ च तथाकाशे पाताले विदिशाष्टके ॥ २३॥ अहर्निशं च मां पातु मदचञ्चललोचनः । जलेऽनले च सङ्ग्रामे दुष्टकारागृहे वने ॥ २४॥ राजद्वारे घोरपथे पातु मां गणनायकः । इदं तु कवचं गुह्यं मम वक्त्राद्विनिर्गतम् ॥ २५॥ त्रैलौक्ये सततं पातु द्विभुजश्च चतुर्भुजः । बाह्यमभ्यन्तरं पातु सिद्धिबुद्धिर्विनायकः ॥ २६॥ सर्वसिद्धिप्रदं देवि कवचमृद्धिसिद्धिदम् । एकान्ते प्रजपेन्मन्त्रं कवचं युक्तिसंयुतम् ॥ २७॥ इदं रहस्यं कवचमुच्छिष्टगणनायकम् । सर्ववर्मसु देवेशि इदं कवचनायकम् ॥ २८॥ एतत्कवचमाहात्म्यं वर्णितुं नैव शक्यते । धर्मार्थकाममोक्षं च नानाफलप्रदं नृणाम् ॥ २९॥ शिवपुत्रः सदा पातु पातु मां सुरार्चितः । गजाननः सदा पातु गणराजश्च पातु माम् ॥ ३०॥ सदा शक्तिरतः पातु पातु मां कामविह्वलः । सर्वाभरणभूषाढयः पातु मां सिन्दूरार्चितः ॥ ३१॥ पञ्चमोदकरः पातु पातु मां पार्वतीसुतः । पाशाङ्कुशधरः पातु पातु मां च धनेश्वरः ॥ ३२॥ गदाधरः सदा पातु पातु मां काममोहितः । नग्ननारीरतः पातु पातु मां च गणेश्वरः ॥ ३३॥ अक्षयं वरदः पातु शक्तियुक्तिः सदाऽवतु । भालचन्द्रः सदा पातु नानारत्नविभूषितः ॥ ३४॥ उच्छिष्टगणनाथश्च मदाघूर्णितलोचनः । नारीयोनिरसास्वादः पातु मां गजकर्णकः ॥ ३५॥ प्रसन्नवदनः पातु पातु मां भगवल्लभः । जटाधरः सदा पातु पातु मां च किरीटिकः ॥ ३६॥ पद्मासनास्थितः पातु रक्तवर्णश्च पातु माम् । नग्नसाममदोन्मत्तः पातु मां गणदैवतः ॥ ३७॥ वामाङ्गे सुन्दरीयुक्तः पातु मां मन्मथप्रभुः । क्षेत्रपः पिशितं पातु पातु मां श्रुतिपाठकः ॥ ३८॥ भूषणाढ्यस्तु मां पातु नानाभोगसमन्वितः । स्मिताननः सदा पातु श्रीगणेशकुलान्वितः ॥ ३९॥ श्रीरक्तचन्दनमयः सुलक्षणगणेश्वरः । श्वेतार्कगणनाथश्च हरिद्रागणनायकः ॥ ४०॥ पारभद्रगणेशश्च पातु सप्तगणेश्वरः । प्रवालकगणाध्यक्षो गजदन्तो गणेश्वरः ॥ ४१॥ हरबीजगणेशश्च भद्राक्षगणनायकः । दिव्यौषधिसमुद्भूतो गणेशाश्चिन्तितप्रदः ॥ ४२॥ लवणस्य गणाध्यक्षो मृत्तिकागणनायकः । तण्डुलाक्षगणाध्यक्षो गोमयश्च गणेश्चरः ॥ ४३॥ स्फटिकाक्षगणाध्यक्षो रुद्राक्षगणदैवतः । नवरत्नगणेशश्च आदिदेवो गणेश्वरः ॥ ४४॥ पञ्चाननश्चतुर्वक्त्रः षडाननगणेश्वरः । मयूरवाहनः पातु पातु मां मूषकासनः ॥ ४५॥ पातु मां देवदेवेशः पातु मामृषिपूजितः । पातु मां सर्वदा देवो देवदानवपूजितः ॥ ४६॥ त्रैलोक्यपूजितो देवः पातु मां च विभुः प्रभुः । रङ्गस्थं च सदा पातु सागरस्थं सदाऽवतु ॥ ४७॥ भूमिस्थं च सदा पातु पातलस्थं च पातु माम् । अन्तरिक्षे सदा पातु आकाशस्थं सदाऽवतु ॥ ४८॥ चतुष्पथे सदा पातु त्रिपथस्थं च पातु माम् । बिल्वस्थं च वनस्थं च पातु मां सर्वतस्तनम् ॥ ४९॥ राजद्वारस्थितं पातु पातु मां शीघ्रसिद्धिदः । भवानीपूजितः पातु ब्रह्माविष्णुशिवार्चितः ॥ ५०॥ इदं तु कवचं देवि पठनात्सर्वसिद्धिदम् । उच्छिष्टगणनाथस्य समन्त्रं कवचं परम् ॥ ५१॥ स्मरणाद्भूपतित्वं च लभते साङ्गतां ध्रूवम् । स्मरणाद्भूभुजत्वं वाचः सिद्धिकरं शीघ्रं परसैन्यविदारणम् ॥ ५२॥ प्रातर्मध्याह्नसायाह्ने दिवा रात्रौ पठेन्नरः । चतुर्थ्यां दिवसे रात्रौ पूजने मानदायकम् ॥ ५३॥ सर्वसौभाग्यदं शीघ्रं दारिद्र्यार्णवघातकम् । सुदारसुप्रजासौख्यं सर्वसिद्धिकरं नृणाम् ॥ ५४॥ जलेऽथवाऽनलेऽरण्ये सिन्धुतीरे सरित्तटे । स्मशाने दूरदेशे च रणे पर्वतगह्वरे ॥ ५५॥ राजद्वारे भये घोरे निर्भयो जायते ध्रुवम् । सागरे च महाशीते दुर्भिक्षे दुष्टसङ्कटे ॥ ५६॥ भूतप्रेतपिशाचादियक्षराक्षसजे भये । राक्षसीयक्षिणीक्रूराशाकिनीडाकीनीगणाः ॥ ५७॥ राजमृत्युहरं देवि कवचं कामधेनुवत् । अनन्तफलदं देवि सति मोक्षं च पार्वति ॥ ५८॥ कवचेन विना मन्त्रं यो जपेद्गणनायकम् । इह जन्मानि पापिष्ठो जन्मान्ते मूषको भवेत् ॥ ५९॥ इति परमरहस्यं देवदेवार्चनं च कवचपरमदिव्यं पार्वती पुत्ररूपम् । पठति परमभोगैश्वर्यमोक्षप्रदं च लभति सकलसौख्यं शक्तिपुत्रप्रसादात् ॥ ६०॥ (इति परमरहस्यंदेवदेवार्चितस्य- कवचमुदितमेतत्पार्वतीशेन देव्यै पठति स लभ्यते वैभक्तितो भक्तवर्यः प्रचुरसकलसौख्यं शक्तिपुत्रप्रसादात् ॥) ॥ इति श्रीरुद्रयामलतन्त्रे उमामहेश्वरसंवादे श्रीमदुच्छिष्टगणेशकवचं समाप्तम् ॥

उच्छिष्टगणेशकवचम् (रुद्रयामलान्तर्गतम्) Read More »

सूर्यनमस्कार मन्त्राः

ॐ ध्येयः सदा सवितृमण्डल मध्यवर्ति नारायणः सरसिजासन्संनिविष्टः । केयूरवान मकरकुण्डलवान किरीटी हारी हिरण्मयवपुधृतशंखचक्रः ॥ ॐ ह्रां मित्राय नमः । ॐ ह्रीं रवये नमः । ॐ ह्रूं सूर्याय नमः । ॐ ह्रैं भानवे नमः । ॐ ह्रौं खगाय नमः । ॐ ह्रः पूष्णे नमः । ॐ ह्रां हिरण्यगर्भाय नमः । ॐ ह्रीं मरीचये नमः । ॐ ह्रूं आदित्याय नमः । ॐ ह्रैं सवित्रे नमः । ॐ ह्रौं अर्काय नमः । ॐ ह्रः भास्कराय नमः । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ श्रीसवितृसूर्यनारायणाय नमः ॥ आदितस्य नमस्कारान् ये कुर्वन्ति दिने दिने जन्मान्तरसहस्रेषु दारिद्र्यं दोषनाशते । अकालमृत्युहरणं सर्वव्याधिविनाशनम् सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ॥ योगेन चित्तस्य पदेन वाचा मलं शरीरस्य च वैद्यकेन । योपाकरोत्तं प्रवरं मुनीनां पतंजलिं प्रांजलिरानतोऽस्मि ॥

सूर्यनमस्कार मन्त्राः Read More »

सुब्रह्मण्यषडक्षरमन्त्रः

अस्य श्रीसुब्रह्मण्यषडक्षरमहामन्त्रस्य, अगस्त्यः ऋषिः । अनुष्टुप्छन्दः, सुब्रह्मण्यो देवता, वं बीजं, नमः शक्तिः, वचद्भुवे कीलकम् । श्रीसुब्रह्मण्यप्रीत्यर्थे जपे विनियोगः ॥ करन्यासः – वां अङ्गुष्ठाभ्यां नमः । वीं तर्जनीभ्यां नमः । वूं मध्यमाभ्यां नमः । वैं अनामिकाभ्यां नमः । वौं कनिष्ठिकाभ्यां नमः । वः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ॥ अङ्गन्यासः – ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः । लमित्यादि पञ्चपूजा । जपसमर्पणम् ॥ ध्यानम् – सिन्धूरारुणमिन्दुकान्तिवदनं केयूरहारदिभिः दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्थसौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागांशुकं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ लमित्यादि पञ्चपूजा । ॐ वचद्भुवे नमः इति मन्त्रः । (१०८ वारं) सिद्धिक्रमः- लक्षमेकं जपेन्मन्त्रं साज्यान्नहविषा ततः । दशांशं जुहुयादन्ते ब्राह्मणानपि पूजयेत् ॥ पूजाक्रमः- धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे । पूजयेद्विधिना देवमुपचारैर्यथोदितैः ॥ केसरेष्वङ्गपूजा स्यात् । पत्रमध्येषु जयन्तं आग्निवेश्यं कृत्तिकापुत्रं भूतपतिं सेनान्यं गुहं हेमशूलं विशाखं शक्तिवज्रधरं च,दिग्दलेषु पूर्वादिषु देवसेनापतिं विद्यां मेधां वज्रं च, विदिग्दलेषु शक्तिकुक्कुटौ मयूरद्विपौ, पत्राद्येषु, तद्बाह्ये लोकेश्वरान् तदस्त्राणि च पूजयेत् ॥ पुष्ठ्यां संप्रीणयद्देवं स्वादुभिर्भक्ष्यभोज्यकैः । पूजयेद्देवताबुद्ध्या कुमारान्ब्रह्मचारिणः ॥ पूजितस्तु स देवोऽपि सन्तानं विजयं यशः । राज्ञामायुः श्रियं वीर्यं प्रदद्यात् साधकस्य तु । सुब्रह्मण्यः सुरार्चितः ॥ (मन्त्ररत्नमञ्जूषातः

सुब्रह्मण्यषडक्षरमन्त्रः Read More »

श्रीसुब्रह्मण्यपञ्चदशाक्षरमन्त्रः

अस्य श्रीसुब्रह्मण्यपञ्चदशाक्षरमहामन्त्रस्य, ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीसुब्रह्मण्यो देवता । ॐ श्रीं ह्रीं क्लीं इति बीजम् । शरवणभव इति शक्तिः । ॐ ऐं ईं नं ळं सौः इति कीलकम् । श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः – हृदयादि न्यासः (१) ॐ श्रीं ह्रीं क्लीं – अङ्गुष्ठाभ्यां नमः – हृदयाय नमः । (२) ॐ ऐं ईं नं ळं सौः – तर्जनीभ्यां नमः – शिरसे स्वाहा । (३) शरवणभव – मध्यमाभ्यां नमः – शिखायै वषट् । (४) ॐ श्रीं ह्रीं क्लीं – अनामिकाभ्यां नमः – कवचाय हुं । (५) ऐं ईं नं ळं सौः – कनिष्ठिकाभ्यां नमः – नेत्रत्रयाय वौषट् । (६) शरवणभव – करतलकरपृष्ठाभ्यां नमः – अस्त्राय फट् । इति करन्यासाङ्गन्यासौ । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम्- सिन्दूरारुणमिन्दुपद्मजयिभिः षड्भिर्मुखैर्भासितं कारुण्यामृतपूरसुन्दरतरैर्भान्तं द्विषल्लोचनैः । बिभ्राणं वरमब्जयुग्ममभयं शक्तिद्वयं कार्मुकं खड्गं चर्म पृषत्कमङ्कुशगदे वल्लीशमीक्षे हृदि ॥ (लमित्यादि पञ्चपूजा – लं पृथिव्यात्मने……. as above) मूलमन्त्रः – ॐ श्रीं ह्रीं क्लीं, ऐं ईं नं ळं सौं, शरवणभव । (१०८ वारं – 108 times) (अङ्गन्यासाः …. भूर्भुवस्सुवरोमिति दिग्विमोकः, ध्यानं – as above) लमित्यादिपञ्चोपचारपूजा – लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि । मूलमन्त्रः- ॐ ह्रीं ऐं क्लीं ॐ ह्सौं शरवणभव ॥ जपान्ते पुनर्हृदयाद्यङ् । जपसमर्पणम् । इति श्रीसुब्रह्मण्यपञ्चदशाक्षरमन्त्रः सम्पूर्णः ।

श्रीसुब्रह्मण्यपञ्चदशाक्षरमन्त्रः Read More »

श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः

अथ तत्त्वाचमनम्- ह्रीं आत्मतत्त्वं शोधयामि नमः स्वाहा । क्लीं विद्यातत्त्वं शोधयामि नमः स्वाहा । ह्सौं शिवतत्त्वं शोधयामि नमः स्वाहा । ह्रीं क्लीं ह्सौं सर्वतत्त्वं शोधयामि नमः स्वाहा ॥ (प्रत्यूहशान्तिः । प्राणायामः । सङ्कल्पः ।) ह्रीं अस्य श्रीसुब्रह्मण्यद्वादशाक्षरमहामन्त्रस्य अमृताकर्षणदक्षिणामूर्तिः ऋषिः । जगतीच्छान्दः । श्रीप्रसन्नज्ञानसुब्रह्मण्यो देवता । ह्रीं बीजम् । ह्सौं शक्तिः । क्लीं कीलकम् । श्रीप्रसन्नज्ञानसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । ऋष्यादिन्यासः – ह्रीं अमृताकर्षणदक्षिणामूर्तये नमः शिरसि । जगतीच्छान्दसे नमो मुखे । श्रीप्रसन्नज्ञानसुब्रह्मण्याय देवतायै नमो हृदये । ह्रीं बीजाय नमो गुह्ये । ह्सौं शक्तये नमः स्तनयोः । क्लीं कीलकाय नमो नाभौ । विनियोगाय नमः सर्वाङ्गे ॥ (मूलेन करौ संशोध्य) करन्यासः – ॐ अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ऐं मध्यमाभ्यां नमः । क्लीं अनामिकाभ्यां नमः । ॐ कनिष्ठिकाभ्यां नमः । ह्सौं करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः – ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः । ध्यानम्- ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् । कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलैश्शोभितं काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥ पञ्चोपचारपूजा – लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि । मूलमन्त्रः- ॐ ह्रीं ऐं क्लीं ॐ ह्सौं शरवणभव ॥ जपान्ते पुनर्हृदयाद्यङ्गन्यासाः । (At the end of Japa, once again Hrdayaadyanganyas as above) ह्रीं भूर्भुवस्सुवरों इति दिग्विमोकः । (ध्यानम् । लमित्यादि पूजा । जपसमर्पणम् ।) इति श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः सम्पूर्णः ।

श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः Read More »