॥ प्रथमः सर्गः॥ ॥ राम हृदयम्॥ यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयः सञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः । निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ १॥ विश्वोद्भवस्थितिलयादिषु हेतुमेकं मायाश्रयं विगतमायमचिन्त्यमूर्तिम् । आनन्दसान्द्रममलं निजबोधरूपं सीतापतिं विदिततत्त्वमहं नमामि ॥ २॥ पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति चाध्यात्मिकसञ्ज्ञितं शुभम् । रामायणं सर्वपुराणसंमतं निर्धूतपापा हरिमेव यान्ति ते ॥ ३॥ अध्यात्मरामायणमेव नित्यं पठेद्यदीच्छेद्भवबन्धमुक्तिम् । गवां सहस्रायुतकोटिदानात् फलं लभेद्यः शृणुयात्स नित्यम् ॥ ४॥ पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता । अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् ॥ ५॥ कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसन्घैः । देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दम् ॥ ६॥ पार्वत्युवाच नमोऽस्तु ते देव जगन्निवास सर्वात्मदृक् त्वं परमेश्वरोऽसि । पृच्छामि तत्त्वं पुरुषोत्तमस्य सनातनं त्वं च सनातनोऽसि ॥ ७॥ गोप्यं यदत्यन्तमनन्यवाच्यं वदन्ति भक्तेषु महानुभावाः । तदप्यहोऽहं तव देव भक्ता प्रियोऽसि मे त्वं वद यत्तु पृष्टम् ॥ ८॥ ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं च मितं विभास्वत् । जानाम्यहं योषिदपि त्वदुक्तं यथा तथा ब्रूहि तरन्ति येन ॥ ९॥ पृच्छामि चान्यच्च परं रहस्यं तदेव चाग्रे वद वारिजाक्ष । श्रीरामचन्द्रेऽखिललोकसारे भक्तिर्दृढा नौर्भवति प्रसिद्धा ॥ १०॥ भक्तिः प्रसिद्धा भवमोक्षणाय नान्यत्ततः साधनमस्ति किञ्चित् । तथापि हृत्संशयबन्धनं मे विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् ॥ ११॥ वदन्ति रामं परमेकमाद्यं निरस्तमायागुणसम्प्रवाहम् । भजन्ति चाहर्निशमप्रमत्ताः परं पदं यान्ति तथैव सिद्धाः ॥ १२॥ वदन्ति केचित्परमोऽपि रामः स्वाविद्यया संवृतमात्मसञ्ज्ञम् । जानाति नात्मानमतः परेण सम्बोधितो वेद परात्मतत्त्वम् ॥ १३॥ यदि स्म जानाति कुतो विलापः सीताकृतेऽनेन कृतः परेण । जानाति नैवं यदि केन सेव्यः समो हि सर्वैरपि जीवजातैः ॥ १४॥ अत्रोत्तरं किं विदितं भवद्भिः तद्ब्रूत मे संशयभेदि वाक्यम् ॥ १५॥ श्रीमहादेव उवाच धन्यासि भक्तासि परात्मनस्त्वं यज्ज्ञातुमिच्छा तव रामतत्त्वम् । पुरा न केनाप्यभिचोदितोऽहं वक्तुं रहस्यं परमं निगूढम् ॥ १६॥ त्वयाद्य भक्त्या परिनोदितोऽहं वक्ष्ये नमस्कृत्य रघूत्तमं ते । रामः परात्मा प्रकृतेरनादि- रानन्द एकः पुरुषोत्तमो हि ॥ १७॥ स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः । सर्वान्तरस्थोऽपि निगूढ आत्मा स्वमायया सृष्टमिदं विचष्टे ॥ १८॥ जगन्ति नित्यं परितो भ्रमन्ति यत्सन्निधौ चुम्बकलोहवद्धि । एतन्न जानन्ति विमूढचित्ताः स्वाविद्यया संवृतमानसा ये ॥ १९॥ स्वाज्ञानमप्यात्मनि शुद्धबुद्धे स्वारोपयन्तीह निरस्तमाये । संसारमेवानुसरन्ति ते वै पुत्रादिसक्ताः पुरुकर्मयुक्ताः ॥ २०॥ यथाऽप्रकाशो न तु विद्यते रवौ ज्योतिःस्वभावे परमेश्वरे तथा । विशुद्धविज्ञानघने रघूत्तमेऽविद्या कथं स्यात्परतः परात्मनि ॥ २१॥ यथा हि चाक्ष्णा भ्रमता गृहादिकं विनष्टदृष्टेर्भ्रमतीव दृश्यते । तथैव देहेन्द्रियकर्तुरात्मनः कृते परेऽध्यस्य जनो विमुह्यति ॥ २२॥ नाहो न रात्रिः सवितुर्यथा भवेत् प्रकाशरूपाव्यभिचारतः क्वचित् । ज्ञानं तथाज्ञानमिदं द्वयं हरौ रामे कथं स्थास्यति शुद्धचिद्घने ॥ २३॥ तस्मात्परानन्दमये रघूत्तमे विज्ञानरूपे हि न विद्यते तमः । अज्ञानसाक्षिण्यरविन्दलोचने मायाश्रयत्वान्न हि मोहकारणम् ॥ २४॥ अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् । सीताराममरुत्सूनुसंवादं मोक्षसाधनम् ॥ २५॥ पुरा रामायणे रामे रावणं देवकण्टकम् । हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् ॥ २६॥ सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः । अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः ॥ २७॥ अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः । सिंहासने समासीनः कोटिसूर्यसमप्रभः ॥ २८॥ दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम् । कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम् ॥ २९॥ रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते । निष्कल्मषोऽयं ज्ञानस्य पात्रं नो नित्यभक्तिमान् ॥ ३०॥ तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् । हनूमते प्रपन्नाय सीता लोकविमोहिनी ॥ ३१॥ सीतोवाच रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् । सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् ॥ ३२॥ आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् । सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् ॥ ३३॥ मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् । तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता ॥ ३४॥ तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः । अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले ॥ ३५॥ विश्वामित्रसहायत्वं मखसंरक्षणं ततः । अहल्याशापशमनं चापभङ्गो महेशितुः ॥ ३६॥ मत्पाणिग्रहणं पश्चाद्भार्गवस्य मदक्षयः । अयोध्यानगरे वासो मया द्वादशवार्षिकः ॥ ३७॥ दण्डकारण्यगमनं विराधवध एव च । मायामारीचमरणं मायासीताहृतिस्तथा ॥ ३८॥ जटायुषो मोक्षलाभः कबन्धस्य तथैव च । शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः ॥ ३९॥ वालिनश्च वधः पश्चात्सीतान्वेषणमेव च । सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम् ॥ ४०॥ रावणस्य वधो युद्धे सपुत्रस्य दुरात्मनः । विभीषणे राज्यदानं पुष्पकेण मया सह ॥ ४१॥ अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् । एवमादीनि कर्माणि मयैवाचरितान्यपि आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि ॥ ४२॥ रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते त्यजति नो न करोति किञ्चित् । आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तथा विभाति ॥ ४३॥ ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् । शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ ४४॥ आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् । जलाशये महाकाशस्तदवच्छिन्न एव हि । प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः ॥ ४५॥ बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् । आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥ ४६॥ साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि । साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः ॥ ४७॥ आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते । अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः ॥ ४८॥ अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते । तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥ ४९॥ ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः । तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः ॥ ५०॥ एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते । मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् । न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि ॥ ५१॥ इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ । मद्भक्तिहीनाय शठाय न त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ ५२॥ श्रीमहादेव उवाच एतत्तेऽभिहितं देवि श्रीरामहृदयं मया । अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् ॥ ५३॥ साक्षाद्रामेण कथितं सर्ववेदान्तसङ्ग्रहम् । यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः ॥ ५४॥ ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि । नश्यन्त्येव न सन्देहो रामस्य वचनं यथा ॥ ५५॥ योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी यः सम्पूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम् ॥ ५६॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे श्रीरामहृदयं नाम प्रथमः सर्गः ॥ १॥ ॥ द्वितीयः सर्गः॥ पार्वत्युवाच धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो । विच्छिन्नो मेऽतिसन्देहग्रन्थिर्भवदनुग्रहात् ॥ १॥ त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम् । पिबन्त्या मे मनो देव न तृप्यति भवापहम् ॥ २॥ श्रीरामस्य कथा त्वत्तः श्रुता सङ्क्षेपतो मया । इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् ॥ ३॥ श्रीमहादेव उवाच शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । अध्यात्मरामचरितं रामेणोक्तं पुरा मम ॥ ४ । तदद्य कथयिष्यामि शृणु तापत्रयापहम् । यच्छ्रुत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात् । प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम् ॥ ५॥ भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां धृत्वा गोरूपमादौ दिविजमुनिजनैः साकमब्जासनस्य । गत्वा लोकं रुदन्ती व्यसनमुपगतं ब्रह्मणे प्राह सर्वं ब्रह्मा ध्यात्वा मुहूर्तं सकलमपि हृदावेदशेषात्मकत्वात् ॥ ६॥ तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथ देवैर्वृतो देव्या चाखिललोकहृत्स्थमजरं सर्वज्ञमीशं हरिम् । अस्तौषीच्छ्रुतिसिद्धनिर्मलपदैः स्तोत्रैः पुराणोद्भवैः भक्त्या गद्गदया गिरातिविमलैरानन्दबाष्पैर्वृतः ॥ ७॥ ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः । आविरासीद्धरिः प्राच्यां दिशां व्यपनयन्स्तमः ॥ ८॥ कथञ्चिद्दृष्टवान् ब्रह्मा दुर्दर्शमकृतात्मनाम् । इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् ॥ ९॥ किरीटहारकेयूरकुण्डलैः कटकादिभिः । विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम् ॥ १०॥ स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् । शङ्खचक्रगदापद्मवनमालाविराजितम् ॥ ११॥ स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च । श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् ॥ १२॥ हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे ॥ १३॥ ब्रह्मोवाच नतोऽस्मि ते पदं देव प्राणबुद्धीन्द्रियात्मभिः । यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः ॥ १४॥ मायया गुणमय्या त्वं सृजस्यवसि लुम्पसि । जगत्तेन न ते लेप आनन्दानुभवात्मनः ॥ १५॥ तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः । शुद्धात्मता ते यशसि सदा भक्तिमतां यथा ॥ १६॥ अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये । सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः ॥ १७॥ ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः । अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदि भावितः ॥ १८॥ तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो । स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्निवत् ॥ १९॥ अतस्त्वत्पादभक्तेषु तव भक्तिः श्रियोऽधिका । भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः ॥ २०॥ अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे । संसाराऽऽमयतप्तानां भेषजं भक्तिरेव ते ॥ २१॥ इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः । किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः ॥ २२॥ भगवन् रावणो नाम पौलस्त्यतनयो महान् । राक्षसानामधिपतिर्मद्दत्तवरदर्पितः ॥ २३॥ त्रिलोकीं लोकपालान्श्च बाधते विश्वबाधकः । मानुषेण मृतिस्तस्य मया कल्याण कल्पिता ॥ २४॥ अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो ॥ २५॥ श्रीभगवानुवाच कश्यपस्य वरो दत्तस्तपसा तोषितेन मे । याचितः पुत्रभावाय तथेत्यङ्गीकृतं मया । स इदानीं दशरथो भूत्वा तिष्ठति भूतले ॥ २६॥ तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने । चतुर्धाऽऽत्मानमेवाहं सृजामीतरयोः पृथक् ॥ २७॥ योगमायापि सीतेति जनकस्य गृहे तदा । उत्पत्स्यते तया सार्धं सर्वं सम्पादयाम्यहम् । इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्मा देवानथाब्रवीत् ॥ २८॥ ब्रह्मोवाच विष्णुर्मानुषरूपेण भविष्यति रघोः कुले ॥ २९॥ यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान् । विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले ॥ ३०॥ इति देवान् समादिश्य समाश्वास्य च मेदिनीम् । ययौ ब्रह्मा स्वभवनं विज्वरः सुखमास्थितः ॥ ३१॥ देवाश्च सर्वे हरिरूपधारिणः स्थिताः सहायार्थमितस्ततो हरेः । महाबलाः पर्वतवृक्षयोधिनः प्रतीक्षमाणा भगवन्तमीश्वरम् ॥ ३२॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे द्वितीयः सर्गः ॥ २॥ ॥ तृतीयः सर्गः ॥ श्रीमहादेव उवाच अथ राजा दशरथः श्रीमान् सत्यपरायणः । अयोध्याधिपतिर्वीरः सर्वलोकेषु विश्रुतः ॥ १॥ सोऽनपत्यत्वदुःखेन पीडितो गुरुमेकदा । वसिष्ठं स्वकुलाचार्यमभिवाद्येदमब्रवीत् ॥ २॥ स्वामिन् पुत्राः कथं मे स्युः सर्वलक्षणलक्षिताः । पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते ॥ ३॥ ततोऽब्रवीद्वसिष्ठस्तं भविष्यन्ति सुतास्तव । चत्वारः सत्त्वसम्पन्ना लोकपाला इवापराः ॥ ४॥ शान्ताभर्तारमानीय ऋष्यशृङ्गं तपोधनम् । अस्माभिः सहितः पुत्रकामेष्टिं शीघ्रमाचर ॥ ५॥ तथेति मुनिमानीय मन्त्रिभिः सहितः शुचिः । यज्ञकर्म समारेभे मुनिभिर्वीतकल्मषैः ॥ ६॥ श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः । पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट् ॥ ७॥ गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम् । लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः ॥ ८॥ इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधेऽनलः । ववन्दे मुनिशार्दूलौ राजा लब्धमनोरथः ॥ ९॥ वसिष्ठऋष्यशृङ्गाभ्यामनुज्ञातो ददौ हविः । कौसल्यायै सकैकेय्यै अर्धमर्धं प्रयत्नतः ॥ १०॥ ततः सुमित्रा सम्प्राप्ता जगृध्नुः पौत्रिकं चरुम् । कौसल्या तु स्वभागार्धं ददौ तस्यै मुदान्विता ॥ ११॥ कैकेयी च स्वभागार्धं ददौ प्रीतिसमन्विता । उपभुज्य चरुं सर्वाः स्त्रियो गर्भसमन्विताः ॥ १२॥ देवता इव रेजुस्ताः स्वभासा राजमन्दिरे । दशमे मासि कौसल्या सुषुवे पुत्रमद्भुतम् ॥ १३॥ मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे । पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके ॥ १४॥ मेषं पूषणि सम्प्राप्ते पुष्पवृष्टिसमाकुले । आविरासीज्जगन्नाथः परमात्मा सनातनः ॥ १५॥ नीलोत्पलदलश्यामः पीतवासाश्चतुर्भुजः । जलजारुणनेत्रान्तः स्फुरत्कुण्डलमण्डितः ॥ १६॥ सहस्रार्कप्रतीकाशः किरीटी कुञ्चितालकः । शङ्खचक्रगदापद्मवनमालाविराजितः ॥ १७॥ अनुग्रहाख्यहृत्स्थेन्दुसूचकस्मितचन्द्रिकः । करुणारससम्पूर्णविशालोत्पललोचनः । श्रीवत्सहारकेयूरनूपुरादिविभूषणः ॥ १८॥ दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला । हर्षाश्रुपूर्णनयना नत्वा प्राञ्जलिरब्रवीत् ॥ १९॥ कौसल्योवाच देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर । परमात्माच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः ॥ २०॥ वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम् । त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम् ॥ २१॥ त्वमेव मायया विश्वं सृजस्यवसि हन्सि च । सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा ॥ २२॥ करोषीव न कर्ता त्वं गच्छसीव न गच्छसि । शृणोषि न शृणोषीव पश्यसीव न पश्यसि ॥ २३॥ अप्राणो ह्यमनाः शुद्ध इत्यादि श्रुतिरब्रवीत् । समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे ॥ २४॥ अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम् । जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः ॥ २५॥ त्वं ममोदरसम्भूत इति लोकान् विडम्बसे । भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम ॥ २६॥ संसारसागरे मग्ना पतिपुत्रधनादिषु । भ्रमामि मायया तेऽद्य पादमूलमुपागता ॥ २७॥ देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे । आवृणोतु न मां माया तव विश्वविमोहिनी ॥ २८॥ उपसंहर विश्वात्मन्नदो रूपमलौकिकम् । दर्शयस्व महानन्दबालभावं सुकोमलम् । ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः ॥ २९॥ श्रीभगवानुवाच यद्यदिष्टं तवास्त्यम्ब तत्तद्भवतु नान्यथा ॥ ३०॥ अहं तु ब्रह्मणा पूर्वं भूमेर्भारापनुत्तये । प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः ॥ ३१॥ त्वया दशरथेनाहं तपसाराधितः पुरा । मत्पुत्रत्वाभिकाङ्क्षिण्या तथा कृतमनिन्दिते ॥ ३२॥ रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम् । मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम् ॥ ३३॥ संवादमावयोर्यस्तु पठेद्वा शृणुयादपि । स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥ ३४॥ इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोद ह । बालत्वेऽपीन्द्रनीलाभो विशालाक्षोऽतिसुन्दरः ॥ ३५॥ बालारुणप्रतीकाशो लालिताखिललोकपः । अथ राजा दशरथः श्रुत्वा पुत्रोद्भवोत्सवम् । आनन्दार्णवमग्नोऽसावाययौ गुरुणा सह ॥ ३६॥ रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रुसम्प्लुतः । गुरुणा जातकर्माणि कर्तव्यानि चकार सः ॥ ३७॥ कैकेयी चाथ भरतमसूत कमलेक्षणा । सुमित्रायां यमौ जातौ पूर्णेन्दुसदृशाननौ ॥ ३८॥ तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ । सुवर्णानि च रत्नानि वासांसि सुरभीः शुभाः ॥ ३९॥ यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे । तं गुरुः प्राह रामेति रमणाद्राम इत्यपि ॥ ४०॥ भरणाद्भरतो नाम लक्ष्मणं लक्षणान्वितम् । शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत ॥ ४१॥ लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च । द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः ॥ ४२॥ रामस्तु लक्ष्मणेनाथ विचरन् बाललीलया । रमयामास पितरौ चेष्टितैर्मुग्धभाषितैः ॥ ४३॥ भाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभम् । कण्ठे रत्नमणिव्रातमध्यद्वीपिनखाञ्चितम् ॥ ४४॥ कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकम् । शिञ्जानमणिमञ्जीरकटिसूत्राङ्गदैर्वृतम् ॥ ४५॥ स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम् । अङ्गणे रिङ्गमाणं तं तर्णकाननु सर्वतः । दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा ॥ ४६॥ भोक्ष्यमाणो दशरथो राममेहीति चासकृत् । आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया ॥ ४७॥ आनयेति च कौसल्यामाह सा सस्मिता सुतम् । धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम् ॥ ४८॥ प्रहसन् स्वयमायाति कर्दमाङ्कितपाणिना । किञ्चिद्गृहीत्वा कवलं पुनरेव पलायते ॥ ४९॥ कौसल्या जननी तस्य मासि मासि प्रकुर्वती । वायनानि विचित्राणि समलङ्कृत्य राघवम् ॥ ५०॥ अपूपान् मोदकान् कृत्वा कर्णशष्कुलिकास्तथा । कर्णपूरान्श्च विविधान् वर्षवृद्धौ च वायनम् ॥ ५१॥ गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात् । एकदा रघुनाथोऽसौ गतो मातरमन्तिके ॥ ५२॥ भोजनं देहि मे मातर्न श्रुतं कार्यसक्तया । ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा ॥ ५३॥ शिक्यस्थं पातयामास गव्यं च नवनीतकम् । लक्ष्मणाय ददौ रामो भरताय यथाक्रमम् ॥ ५४॥ शत्रुघ्नाय ददौ पश्चाद्दधि दुग्धं तथैव च । सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति ॥ ५५॥ आगतां तां विलोक्याथ ततः सर्वैः पलायितम् । कौसल्या धावमानापि प्रस्खलन्ती पदे पदे ॥ ५६॥ रघुनाथं करे धृत्वा किञ्चिन्नोवाच भामिनी । बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह ॥ ५७॥ ते सर्वे लालिता मात्रा गाढमालिङ्ग्य यत्नतः । एवमानन्दसन्दोहजगदानन्दकारकः ॥ ५८॥ मायाबालवपुर्धृत्वा रमयामास दम्पती । अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे ॥ ५९॥ उपनीता वसिष्ठेन सर्वविद्याविशारदाः । धनुर्वेदे च निरताः सर्वशास्त्रार्थवेदिनः ॥ ६०॥ बभूवुर्जगतां नाथा लीलया नररूपिणः । लक्ष्मणस्तु सदा राममनुगच्छति सादरम् ॥ ६१॥ सेव्यसेवकभावेन शत्रुघ्नो भरतं तथा । रामश्चापधरो नित्यं तूणीबाणान्वितः प्रभुः ॥ ६२॥ अश्वारूढो वनं याति मृगयायै सलक्ष्मणः । हत्वा दुष्टमृगान् सर्वान् पित्रे सर्वं न्यवेदयत् ॥ ६३॥ प्रातरुत्थाय सुस्नातः पितरावभिवाद्य च । पौरकार्याणि सर्वाणि करोति विनयान्वितः ॥ ६४॥ बन्धुभिः सहितो नित्यं भुक्त्वा मुनिभिरन्वहम् । धर्मशास्त्ररहस्यानि शृणोति व्याकरोति च ॥ ६५॥ एवं परात्मा मनुजावतारो मनुष्यलोकाननुसृत्य सर्वम् । चक्रेऽविकारी परिणामहीनो विचार्यमाणे न करोति किञ्चित् ॥ ६६॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे तृतीयः सर्गः ॥ ३॥ ॥ चतुर्थः सर्गः ॥ श्रीमहादेव उवाच कदाचित्कौशिकोऽभ्यागादयोध्यां ज्वलनप्रभः । द्रष्टुं रामं परात्मानं जातं ज्ञात्वा स्वमायया ॥ १॥ दृष्ट्वा दशरथो राजा प्रत्युत्थायाचिरेण तु । वसिष्ठेन समागम्य पूजयित्वा यथाविधि ॥ २॥ अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः । कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात् ॥ ३॥ त्वद्विधा यद्गृहम् यान्ति तत्रैवायान्ति सम्पदः । यदर्थमागतोऽसि त्वं ब्रूहि सत्यं करोमि तत् ॥ ४॥ विश्वामित्रोऽपि तं प्रीतः प्रत्युवाच महीपतिम् । अहं पर्वणि सम्प्राप्ते दृष्ट्वा यष्टुं सुरान् पितॄन् ॥ ५॥ यदारभे तदा दैत्या विघ्नं कुर्वन्ति नित्यशः । मारीचश्च सुबाहुश्चापरे चानुचरास्तयोः ॥ ६॥ अतस्तयोर्वधार्थाय ज्येष्ठं रामं प्रयच्छ मे । लक्ष्मणेन सह भ्रात्रा तव श्रेयो भविष्यति ॥ ७॥ वसिष्ठेन सहामन्त्र्य दीयतां यदि रोचते । पप्रच्छ गुरुमेकान्ते राजा चिन्तापरायणः ॥ ८॥ किं करोमि गुरो रामं त्यक्तुं नोत्सहते मनः । बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः ॥ ९॥ चत्वारोऽमरतुल्यास्ते तेषां रामोऽतिवल्लभः । रामस्त्वितो गच्छति चेन्न जीवामि कथञ्चन ॥ १०॥ प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः । कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत् ॥ ११॥ वसिष्ठ उवाच शृणु राजन् देवगुह्यं गोपनीयं प्रयत्नतः । रामो न मानुषो जातः परमात्मा सनातनः ॥ १२॥ भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा । स एव जातो भवने कौसल्यायां तवानघ ॥ १३॥ त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः । कौसल्या चादितिर्देवमाता पूर्वं यशस्विनी ॥ १४॥ भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम् । अग्राम्यविषयौ विष्णुपूजाध्यानैकतत्परौ । तदा प्रसन्नो भगवान् वरदो भक्तवत्सलः ॥ १५॥ वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल । इति त्वया याचितोऽसौ भगवान् भूतभावनः ॥ १६॥ तथेत्युक्त्वाद्य पुत्रस्ते जातो रामः स एव हि । शेषस्तु लक्ष्मणो राजन् राममेवान्वपद्यत ॥ १७॥ जातौ भरतशत्रुघ्नौ शङ्खचक्रे गदाभृतः । योगमायापि सीतेति जाता जनकनन्दिनी ॥ १८॥ विश्वामित्रोऽपि रामाय तां योजयितुमागतः । एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन ॥ १९॥ अतः प्रीतेन मनसा पूजयित्वाथ कौशिकम् । प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम् ॥ २०॥ वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा । कृतकृत्यमिवात्मानं मेने प्रमुदितान्तरः ॥ २१॥ आहूय रामरामेति लक्ष्मणेति च सादरम् । आलिङ्ग्य मूर्ध्न्यवघ्राय कौशिकाय समर्पयत् ॥ २२॥ ततोऽतिहृष्टो भगवान् विश्वामित्रः प्रतापवान् । आशीर्भिरभिनन्द्याथ आगतौ रामलक्ष्मणौ । गृहीत्वा चापतूणीरबाणखड्गधरौ ययौ ॥ २३॥ किञ्चिद्देशमतिक्रम्य राममाहूय भक्तितः । ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते ॥ २४॥ ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते ॥ २५॥ तत उत्तीर्य गङ्गां ते ताटकावनमागमन् । विश्वामित्रस्तदा प्राह रामं सत्यपराक्रमम् ॥ २६॥ अत्रास्ति ताटका नाम राक्षसी कामरूपिणी । बाधते लोकमखिलं जहि तामविचारयन् ॥ २७॥ तथेति धनुरादाय सगुणं रघुनन्दनः । टङ्कारमकरोत्तेन शब्देनापूरयद्वनम् ॥ २८॥ तच्छ्रुत्वासहमाना सा ताटका घोररूपिणी । क्रोधसंमूर्च्छिता राममभिदुद्राव मेघवत् ॥ २९॥ तामेकेन शरेणाशु ताडयामास वक्षसि । पपात विपिने घोरा वमन्ती रुधिरं बहु ॥ ३०॥ ततोऽतिसुन्दरी यक्षी सर्वाभरणभूषिता । शापात्पिशाचतां प्राप्ता मुक्ता रामप्रसादतः ॥ ३१॥ नत्वा रामं परिक्रम्य गता रामाज्ञया दिवम् ॥ ३२॥ ततोऽतिहृष्टः परिरभ्य रामं मूर्धन्यवघ्राय विचिन्त्य किञ्चित् । सर्वास्त्रजालं सरहस्यमन्त्रं प्रीत्याभिरामाय ददौ मुनीन्द्रः ॥ ३३॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे चतुर्थः सर्गः ॥ ४॥ ॥ पञ्चमः सर्गः ॥ श्रीमहादेव उवाच तत्र कामाश्रमे रम्ये कानने मुनिसङ्कुले । उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः ॥ १॥ सिद्धाश्रमं गताः सर्वे सिद्धचारणसेवितम् । विश्वामित्रेण सन्दिष्टा मुनयस्तन्निवासिनः ॥ २॥ पूजां च महतीं चक्रू रामलक्ष्मणयोर्द्रुतम् । श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम् ॥ ३॥ दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ । तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह ॥ ४॥ मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ । मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी ॥ ५॥ रामोऽपि धनुरादाय द्वौ बाणौ सन्दधे सुधीः । आकर्णान्तं समाकृष्य विससर्ज तयोः पृथक् ॥ ६॥ तयोरेकस्तु मारीचं भ्रामयञ्छतयोजनम् । पातयामास जलधौ तदद्भुतमिवाभवत् ॥ ७॥ द्वितीयोऽग्निमयो बाणः सुबाहुमजयत्क्षणात् । अपरे लक्षमणेनाशु हतास्तदनुयायिनः ॥ ८॥ पुष्पौघैराकिरन् देवा राघवं सहलक्ष्मणम् । देवदुन्दुभयो नेदुस्तुष्टुवुः सिद्धचारणाः ॥ ९॥ विश्वामित्रस्तु सम्पूज्य पूजार्हं रघुनन्दनम् । अङ्के निवेश्य चालिङ्ग्य भक्त्या बाष्पाकुलेक्षणः ॥ १०॥ भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः । पुराणवाक्यैर्मधुरैर्निनाय दिवसत्रयम् ॥ ११॥ चतुर्थेऽहनि सम्प्राप्ते कौशिको राममब्रवीत् । राम राम महायज्ञं द्रष्टुं गच्छामहे वयम् ॥ १२॥ विदेहराजनगरे जनकस्य महात्मनः । तत्र माहेश्वरं चापमस्ति न्यस्तं पिनाकिना ॥ १३॥ द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च । इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम् ॥ १४॥ गौतमस्याश्रमं पुण्यं यत्राहल्याऽऽस्थिता तपः । दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम् ॥ १५॥ मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितम् । दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः ॥ १६॥ कस्यैतदाश्रमपदं भाति भास्वच्छुभं महत् । पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम् ॥ १७॥ आह्लादयति मे चेतो भगवन् ब्रूहि तत्त्वतः ॥ १८॥ विश्वामित्र उवाच शृणु राम पुरा वृत्तं गौतमो लोकविश्रुतः । सर्वधर्मभृतां श्रेष्ठस्तपसाराधयन् हरिम् ॥ १९॥ तस्मै ब्रह्मा ददौ कन्यामहल्यां लोकसुन्दरीम् । ब्रह्मचर्येण सन्तुष्टः शुश्रूषणपरायणाम् ॥ २०॥ तया सार्धमिहावात्सीद्गौतमस्तपतां वरः । शक्रस्तु तां धर्षयितुमन्तरं प्रेप्सुरन्वहम् ॥ २१॥ कदाचिन्मुनिवेषेण गौतमे निर्गते गृहात् । धर्षयित्वाथ निरगात्त्वरितं मुनिरप्यगात् ॥ २२॥ दृष्ट्वा यान्तं स्वरूपेण मुनिः परमकोपनः । पप्रच्छ कस्त्वं दुष्टात्मन् मम रूपधरोऽधमः ॥ २३॥ सत्यं ब्रूहि न चेद्भस्म करिष्यामि न संशयः । सोऽब्रवीद्देवराजोऽहं पाहि मां कामकिङ्करम् ॥ २४॥ कृतं जुगुप्सितं कर्म मया कुत्सितचेतसा । गौतमः क्रोधताम्राक्षः शशाप दिविजाधिपम् ॥ २५॥ योनिलम्पट दुष्टात्मन् सहस्रभगवान् भव । शप्त्वा तं देवराजानं प्रविश्य स्वाश्रमं द्रुतम् ॥ २६॥ दृष्ट्वाहल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीत् । दुष्टे त्वं तिष्ठ दुर्वृत्ते शिलायामाश्रमे मम ॥ २७॥ निराहारा दिवारात्रं तपः परममास्थिता । आतपानिलवर्षादिसहिष्णुः परमेश्वरम् ॥ २८॥ ध्यायन्ती राममेकाग्रमनसा हृदि संस्थितम् । नानाजन्तुविहीनोऽयमाश्रमो मे भविष्यति ॥ २९॥ एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च । रामो दाशरथिः श्रीमानागमिष्यति सानुजः ॥ ३०॥ यदा त्वदाश्रयशिलां पादाभ्यामाक्रमिष्यति । तदैव धूतपापा त्वं रामं सम्पूज्य भक्तितः ॥ ३१॥ परिक्रम्य नमस्कृत्य स्तुत्वा शापाद्विमोक्ष्यसे । पूर्ववन्मम शुश्रूषां करिष्यसि यथासुखम् ॥ ३२॥ इत्युक्त्वा गौतमः प्रागाद्धिमवन्तं नगोत्तमम् । तदाद्यहल्या भूतानामदृश्या स्वाश्रमे शुभे ॥ ३३॥ तव पादरजःस्पर्शं काङ्क्षते पवनाशना । आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता ॥ ३४॥ पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुताम् । इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः ॥ ३५॥ दर्शयामास चाहल्यामुग्रेण तपसा स्थिताम् । रामः शिलां पदा स्पृष्ट्वा तां चापश्यत्तपोधनाम् ॥ ३६॥ ननाम राघवोऽहल्यां रामोऽहमिति चाब्रवीत् । ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम् ॥ ३७॥ चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम् । धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम् ॥ ३८॥ स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्कितवक्षसम् । नीलमाणिक्यसङ्काशं द्योतयन्तं दिशो दश ॥ ३९॥ दृष्ट्वा रामं रमानाथं हर्षविस्फारितेक्षणा । गौतमस्य वचः स्मृत्वा ज्ञात्वा नारायणं वरम् ॥ ४०॥ सम्पूज्य विधिवद्राममर्घ्यादिभिरनिन्दिता । हर्षाश्रुजलनेत्रान्ता दण्डवत्प्रणिपत्य सा ॥ ४१॥ उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम् । पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैलत ॥ ४२॥ अहल्योवाच अहो कृतार्थास्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् । स्पृशामि यत्पद्मजशङ्करादिभि- र्विमृग्यते रन्धितमानसैः सदा ॥ ४३॥ अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् । चलस्यजस्रं चरणादिवर्जितः सम्पूर्ण आनन्दमयोऽतिमायिकः ॥ ४४॥ यत्पादपङ्कजपरागपवित्रगात्रा भागीरथी भवविरिञ्चिमुखान् पुनाति । साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ४५॥ मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् । धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान् भजिष्ये ॥ ४६॥ यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं यन्नाभिपङ्कजभवः कमलासनश्च । यन्नामसाररसिको भगवान् पुरारिस्तं रामचन्द्रमनिशं हृदि भावयामि ॥ ४७॥ यस्यावतारचरितानि विरिञ्चिलोके गायन्ति नारदमुखा भवपद्मजाद्याः । आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ४८॥ सोऽयं परात्मा पुरुषः पुराण एकः स्वयञ्ज्योतिरनन्त आद्यः । मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ४९॥ अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिम्बितो यः । विरिञ्चिविष्ण्वीश्वरनामभेदान् धत्ते स्वतन्त्रः परिपूर्ण आत्मा ॥ ५०॥ नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं श्रिया धृतं वक्षसि लालितं प्रियात् । आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ५१॥ जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः । सर्वभूतेष्वसंयुक्त एको भाति भवान् परः ॥ ५२॥ ओङ्कारवाच्यस्त्वं राम वाचामविषयः पुमान् । वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ५३॥ कार्यकारणकर्तृत्वफलसाधनभेदतः । एको विभासि राम त्वं मायया बहुरूपया ॥ ५४॥ त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः । मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् ॥ ५५॥ आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः । असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ ५६॥ योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो । तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ ५७॥ देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा । त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे ॥ ५८॥ नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल । नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तुते ॥ ५९॥ भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् । कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ ६०॥ स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् । परिक्रम्य प्रणम्याशु साऽनुज्ञाता ययौ पतिम् ॥ ६१॥ अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः । स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ ६२॥ पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च । संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥ ६३॥ सर्वान् कामानवाप्नोति रामचन्द्रप्रसादतः ॥ ६४॥ ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः । नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदिस्थं स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥ ६५॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे अहल्योद्धरणं नाम पञ्चमः सर्गः ॥ ५॥ ॥ षष्ठः सर्गः ॥ विश्वामित्रोऽथ तं प्राह राघवं सहलक्ष्मणम् । गच्छामो वत्स मिथिलां जनकेनाभिपालिताम् ॥ १॥ दृष्ट्वा क्रतुवरं पश्चादयोध्यां गन्तुमर्हसि । इत्युक्त्वा प्रययौ गङ्गामुत्तर्तुं सहराघवः । तस्मिन् काले नाविकेन निषिद्धो रघुनन्दनः ॥ २॥ नाविक उवाच क्षालयामि तव पादपङ्कजं नाथ दारुदृषदोः किमन्तरम् । मानुषीकरणचूर्णमस्ति ते पादयोरिति कथा प्रथीयसी ॥ ३॥ पादाम्बुजं ते विमलं हि कृत्वा पश्चात्परं तीरमहं नयामि । नो चेत्तरी सद्युवती मलेन स्याच्चेद्विभो विद्धि कुटुम्बहानिः ॥ ४॥ इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः । कौशिको रघुनाथेन सहितो मिथिलां ययौ ॥ ५॥ विदेहस्य पुरं प्रातरृषिवाटं समाविशत् । प्राप्तं कौशिकमाकर्ण्य जनकोऽतिमुदान्वितः ॥ ६॥ पूजाद्रव्याणि सङ्गृह्य सोपाध्यायः समाययौ । दण्डवत्प्रणिपत्याथ पूजयामास कौशिकम् ॥ ७॥ पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ । द्योतयन्तौ दिशः सर्वाश्चन्द्रसूर्याविवापरौ ॥ ८॥ कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ । मनःप्रीतिकरौ मेऽद्य नरनारायणाविव ॥ ९॥ प्रत्युवाच मुनिः प्रीतो हर्षयन् जनकं तदा । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १०॥ मखसंरक्षणार्थाय मयानीतौ पितुः पुरात् । आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम् ॥ ११॥ शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः । ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान् ॥ १२॥ सुबाहुप्रमुखान् हत्वा मारीचं सागरेऽक्षिपत् । ततो गङ्गातटे पुण्ये गौतमस्याश्रमं शुभम् ॥ १३॥ गत्वा तत्र शिलारूपा गौतमस्य वधूः स्थिता । पादपङ्कजसंस्पर्शात्कृता मानुषरूपिणी ॥ १४॥ दृष्ट्वाहल्यां नमस्कृत्य तया सम्यक्प्रपूजितः । इदानीं द्रष्टुकामस्ते गृहे माहेश्वरं धनुः ॥ १५॥ पूजितं राजभिः सर्वैर्दृष्टमित्यनुशुश्रुवे । अतो दर्शय राजेन्द्र शैवं चापमनुत्तमम् । दृष्ट्वायोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति ॥ १६॥ इत्युक्तो मुनिना राजा पूजार्हाविति पूजया । पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा । ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम् ॥ १७॥ जनक उवाच शीघ्रमानय विश्वेशचापं रामाय दर्शय ॥ १८॥ ततो गते मन्त्रिवरे राजा कौशिकमब्रवीत् । यदि रामो धनुर्धृत्वा कोट्यामारोपयेद्गुणम् ॥ १९॥ तदा मयात्मजा सीता दीयते राघवाय हि । तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितम् ॥ २०॥ शीघ्रं दर्शय चापाग्र्यं रामायामिततेजसे । एवं ब्रुवति मौनीशे आगताश्चापवाहकाः ॥ २१॥ चापं गृहीत्वा बलिनः पञ्चसाहस्रसङ्ख्यकाः । घण्टाशतसमायुक्तं मणिवज्रादिभूषितम् ॥ २२॥ दर्शयामास रामाय मन्त्री मन्त्रयतां वरः । दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम् ॥ २३॥ गृहीत्वा वामहस्तेन लीलया तोलयन् धनुः । आरोपयामास गुणं पश्यत्स्वखिलराजसु ॥ २४॥ ईषदाकर्षयामास पाणिना दक्षिणेन सः । बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन् ॥ २५॥ दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम् । तदद्भुतमभूत्तत्र देवानां दिवि पश्यताम् ॥ २६॥ आच्छादयन्तः कुसुमैर्देवाः स्तुतिभिरीडिरे । देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ २७॥ द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्ग्य रघूद्वहम् । विस्मयं लेभिरे सीतामातरोऽन्तःपुराजिरे ॥ २८॥ सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे । स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता ॥ २९॥ मुक्ताहारैः कर्णपत्रैः क्वणच्चरणनूपुरा । दुकूलपरिसंवीता वस्त्रान्तर्व्यञ्जितस्तनी ॥ ३०॥ रामस्योपरि निक्षिप्य स्मयमाना मुदं ययौ । ततो मुमुदिरे सर्वे राजदाराः स्वलङ्कृतम् ॥ ३१॥ गवाक्षजालरन्ध्रेभ्यो दृष्ट्वा लोकविमोहनम् । ततोऽब्रवीन्मुनिं राजा सर्वशास्त्रविशारदः ॥ ३२॥ भो कौशिक मुनिश्रेष्ठ पत्रं प्रेषय सत्वरम् । राजा दशरथः शीघ्रमागच्छतु सपुत्रकः ॥ ३३। विवाहार्थं कुमाराणां सदारः सहमन्त्रिभिः । तथेति प्रेषयामास दूतान्स्त्वरितविक्रमान् ॥ ३४॥ ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन् । श्रुत्वा रामकृतं राजा हर्षेण महताप्लुतः ॥ ३५॥ मिथिलागमनार्थाय त्वरयामास मन्त्रिभिः । गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः ॥ ३६॥ रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम् । वसिष्ठस्त्वग्रतो यातु सदारः सहितोऽग्निभिः ॥ ३७॥ राममातॄः समादाय मुनिर्मे भगवान् गुरुः । एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम् ॥ ३८॥ महत्या सेनया सार्धमारुह्य त्वरितो ययौ । आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः ॥ ३९॥ प्रत्युज्जगाम जनकः शतानन्दपुरोधसा । यथोक्तपूजया पूज्यं पूजयामास सत्कृतम् ॥ ४०॥ रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः । ततो हृष्टो दशरथो रामं वचनमब्रवीत् ॥ ४१॥ दिष्ट्या पश्यामि ते राम मुखं फुल्लाम्बुजोपमम् । मुनेरनुग्रहात्सर्वं सम्पन्नं मम शोभनम् ॥ ४२॥ इत्युक्त्वाघ्राय मूर्धानमालिङ्ग्य च पुनः पुनः । हर्षेण महताविष्टो ब्रह्मानन्दं गतो यथा ॥ ४३॥ ततो जनकराजेन मन्दिरे सन्निवेशितः । शोभने सर्वभोगाढ्ये सदारः ससुतः सुखी ॥ ४४॥ ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम् । आनयामास धर्मज्ञो रामं सभ्रातृकं तदा ॥ ४५॥ रत्नस्तम्भसुविस्तारे सुविताने सुतोरणे । मण्डपे सर्वशोभाढ्ये मुक्तापुष्पफलान्विते ॥ ४६॥ वेदविद्भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः । सुवासिनीभिः परितो निष्ककण्ठीभिरावृते ॥ ४७॥ भेरीदुन्दुभिनिर्घोषैर्गीतनृत्यैः समाकुले । दिव्यरत्नाञ्चिते स्वर्णपीठे रामं न्यवेशयत् ॥ ४८॥ वसिष्ठं कौशिकं चैव शतानन्दः पुरोहितः । यथाक्रमं पूजयित्वा रामस्योभयपार्श्वयोः ॥ ४९॥ स्थापयित्वा स तत्राग्निं ज्वालयित्वा यथाविधि । सीतामानीय शोभाढ्यां नानारत्नविभूषिताम् ॥ ५०॥ सभार्यो जनकः प्रायाद्रामं राजीवलोचनम् । पादौ प्रक्षाल्य विधिवत्तदपो मूर्ध्न्यधारयत् ॥ ५१॥ या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा । ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम् ॥ ५२॥ रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः । सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिता ॥ ५३॥ दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम । इति प्रीतेन मनसा सीतां रामकरेऽर्पयन् ॥ ५४॥ मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे । उर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा ॥ ५५॥ तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके । भरताय ददावेकां शत्रुघ्नायापरां ददौ ॥ ५६॥ चत्वारो दारसम्पन्ना भ्रातरः शुभलक्षणाः । विरेजुः प्रजया सर्वे लोकपाला इवापरे ॥ ५७॥ ततोऽब्रवीद्वसिष्ठाय विश्वामित्राय मैथिलः । जनकः स्वसुतोदन्तं नारदेनाभिभाषितम् ॥ ५८॥ यज्ञभूमिविशुद्ध्यर्थं कर्षतो लाङ्गलेन मे । सीतामुखात्समुत्पन्ना कन्यका शुभलक्षणा ॥ ५९॥ तामद्राक्षमहं प्रीत्या पुत्रिकाभावभाविताम् । अर्पिता प्रियभार्यायै शरच्चन्द्रनिभानना ॥ ६०॥ एकदा नारदोऽभ्यागाद्विविक्ते मयि संस्थिते । रणयन्महतीम् वीणां गायन्नारायणं विभुम् ॥ ६१॥ पूजितः सुखमासीनो मामुवाच सुखान्वितः । शृणुष्व वचनं गुह्यं तवाभ्युदयकारणम् ॥ ६२॥ परमात्मा हृषीकेशो भक्तानुग्रहकाम्यया । देवकार्यार्थसिद्ध्यर्थं रावणस्य वधाय च ॥ ६३॥ जातो राम इति ख्यातो मायामानुषवेषधृक् । आस्ते दाशरथिर्भूत्वा चतुर्धा परमेश्वरः ॥ ६४॥ योगमायाऽपि सीतेति जाता वै तव वेश्मनि । अतस्त्वं राघवायैव देहि सीतां प्रयत्नतः ॥ ६५॥ नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः । इत्युक्त्वा प्रययौ देवगतिं देवमुनिस्तदा ॥ ६६॥ तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते । कथं मया राघवाय दीयते जानकी शुभा ॥ ६७॥ इति चिन्तासमाविष्टः कार्यमेकमचिन्तयम् । मत्पितामहगेहे तु न्यासभूतमिदं धनुः ॥ ६८॥ ईश्वरेण पुरा क्षिप्तं पुरदाहादनन्तरम् । धनुरेतत्पणं कार्यमिति चिन्त्य कृतं तथा ॥ ६९॥ सीतापाणिग्रहार्थाय सर्वेषां माननाशनम् । त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः ॥ ७०॥ आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः । अद्य मे सफलं जन्म राम त्वां सह सीतया ॥ ७१॥ एकासनस्थं पश्यामि भ्राजमानं रविं यथा ॥ ७२॥ त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः । बलिस्त्वत्पादसलिलं धृत्वाभूद्दिविजाधिपः ॥ ७३॥ त्वत्पादपांसुसंस्पर्शादहल्या भर्तृशापतः । सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता ॥ ७४॥ यत्पादपङ्कजपरागसुरागयोगि- वृन्दैर्जितम्भवभयं जितकालचक्रैः । यन्नामकीर्तनपरा जितदुःखशोका देवास्तमेव शरणं सततं प्रपद्ये ॥ ७५॥ इति स्तुत्वा नृपः प्रादाद्राघवाय महात्मने । दीनाराणां कोटिशतं रथानामयुतं तदा ॥ ७६॥ अश्वानां नियुतं प्रादाद्गजानां षट्शतं तथा । पत्तीनां लक्षमेकं तु दासीनां त्रिशतं ददौ ॥ ७७॥ दिव्याम्बराणि हारान्श्च मुक्तारत्नमयोज्ज्वलान् । सीतायै जनकः प्रादात्प्रीत्या दुहितृवत्सलः ॥ ७८॥ वसिष्ठादीन् सुसम्पूज्य भरतं लक्ष्मणं तथा । पूजयित्वा यथान्यायं तथा दशरथं नृपम् ॥ ७९॥ प्रस्थापयामास नृपो राजानं रघुसत्तमम् । सीतामालिङ्ग्य रुदतीं मातरः साश्रुलोचनाः ॥ ८०॥ श्वश्रूशुश्रूषणपरा नित्यं राममनुव्रता । पातिव्रत्यमुपालम्ब्य तिष्ठ वत्से यथा सुखम् ॥ ८१॥ प्रयाणकाले रघुनन्दनस्य भेरीमृदङ्गानकतूर्यघोषः । स्वर्वासिभेरीघनतूर्यशब्दैः संमूर्च्छितो भूतभयङ्करोऽभूत् ॥ ८२॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे षष्ठः सर्गः ॥ ६॥ ॥ सप्तमः सर्गः ॥ अथ गच्छति श्रीरामे मैथिलाद्योजनत्रयम् । निमित्तान्यतिघोराणि ददर्श नृपसत्तमः ॥ १॥ नत्वा वसिष्ठं पप्रच्छ किमिदं मुनिपुङ्गव । निमित्तानीह दृश्यन्ते विषमाणि समन्ततः ॥ २॥ वसिष्ठस्तमथ प्राह भयमागामि सूच्यते । पुनरप्यभयं तेऽद्य शीघ्रमेव भविष्यति ॥ ३॥ मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः । इत्येवं वदतस्तस्य ववौ घोरतरोऽनिलः ॥ ४॥ मुष्णन्श्चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयन् । ततो व्रजन् ददर्शाग्रे तेजोराशिमुपस्थितम् ॥ ५॥ कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम् । तेजोराशिं ददर्शाथ जामदग्न्यं प्रतापवान् ॥ ६॥ नीलमेघनिभं प्रांशुं जटामण्डलमण्डितम् । धनुः परशुपाणिं च साक्षात्कालमिवान्तकम् ॥ ७॥ कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम् । प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम् ॥ ८॥ तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा । अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत् ॥ ९॥ दण्डवत्प्रणिपत्याह पुत्रप्राणं प्रयच्छ मे । इति ब्रुवन्तं राजानमनादृत्य रघूत्तमम् ॥ १०॥ उवाच निष्ठुरं वाक्यं क्रोधात्प्रचलितेन्द्रियः । त्वं राम इति नाम्ना मे चरसि क्षत्रियाधम ॥ ११॥ द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै । पुराणं जर्जरं चापं भङ्क्त्वा त्वं कत्थसे मुधा ॥ १२॥ अस्मिन्स्तु वैष्णवे चापे आरोपयसि चेद्गुणम् । तदा युद्धं त्वया सार्धं करोमि रघुवंशज ॥ १३॥ नो चेत्सर्वान् हनिष्यामि क्षत्रियान्तकरो ह्यहम् । इति ब्रुवति वै तस्मिन्श्चचाल वसुधा भृशम् ॥ १४॥ अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् । रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा ॥ १५॥ धनुराच्छिद्य तद्धस्तादारोप्य गुणमञ्जसा । तूणीराद्बाणमादाय सन्धायाकृष्य वीर्यवान् ॥ १६॥ उवाच भार्गवं रामं शृणु ब्रह्मन् वचो मम । लक्ष्यं दर्शय बाणस्य ह्यमोघो मम सायकः ॥ १७॥ लोकान् पादयुगं वापि वद शीघ्रं ममाज्ञया । अयं लोकः परो वाथ त्वया गन्तुं न शक्यते ॥ १८॥ एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया । एवं वदति श्रीरामे भार्गवो विकृताननः ॥ १९॥ संस्मरन् पूर्ववृत्तान्तमिदं वचनमब्रवीत् । राम राम महाबाहो जाने त्वां परमेश्वरम् ॥ २०॥ पुराणपुरुषं विष्णुं जगत्सर्गलयोद्भवम् । बाल्येऽहं तपसा विष्णुमाराधयितुमञ्जसा ॥ २१॥ चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम् । अतोषयं महात्मानं नारायणमनन्यधीः ॥ २२॥ ततः प्रसन्नो देवेशः शङ्खचक्रगदाधरः । उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्कजः ॥ २३॥ श्रीभगवानुवाच उत्तिष्ठ तपसो ब्रह्मन् फलितं ते तपो महत् । मच्चिदंशेन युक्तस्त्वं जहि हैहयपुङ्गवम् ॥ २४॥ कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः । ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्षत्रियमण्डलम् ॥ २५॥ कृत्स्नां भूमिं कश्यपाय दत्त्वा शान्तिमुपावह । त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्ययः ॥ २६॥ उत्पत्स्ये परया शक्त्या तदा द्रक्ष्यसि मां ततः । मत्तेजः पुनरादास्ये त्वयि दत्तं मया पुरा ॥ २७॥ तदा तपश्चरन्ल्लोके तिष्ठ त्वं ब्रह्मणो दिनम् । इत्युक्त्वान्तर्दधे देवस्तथा सर्वं कृतं मया ॥ २८॥ स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः । मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम् ॥ २९॥ अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो । ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः ॥ ३०॥ त्वयि जन्मादिषड्भावा न सन्त्यज्ञानसम्भवाः । निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः ॥ ३१॥ यथा जले फेनजालं धूमो वह्नौ तथा त्वयि । त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो ॥ ३२॥ यावन्मायावृता लोकास्तावत्त्वां न विजानते । अविचारितसिद्धैषाऽविद्या विद्याविरोधिनी ॥ ३३॥ अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता । चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते ॥ ३४॥ यावद्देहमनःप्राणबुद्ध्यादिष्वभिमानवान् । तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत् ॥ ३५॥ आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति । अविवेकाद्द्वयं युङ्क्त्वा संसारीति प्रवर्तते ॥ ३६॥ जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा । जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा ॥ ३७॥ यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति । तावत्संसारदुःखौघान्न निवर्तेन्नरः सदा ॥ ३८॥ तत्सङ्गलब्धया भक्त्या यदा त्वां समुपासते । तदा माया शनैर्याति तानवं प्रतिपद्यते ॥ ३९॥ ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते । वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद्विमुच्यते ॥ ४०॥ तस्मात्त्वद्भक्तिहीनानां कल्पकोटिशतैरपि । न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा ॥ ४१॥ अतस्त्वत्पादयुगले भक्तिर्मे जन्मजन्मनि । स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या याभ्यां विनश्यति ॥ ४२॥ लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः । पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान् ॥ ४३॥ नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन । नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते ॥ ४४॥ देव यद्यत्कृतं पुण्यं मया लोकजिगीषया । तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते ॥ ४५॥ ततः प्रसन्नो भगवान् श्रीरामः करुणामयः । प्रसन्नोऽस्मि तव ब्रह्मन् यत्ते मनसि वर्तते ॥ ४६॥ दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् । ततः प्रीतेन मनसा भार्गवो राममब्रवीत् ॥ ४७॥ यदि मेऽनुग्रहो राम तवास्ति मधुसूदन । त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे ॥ ४८॥ स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा । त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव ॥ ४९॥ तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् । पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् ॥ ५०॥ राजा दशरथो हृष्टो रामं मृतमिवागतम् । आलिङ्ग्यालिङ्ग्य हर्षेण नेत्राभ्यां जलमुत्सृजत् ॥ ५१॥ ततः प्रीतेन मनसा स्वस्थचित्तः पुरं ययौ । रामलक्ष्मणशत्रुघ्नभरता देवसंमिताः ॥ ५२॥ स्वां स्वां भार्यामुपादाय रेमिरे स्वस्वमन्दिरे । मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः । रेमे वैकुण्ठभवने श्रिया सह यथा हरिः ॥ ५३॥ युधाजिन्नाम कैकेयीभ्राता भरतमातुलः । भरतं नेतुमागच्छत्स्वराज्यं प्रीतिसंयुतः ॥ ५४॥ प्रेषयामास भरतं राजा स्नेहसमन्वितः । शत्रुघ्नं चापि सम्पूज्य युधाजितमरिन्दमः ॥ ५५॥ कौसल्या शुशुभे देवी रामेण सह सीतया । देवमातेव पौलोम्या शच्या शक्रेण शोभना ॥ ५६॥ साकेते लोकनाथप्रथितगुणगणो लोकसङ्गीतकीर्तिः श्रीरामः सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः । नित्यश्रीर्निर्विकारो निरवधिविभवो नित्यमायानिरासो मायाकार्यानुसारी मनुज इव सदा भाति देवोऽखिलेशः ॥ ५७॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे सप्तमः सर्गः ॥ ७॥