श्री विप्रपत्नी कृत श्रीकृष्ण स्तोत्र हिंदी पाठ:Viprapatni Krita Krishna Stotra in Hindi
Viprapatni Krita Krishna Stotra:त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः ।
निर्गुणश्च निराकारः साकारस्सगुणः स्वयम् ॥ १ ॥
साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः ।
प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २ ॥
सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः स्मृताः ।
ते त्वदंशास्सर्वबीजाः ब्रह्मविष्णुमहेश्वराः॥ ३ ॥
यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर ।
महाविराण् महाविष्णुः त्वं तस्य जनको विभो ॥ ४ ॥
तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः ।
वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ॥ ५ ॥
महदादेस्सृष्टिसूत्रं पञ्चतन्मात्रमेव च ।
बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ ६ ॥
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयस्सदा ।
त्वमनीहः स्वयंज्योतिः सर्वानन्दस्सनातनः ॥ ७ ॥
अहो आकारहीनस्त्वं सर्वविग्रहवानपि ।
सर्वेन्द्रियाणां विषयं जानासि नेन्द्रियी भवान् ॥ ८ ॥
सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे ।
जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम् ॥ ९ ॥
पार्वती कमला राधा सावित्री वेदसूरपि ।
वेदश्च जडतां याति को वा शक्ता विपश्चितः ॥ १० ॥
वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वर ।
प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु ॥ ११ ॥
विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत् ।
स गतिं विप्रपत्नीनां लभते नात्र संशयः ॥ १२ ॥
॥ इति श्री विप्रपत्नी कृत श्रीकृष्ण स्तोत्र सम्पूर्णम् ॥
Shiva Panchakshara Nakshatramala Stotram:शिव पञ्चाक्षर नक्षत्रमाला स्तोत्रम्
शिव पञ्चाक्षर नक्षत्रमाला स्तोत्रम् हिंदी पाठ:Shiva Panchakshara Nakshatramala Stotram in Hindi श्रीमदात्मने गुणैकसिन्धवे नमः शिवायधामलेशधूतकोकबन्धवे नमः शिवाय ।नामशेषितानमद्भवान्धवे नमः शिवायपामरेतरप्रधानबन्धवे नमः…
Shiv Tandav Stotram:शिव तांडव स्तोत्र
Shiv Tandav Stotram: शिव तांडव स्तोत्र: शिव तांडव स्तोत्र का जाप करने से बहुत ज़्यादा शक्ति, ताकत और पॉजिटिविटी मिलती…
Shanishchar Stotra:श्री शनैश्चर स्तोत्र
Shanishchar Stotra: शनिश्चर स्तोत्र (श्री शनैश्चर स्तोत्र): हिंदू ज्योतिष के अनुसार शनि देव सबसे डरावना ग्रह है। हिंदू ज्योतिष में…