KARMASU

Lord Ganesha Mantra

Shri Mahaganapati Vajrapa njara Kavacham: श्रीमहागणपतिवज्रपञ्जरकवचम्

॥ पूर्वपीठिका ॥

महादेवि गणेशस्य वरदस्य महात्मनः ।
कवचं ते प्रवक्ष्यामि वज्रपञ्जरकाभिधम् ॥

॥ विनियोगः ॥

ॐ अस्य श्रीमहागणपतिवज्रपञ्जरकवचस्य श्रीभैरव ऋषिः,
गायत्रं छन्दः, श्रीमहागणपति देवता, गं बीजं, ह्रीं शक्तिः,
कुरु कुरु कीलकं, वज्रविद्यादिसिद्ध्यर्थे
महागणपतिवज्रपञ्जरकवचपाठे विनियोगः ॥

॥ ऋष्यादिन्यासः ॥

श्रीभैरवर्षये नमः शिरसि । गायत्रछन्दसे नमो मुखे ।
श्रीमहागणपतिदेवतायै नमो हृदि । गं बीजाय नमो गुह्ये ।
ह्रींशक्तये नमो नाभौ । कुरु कुरु कीलकाय नमः पादयोः ।
वज्रविद्यादिसिद्ध्यर्थे महागणपतिवज्रपञ्जरकवचपाठे
विनियोगाय नमः सर्वाङ्गे ॥


॥ करन्यासः ॥

गां अङ्गुष्ठाभ्यां नमः । गीं तर्जनीभ्यां नमः ।
गूं मध्यमाभ्यां नमः । गैं अनामिकाभ्यां नमः ।
गौं कनिष्ठिकाभ्यां नमः । गः करतलकरपृष्ठाभ्यां नमः ॥

॥ अङ्गन्यासः ॥

गां हृदयाय नमः । गीं शिरसे स्वाहा । गूं शिखायै वषट् ।
गैं कवचाय हुम् । गौं नेत्रत्रयाय वौषट् । गः अस्त्राय फट् ॥

॥ ध्यानम् ॥

विघ्नेशं विश्ववन्द्यं सुविपुलयशसं लोकरक्षाप्रदक्षं
साक्षात्सर्वापदासु प्रशमनसुमतिं पार्वतीप्राणसूनुम् ।
प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानं
कारुण्येनान्तरायामितभयशमनं विघ्नराजं नमामि ॥

॥ कवचपाठः ॥

ॐ श्रीं ह्रीं गं शिरः पातु महागणपतिः प्रभुः ।
विनायको ललाटं मे विघ्नराजो भ्रुवौ मम ॥ १॥

पातु नेत्रे गणाध्यक्षो नासिकां मे गजाननः ।
श्रुती मेऽवतु हेरम्बो गण्डौ मे मोदकाशनः ॥ २॥

द्वैमातुरो मुखं पातु चाधरौ पात्वरिन्दमः ।
दन्तान्ममैकदन्तोऽव्याद्वक्रतुण्डोऽवताद्रसाम् ॥ ३॥

गाङ्गेयो मे गलं पातु स्कन्धौ सिंहासनोऽवतु ।
विघ्नान्तको भुजौ पातु हस्तौ मूषकवाहनः ॥ ४॥

ऊरू ममावतान्नित्यं देवस्त्रिपुरघातनः ।
हृदयं मे कुमारोऽव्याज्जयन्तः पार्श्वयुग्मकम् ॥ ५॥

प्रद्युम्नो मेऽवतात्पृष्ठं नाभिं शङ्करनन्दनः ।
कटिं नन्दिगणः पातु शिश्नं विश्वेश्वरोऽवतु ॥ ६॥

मेढ्रे मेऽवतु सौभाग्यो भृङ्गिरीटी च गुह्यकम् ।
विराटकोऽवतादूरू जानू मे पुष्पदन्तकः ॥ ७॥

जङ्घे मम विकर्तोऽव्याद्गुल्फावन्त्यगणोऽवतु ।
पादौ चित्तगणः पातु पादाधो लोहितोऽवतु ॥ ८॥

पादपृष्ठं सुन्दरोऽव्यान्नूपुराढ्यो वपुर्मम ।
विचारो जठरं पातु भूतानि चोग्ररूपकः ॥ ९॥

शिरसः पादपर्यन्तं वपुः सप्तगणोऽवतु ।
पादादिमूर्धपर्यन्तं वपुः पातु विनर्तकः ॥ १०॥

विस्मारितं तु यत्स्थानं गणेशस्तत्सदाऽवतु ।
पूर्वे मां ह्रीं करालोऽव्यादाग्नेये विकरालकः ॥ ११॥

दक्षिणे पातु संहारो नैरृते रुरुभैरवः ।
पश्चिमे मां महाकालो वायौ कालाग्निभैरवः ॥ १२॥

उत्तरे मां सितास्योऽव्यादैशान्यामसितात्मकः ।
प्रभाते शतपत्रोऽव्यात्सहस्रारस्तु मध्यमे ॥ १३॥

दन्तमाला दिनान्तेऽव्यान्निशि पात्रं सदाऽवतु ।
कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा ।
सर्वत्र सर्वदा पातु शङ्खयुग्मं च मद्वपुः ॥ १४॥

ॐ ॐ राजकुले हौं हौं रणभये ह्रीं ह्रीं कुद्यूतेऽवतात्
श्रीं श्रीं शत्रुगृहे शौं शौं जलभये क्लीं क्लीं वनान्तेऽवतु ।
ग्लौं ग्लूं ग्लैं ग्लं गुं सत्त्वभीतिषु महाव्याध्यार्तिषु ग्लौं गं गौं
नित्यं यक्षपिशाचभूतफणिषु ग्लौं गं गणेशोऽवतु ॥ १५॥


॥ फलश्रुतिः ॥

इतीदं कवचं गुह्यं सर्वतन्त्रेषु गोपितम् ।
वज्रपञ्जरनामानं गणेशस्य महात्मनः ॥ १॥

अङ्गभूतं मनुमयं सर्वाचारैकसाधनम् ।
विनानेन न सिद्धिः स्यात्पूजनस्य जपस्य च ॥ २॥

तस्मात्तु कवचं पुण्यं पठेद्वा धारयेत्सदा ।
तस्य सिद्धिर्महादेवि करस्था पारलौकिकी ॥ ३॥

यं यं कामयते कामं तं तं प्राप्नोति पाठतः ।
अर्धरात्रे पठेन्नित्यं सर्वाभीष्टफलं लभेत् ॥ ४॥

इति गुह्यं सुकवचं महागणपतेः प्रियम् ।
सर्वसिद्धिमयं दिव्यं गोपयेत्परमेश्वरि ॥

॥ श्रीरुद्रयामले तन्त्रे श्रीमहागणपतिवज्रपञ्जरकवचं सम्पूर्णम् ॥

Mahaganapati

Leave a Reply

Your email address will not be published. Required fields are marked *