KARMASU

Utkalikavallarih

Shri Anuragavallih:श्रीअनुरागवल्लिः

Shri Anuragavallih:देहार्बुदानि भगवान्! युगपत्प्रयच्छ
वक्त्रार्बुदानि च पुनः प्रतिदेहमेव ।
जिह्वार्बुदानि कृपया प्रतिवक्त्रमेव
नृत्यन्तु तेषु तव नाथ! गुणार्बुदानि ॥ १॥

किमात्मना? यत्र न देहकोट्यो
देहेन किं? यत्र न वक्त्रकोट्यः ।
वक्त्रेण किं? यत्र न कोटिजिह्वाः
किं जिह्वया? यत्र न नामकोट्यः ॥ २॥

आत्मास्तु नित्यं शतदेहवर्ती
देहस्तु नाथास्तु सहस्रवक्त्रः ।
वक्त्रं सदा राजतु लक्षजिह्वं
गृह्णातु जिह्वा तव नामकोटिम् ॥ ३॥

यदा यदा माधव! यत्र यत्र
गायन्ति ये ये तव नामलीलाः ।
तत्रैव कर्णायुतधार्यमाणा
स्तास्ते सुधा नित्यमहं धयानि ॥ ४॥

कर्णायुतस्यैव भवन्तु लक्ष
कोट्यो रसज्ञा भगवंस्तदैव ।
येनैव लीलाः श‍ृणवानि नित्यं
तेनैव गायानि ततः सुखं मे ॥ ५॥

कर्णायुतस्येक्षटकोटिरस्या
हृत्कोटिरस्या रसनार्बुदं स्तात् ।
श्रुत्वैव दृष्ट्वा तव रूपसिन्धु
मालिङ्ग्य माधुर्यमहो! धयानि ॥ ६॥

नेत्रार्बुदस्यैव भवन्तु कर्ण
नासारसज्ञा हृदयार्बुदं वा ।
सौन्दर्यसौस्वर्यसुगन्धपूर
माधुर्यसंश्लेषरसानुभूत्यै ॥ ७॥

त्वत्पार्श्वगत्यै पदकोटिरस्तु
सेवां विधातुं मम हस्तकोटिः ।
तां शिक्षितुं स्तादपि बुद्धिकोटि
रेतान्वरान्मे भगवन्! प्रयच्छ ॥ ८॥

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीअनुरागवल्लिः समाप्ता ।

Leave a Reply

Your email address will not be published. Required fields are marked *