KARMASU

Krishnanamashtakam

Krishnachaitanya Dvadashanama Stotram:कृष्णचैतन्यद्वादशनामस्तोत्रम्

चैतन्यः कृष्णचैतन्यो गौराङ्गो द्विजनायकः ।
यतीनां दण्डिनां चैव न्यासिनां च शिरोमणिः ॥ १॥

रक्ताम्बरधरः श्रीमान् नवद्वीपसुधाकरः ।
प्रेमभक्तिप्रदश्चैव श्रीशचीनन्दनस्तथा ॥ २॥

द्वादशैतानि नामानि त्रीसन्ध्यं यः पठेन्नरः ।
तस्य वाञ्छासुसिद्धिः स्याद्भक्तिः श्रीलपदाम्बुजे ॥ ३॥

इति सार्वभौम भट्टाचार्यविरचितं
कृष्णचैतन्यद्वादशनामस्तोत्रं सम्पूर्णम् ।

Krishnachaitanya



Leave a Reply

Your email address will not be published. Required fields are marked *