KARMASU

Krishnacharitra

Krishna Chandra Ashtakam: कृष्णचन्द्राष्टकम्

Krishna Chandra: अम्बुदाञ्जनेन्द्रनीलनिन्दिकान्तिडम्बरः
कुङ्कुमोद्यदर्कविद्युदंशुदिव्यदम्बरः ।
श्रीमदङ्गचर्चितेन्दुपीतनाक्तचन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ १॥

गण्डताण्डवातिपण्डिताण्डजेशकुण्डल-
श्चन्द्रपद्मषण्डगर्वखण्डनस्यमण्डलः ।
बल्लवीषु वर्धितात्मगूढभावबन्धनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ २॥

नित्यनव्यरूपवेषहर्दकेलिचेष्टितः
केलिनर्मसार्मदायिमित्रवृन्दवेष्टितः ।
स्वीयकेलिकाननांशुनिर्जितेन्द्रनन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ३॥

प्रेमहेममण्डितात्मबन्धुताभिनन्दितः
क्सौणिलग्नभाललोकपालपालिवन्दितः ।
नित्यकालसृष्टविप्रगौरवालिवन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ४॥

लीलयेन्द्रकालियोष्णकंसवत्सघातक-
स्तत्तदात्मकेलिवृष्टिपुष्टभक्तचातकः ।
वीर्यशीललिलायात्मघोसवासिनन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ५॥

Shri Krishnachandrashtakam 2: श्रीकृष्णचन्द्राष्टकम् २


कुञ्जरासकेलिसीधुराधिकादितोषण-
स्तत्तदात्मकेलिनर्मतत्तदालिपोषणः ।
प्रेमशीलकेलिकीर्तिविश्वचित्तनन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ६॥

रासकेलिदर्शितात्मशुद्धभक्तिसत्पथः
स्वीयचित्ररूपवेषमन्मथलीमन्मथः ।
गोपीकसु नेत्रकोणभाववृन्दगन्धनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ७॥

पुष्पचायिराधिकाभिमर्षलब्धितर्षितः
प्रेमवाम्यराम्यराधिकास्यदृष्टिहर्षितः ।
राधिकोरसीह लेप एष हरिचन्दनः
स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ८॥

अष्टकेन यस्त्वनेन राधिकासुवल्लभं
संस्तवीति दर्शनेऽपि सिन्धुजादिदुर्लभम् ।
तं युनक्ति तुष्टचित्त एष घोषकानने
राधिकाङ्गसङ्गनन्दितात्मपादसेवने ॥ ९॥

इति कृष्णदासकविराजविरचितं कृष्णचन्द्राष्टकं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *