KARMASU

Dandakaranyamkrita

Ekadanta Stuti by Madasura: एकदन्तस्तुतिः मदासुरेण प्रोक्ता

॥ श्रीगणेशाय नमः ॥

गृत्समद उवाच –
मदासुरः प्रणम्यादौ परशुं यमसन्निभम् ।
तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ ८॥

मदासुर उवाच ।
नमस्ते एकदन्ताय मायामायिकरूपिणे ।
सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥

मूषकारूढरूपाय मूषकध्वजिने नमः ।
सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ १०॥

चतुर्बाहुधरायैव लम्बोदर सुरूपिणे ।
नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ११॥

चिन्तामणिधरायैव चित्तस्थाय गजानन ।
नानाभूषणयुक्ताय गणाधिपतये नमः ॥ १२॥

अनन्तविभवायैवानन्तमायाप्रचालक ।
भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १३॥

योगिनां योगदात्रे ते योगानां पतये नमः ।
योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥ १४॥


मायाकारं शरीरं त एकशब्दः प्रकथ्यते ।
दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ १५॥

मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा ।
कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ १६॥

शरणागतपालाय शरणागतवत्सल ।
पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥ १७॥

रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा ।
भक्तं भावेन सम्प्राप्तं संसारात्तारयस्व च ॥ १८॥

एवमुक्त्वा प्रणम्यापि मदः कृत्वा प्रदक्षिणाम् ।
कृताञ्जलिपुटो भूत्वा संस्थितो देवसन्निधौ ॥ १९॥

तमुवाच गणाधीशः प्रहृष्टेनान्तरात्मना ।
विकाररहितं दृष्ट्वा हृदयं भक्तिसंयुतम् ॥ २०॥


(फलश्रुतिः ।)
एकदन्त उवाच ।
त्वां हन्तुं क्रोधसंयुक्तो जातोऽहं नात्र संशयः ।
अधुना शरणं प्रेप्सुं न हन्मि शरणागतम् ॥ २१॥

मदाज्ञावशगो भूत्वा तिष्ठ स्थाने स्वके सदा ।
देवानां वैरमुत्सृज्य मद्भक्तिनिरतो भव ॥ २२॥

वरं वरय मत्तस्त्वं त्वया दास्यामि चिन्तितम् ।
विनयेन च सन्तुष्टः स्तोत्रेणाऽहं विशेषतः ॥ २३॥

त्वया कृतमिदं स्तोत्रं यः पठिष्यति दैत्यप ।
श‍ृणुयाद्वा प्रयत्नेन भवेत्तस्येप्सितप्रदम् ॥ २४॥

न तत्र मदसम्भूतं भयं भवति कर्हिचित् ।
अन्ते स्वानन्ददं तस्मै स्तोत्रं मद्भक्तिदं भवेत् ॥ २५॥

इति एकदन्तस्तुतिःमदासुरकृता द्वादशस्तोत्रं सम्पूर्णम् ॥

– ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ५४ । २.५४ ९-२५॥

Ekadanta Stuti

Leave a Reply

Your email address will not be published. Required fields are marked *