• Version
  • Download 415
  • File Size 0.00 KB
  • File Count 1
  • Create Date October 4, 2023
  • Last Updated October 4, 2023
कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे ।
जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ॥ १॥
मनोवेगाय उग्राय कालनेमिविदारिणे ।
लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ॥ २॥
महाबलाय शान्ताय दुर्दण्डीबन्धमोचन ।
मैरावणविनाशाय आञ्जनेयाय मङ्गलम् ॥ ३॥
पर्वतायुधहस्ताय राक्षःकुलविनाशिने ।
श्रीरामपादभक्ताय आञ्जनेयाय मङ्गलम् ॥ ४॥
विरक्ताय सुशीलाय रुद्रमूर्तिस्वरूपिणे ।
ऋषिभिस्सेवितायास्तु आञ्जनेयाय मङ्गलम् ॥ ५॥
दीर्घबालाय कालाय लङ्कापुरविदारिणे ।
लङ्कीणीदर्पनाशाय आञ्जनेयाय मङ्गलम् ॥ ६॥
नमस्तेऽस्तु ब्रह्मचारिन् नमस्ते वायुनन्दन । नमस्ते ब्रह्मचर्याय
नमस्ते गानलोलाय आञ्जनेयाय मङ्गलम् ॥ ७॥
प्रभवाय सुरेशाय शुभदाय शुभात्मने ।
वायुपुत्राय धीराय आञ्जनेयाय मङ्गलम् ॥ ८॥
आञ्जनेयाष्टकमिदं यः पठेत्सततं नरः ।
सिद्ध्यन्ति सर्वकार्याणि सर्वशत्रुविनाशनम् ॥ ९॥
इति श्रीआञ्जनेयमङ्गलाष्टकम् सम्पूर्णम् ।

Login is required to access this page

Leave a Reply

Your email address will not be published. Required fields are marked *