• Version
  • Download 996
  • File Size 0.00 KB
  • File Count 1
  • Create Date October 4, 2023
  • Last Updated July 29, 2024

ओं नमो वायुपुत्राय भीमरूपाय धीमते ।
नमस्ते रामदूताय कामरूपाय श्रीमते ॥ १ ॥

मोहशोकविनाशाय सीताशोकविनाशिने ।
भग्नाशोकवनायास्तु दग्धलङ्काय वाग्मिने ॥ २ ॥

गति निर्जितवाताय लक्ष्मणप्राणदाय च ।
वनौकसां वरिष्ठाय वशिने वनवासिने ॥ ३ ॥

तत्त्वज्ञान सुधासिन्धु निमग्नाय महीयसे ।
आञ्जनेयाय शूराय सुग्रीव सचिवाय ते ॥ ४ ॥

जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च ।
नेदिष्ठाय प्रेतभूत पिशाचभयहारिणे ॥ ५ ॥

यातना नाशनायास्तु नमो मर्कटरूपिणे ।
यक्ष राक्षस शार्दूल सर्पवृश्चिक भीहृते ॥ ६ ॥

महाबलाय वीराय चिरञ्जीविन उद्धते ।
हारिणे वज्रदेहाय चोल्लङ्घित महाब्दये ॥ ७ ॥

बलिनामग्रगण्याय नमो नः पाहि मारुते ।
लाभदोसि त्वमेवाशु हनुमान् राक्षसान्तकः ॥ ८ ॥

यशो जयं च मे देहि शतॄन् नाशयनाशय ।
स्वाश्रितानामभयदं य एवं स्तौति मारुतिम् ।
हानिः कुतो भवेत्तस्य सर्वत्र विजयी भवेत् ॥ ९ ॥


Download

Leave a Reply

Your email address will not be published. Required fields are marked *