• Version
  • Download 257
  • File Size 0.00 KB
  • File Count 1
  • Create Date October 30, 2023
  • Last Updated October 30, 2023

Chitrakavitavaanee

तत्र द्व्यक्षराणि रसासारसुसारोरुरसुरारिः ससार सः ।
संसारासिरसौ रासे सुरिरंसुः ससारसः ॥ १॥
चर्चोरुरोचिरुच्चोरा रुचिरोऽरं चराचरे ।
चौराचारोऽचिराच्चीरं रुचा चारुरचूचुरत् ॥चारुरचूचुरत् २॥
धरे धराधरधरं धाराधरधुरारुधम् ।धाराधरधुरारुधम्
धीरधीरारराधाधिरोधं राधा धुरन्धरम् ॥धुरन्धरम् ३॥
एकाक्षरम् -एकाक्षरम्
निनुन्नानेनोननं नूनं नानूनोन्नानननोऽनुनीः ।
नानेनानां निनुन्नेनं नानौन्नानाननो ननु ॥ ४॥
चक्रबन्धः गन्धाकृष्टगुरून्मदालिनि वने हारप्रभातिप्लुतं
सम्पुष्णन्तमुपस्कृताध्वनि यमीवीचिश्रियो रञ्जकम् ।रञ्जकम्
सद्यस्तुङ्गितविभ्रमं सुनिभृते शीतानिलैः सौख्यदे
देवं नागभुजं सदा रसमयं तं नौमि कञ्चिन् मुदेकञ्चिन् मुदे ॥ ५॥
सर्पबन्धः रासे सारङ्गसङ्घाचितनवनलिनप्रायवक्षःस्थदामा
बर्हालङ्कारहारस्फुरदमलमहारागचित्रे जयाय ।
गोपालो दासवीथीललितहितरवस्फारहासः स्थिरात्मा
नव्योऽजस्रं क्षणोपाश्रितविततबलो वीक्ष्य रङ्गं बभाषे ॥ ६॥
पद्मबन्धः कलवाक्य सदालोक कलोदार मिलावक ।
कवलाद्याद्भुतानूक कनूताभीरबालक ॥ ७॥


Download

Leave a Reply

Your email address will not be published. Required fields are marked *