Shri Parashuram Ashtottara-Shatanama Stotram : श्री परशुराम अष्टोत्तर-शतनाम स्तोत्रम्….
श्री परशुराम अष्टोत्तर-शतनाम स्तोत्रम् हिंदी पाठ : Shri Parashuram Ashtottara-Shatanama Stotram in Hindi रामो राजाटवीवह्नि रामचन्द्रप्रसादकः ।राजरक्तारुणस्नातो राजीवायतलोचनः ॥ १ ॥ रैणुकेयो रुद्रशिष्यो रेणुकाच्छेदनो रयी ।रणधूतमहासेनो रुद्राणीधर्मपुत्रकः ॥ २ ॥ राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमः ।राताखिलरसो रक्तकृतपैतृकतर्पणः ॥ ३ ॥ रत्नाकरकृतावासो Shatanama Stotram रतीशकृतविस्मयः ।रागहीनो रागदूरो रक्षितब्रह्मचर्यकः ॥ ४ ॥ राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवान् ।राजद्भृगुकुलाम्बोधिचन्द्रमा रञ्जितद्विजः ॥ ५ ॥ रक्तोपवीतो रक्ताक्षो रक्तलिप्तो रणोद्धतः ।रणत्कुठारो रविभूदण्डायित महाभुजः ॥ ६ ॥ रमानाधधनुर्धारी रमापतिकलामयः ।रमालयमहावक्षा रमानुजलसन्मुखः ॥ ७ ॥ रसैकमल्लो रसनाऽविषयोद्दण्ड पौरुषः ।रामनामश्रुतिस्रस्तक्षत्रियागर्भसञ्चयः ॥ ८ ॥ रोषानलमयाकारो रेणुकापुनराननः ।राधेयचातकाम्भोदो रुद्धचापकलापगः ॥ ९॥ राजीवचरणद्वन्द्वचिह्नपूतमहेन्द्रकः ।रामचन्द्रन्यस्ततेजा राजशब्दार्धनाशनः ॥ १० ॥ राद्धदेवद्विजव्रातो रोहिताश्वाननार्चितः ।रोहिताश्वदुराधर्षो रोहिताश्वप्रपावनः ॥ ११ ॥ रामनामप्रधानार्धो रत्नाकरगभीरधीः ।राजन्मौञ्जीसमाबद्ध सिंहमध्यो रविद्युतिः ॥ १२ ॥ रजताद्रिगुरुस्थानो रुद्राणीप्रेमभाजनम् ।रुद्रभक्तो रौद्रमूर्ती रुद्राधिकपराक्रमः ॥ १३ ॥ रविताराचिरस्थायी रक्तदेवर्षिभावनः ।रम्यो रम्यगुणो रक्तो रातभक्ताखिलेप्सितः ॥ १४ ॥ रचितस्वर्णसोपानो रन्धिताशयवासनः ।रुद्धप्राणादिसञ्चारो राजद्ब्रह्मपदस्थितः ॥ १५ ॥ रत्नसूनुमहाधीरो रसासुरशिखामणिः ।रक्तसिद्धी रम्यतपा राततीर्थाटनो रसी ॥ १६ ॥ रचितभ्रातृहननो रक्षितभातृको रणी ।राजापहृततातेष्टिधेन्वाहर्ता रसाप्रभुः ॥ १७ ॥ रक्षितब्राह्म्यसाम्राज्यो रौद्राणेयजयध्वजः ।राजकीर्तिमयच्छत्रो रोमहर्षणविक्रमः ॥ १८ ॥ राजशौर्यरसाम्भोधिकुम्भसम्भूतिसायकः ।रात्रिन्दिवसमाजाग्र त्प्रतापग्रीष्मभास्करः ॥ १९ ॥ राजबीजोदरक्षोणीपरित्यागी रसात्पतिः ।रसाभारहरो रस्यो राजीवजकृतक्षमः ॥ २० ॥ रुद्रमेरुधनुर्भङ्ग कृद्धात्मा रौद्रभूषणः ।रामचन्द्रमुखज्योत्स्नामृतक्षालितहृन्मलः ॥ २१ ॥ रामाभिन्नो रुद्रमयो Shatanama Stotram रामरुद्रो भयात्मकः ।रामपूजितपादाब्जो रामविद्वेषिकैतवः ॥ २२ ॥ रामानन्दो रामनामो रामो रामात्मनिर्भिदः ।रामप्रियो रामतृप्तो रामगो रामविश्रमः ॥ २३ ॥ रामज्ञानकुठारात्त राजलोकमहातमाः ।रामात्ममुक्तिदो रामो रामदो राममङ्गलः ॥ २४ ॥ मङ्गलं जामदग्न्याय Shatanama Stotram कार्तवीर्यार्जुनच्छिदे ।मङ्गलं परमोदार सदा परशुराम ते ॥ २५ ॥ मङ्गलं राजकालाय दुराधर्षाय मङ्गलं ।मङ्गलं महनीयाय जामदग्न्याय मङ्गलम् ॥ २६ ॥ जमदग्नि तनूजाय जिताखिलमहीभृते ।जाज्वल्यमानायुधाय जामदग्न्याय मङ्गलम् ॥ २७ ॥ ॥ इति श्री परशुराम अष्टोत्तर-शतनाम स्तोत्रम् सम्पूर्णम् ॥
Shri Parashuram Ashtottara-Shatanama Stotram : श्री परशुराम अष्टोत्तर-शतनाम स्तोत्रम्…. Read More »












KARMASU