
Devakikritam Shrikrishnastotram or Krishnajanmastutih: देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः
देवक्युवाच । रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ २४॥ नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु । व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यते शेषसंज्ञः ॥ २५॥ योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम् । निमेषादिर्वत्सरान्तो महीयां- स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६॥ मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान्निर्भयं नाध्यगच्छत् । त्वत्पादाब्जं प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति ॥ २७॥ स त्वं घोरादुग्रसेनात्मजान्न- स्त्राहि त्रस्तान् भृत्यवित्रासहासि । रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥ २८॥ जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन । समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ २९॥ उपसंहर विश्वात्मन्नदो रूपमलौकिकम् । शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३०॥ विश्वं यदेतत्स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान् । बिभर्ति सोऽयं मम गर्भगोऽभू- दहो नृलोकस्य विडम्बनं हि तत् ॥ ३१॥ इति श्रीमद्भागवते दशमस्कन्धे तृतीयाध्यायान्तर्गता देवकीकृता स्तुतिः समाप्ता । इति श्रीमद्भागवतमहापुराणे दशमस्कन्धे पूर्वार्धे तृतीयाध्यायान्तर्गतं देवकीकृतं श्रीकृष्णस्तोत्रं समाप्तम् । भागवतपुराण । अध्याय १०/३/२४-३१॥
