Ekadanta Stuti Mahavishnukrita: महाविष्णुकृता एकदन्तस्तुतिः
Ekadanta Stuti Mahavishnukrita: महाविष्णुकृता एकदन्तस्तुतिः॥ श्रीगणेशाय नमः ॥ श्रीमहाविष्णुरुवाच ।नमो गणपते तुभ्यं विघ्नराजाय ते नमः ।नमः कृपानिधे ढुण्ढे भक्तसंरक्षकाय ते ॥ ३७॥सिद्धिबुद्धिपते तुभ्यं नमस्ते विघ्नहारिणे ।अभक्तेभ्यः सदा विघ्नदात्रे हेरम्बरूपिणे ॥ ३८॥निर्गुणाय गुणानां वै चालकाय नमो नमः ।नमः प्रपञ्चरूपाय प्रपञ्चरहिताय ते ॥ ३९॥ब्रह्मभ्यो ब्रह्मदात्रे च ब्रह्मणे ब्रह्मरूपिणे ।नरकुञ्जररूपाय नानामायामयाय ते ॥ ४०॥ कारणानां च देवेश कारणाय नमो नमः ।ज्येष्ठराजाय वै तुभ्यं कारणै रहिताय च ॥ ४१॥योगिनां हृदि संस्थाय योगिभ्यो योगदायिने ।योगरूपधरायैव गणेशाय नमो नमः ॥ ४२॥मायाश्रयाय मायाया आधाराय नमो नमः ।मायिभ्यो मायया त्वं वै मोहदाता नमो नमः ॥ ४३॥त्वां स्तोतुं कः समर्थः स्याद्योगाकारेण वर्तसे ।यत्र वेदा विकुण्ठाश्च शास्त्रैः सर्वैः सहाङ्गकैः ॥ ४४॥मनोवाणीविहीनस्त्वं न हि देव कृपाकर ।मनोवाणीमयो नैव कथं त्वां स्तौमि विघ्नपम् ॥ ४५॥तथापि बुद्धिदाता त्वं त्वत्प्रसादेन संस्तुतः ।धन्योऽहं देवदेवेश तव दर्शनतोऽधुना ॥ ४६॥साक्षाद् दृष्ट्वा गणेशं त्वां तेनाहं ब्रह्मरूपकः ।जातो नास्त्यत्र सन्देहो योगीन्द्रो योगदायकः ॥ ४७॥इत्युक्त्वा तं प्रणम्याऽसौ त्वनृत्यद् भक्तिभावितः ।रोमाञ्चितशरीरश्च हर्षाश्रुभिरपिप्लुतः ॥ ४८॥ (फलश्रुतिः)एकदन्त उवाच ।तमुवाच गणाधीशो वरं वृणु जनार्दन ।तपसा भक्तिभावेन तुष्टो दास्यामि वाञ्छितम् ॥ ४९॥त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।भविष्यति नृणां विष्णो पठतां शृण्वतां सदा ॥ ५०॥धर्मार्थकाममोक्षाणां साधकं प्रभविष्यति ।ईप्सितार्थप्रदं सद्यः प्रसादान्मे च केशव ॥ ५१॥मुद्गल उवाच ।गणेशवचनं श्रुत्वा विष्णुर्हर्षसमन्वितः ।जगाद तं प्रणम्यादौ वाञ्छितं संवृणे त्विति ॥ ५२॥ विष्णुरुवाच ।यदि प्रसन्नतां यातस्तदा भक्तिं सुदुर्लभाम् ।तव पादयुगे देहि दृढामव्यभिचारिणीम् ॥ ५३॥अन्यद्देहि गणाधीश ज्ञानं मे ह्यतुलं तथा ।कीर्तिं सर्वत्र मे देहि सामर्थ्यं विविधं तथा ॥ ५४॥मधुकैटभनाशार्थमुपायं वद साम्प्रतम् ।अन्यदैत्याभिहनने सामर्थ्यं देहि विघ्नप ॥ ५५॥तस्य तद्वचनं श्रुत्वा तथेति गणपोऽब्रवीत् ।युद्धाय गच्छ देवेश दैत्यौ जेष्यसि तौ बलात् ॥ ५६॥तयोर्मरणमत्यन्त सुगुप्तं ब्रह्मणा कृतम् ।समये वरदानस्य तपसा तोषितेन च ॥ ५७॥ इति महाविष्णुकृता एकदन्तस्तुतिः सम्पूर्णा ॥ – ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ४ । २.४ ३७-५७॥
Ekadanta Stuti Mahavishnukrita: महाविष्णुकृता एकदन्तस्तुतिः Read More »

KARMASU