
Brahmakrita Ganapativandana:ब्रह्माकृता गणपतिवन्दना
(शिवरहस्यान्तर्गते ईशाख्ये) ब्रह्मोवाच । देवीसुतं करधृताङ्कुशपाशदीप्तं विघ्नाद्रिनाशकवरोदरनागबन्धम् । शुण्डाधृतोरुवरमोदकविघ्नसङ्घ- सन्नोदकं प्रणमताद्य गणाधिनाथम् ॥ २५॥ जगत्त्रयेऽपि सर्वत्र त्वं हि विश्वगणेश्वरः । सम्पूज्यः सर्वकार्येषु निर्विघ्नार्थं गजानन ॥ २६॥ त्वामादौ सर्वकार्येषु पूजयन्तु सुरासुराः । अनभ्यर्चयतां विघ्नं भवत्येव पदे पदे ॥ २७॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माकृता गणपतिवन्दना सम्पूर्णा ॥ – ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः १६ विधिसंविधानम् । २५-२७ ॥
