KARMASU

Utkalikavallarih

आनन्दस्तोत्रम्: Anandastotram

श्रीकृष्णः परमानन्दो गोविन्दो नन्दनन्दनः ।
तमालश्यामलरुचिः शिखण्डकृतशेखरः ॥ १॥

पीतकौशेयवसनो मधुरस्मितशोभितः ।
कन्दर्पकोटिलावण्यो वृन्दारण्यमहोत्सवः ॥ २॥

वैजयन्तीस्फुरद्वक्षाः कक्षात्तलगुडोत्तमः ।
कुञ्जापितरतिर्गुञ्जापुञ्जमञ्जुलकण्ठकः ॥ ३॥

कर्णिकाराढ्यकर्णश्रीधृतिस्वर्णाभवर्णकः ।
मुरलीवादनपटुर्वल्लवीकुलवल्लभः ॥ ४॥

गान्धर्वाप्तिमहापर्वा राधाराधनपेशलः ।
 इति श्रीकृष्णचन्द्रस्य नाम विंशतिसंज्ञितम् ॥ ५॥

आनन्दाख्यं महास्तोत्रं यः पठेच्छृणुयाच्च यः ।
स परं सौख्यमासाद्य कृष्णप्रेमसमन्वितः ॥ ६॥

सर्वलोकप्रियो भूत्वा सद्गुणावलिभूषितः ।
व्रजराजकुमारस्य सन्निकर्षमवाप्नुयात् ॥ ७॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीमहानन्दाख्यस्तोत्रं समाप्तम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *