अस्य श्रीसुब्रह्मण्यषडक्षरमहामन्त्रस्य, अगस्त्यः ऋषिः । अनुष्टुप्छन्दः, सुब्रह्मण्यो देवता, वं बीजं, नमः शक्तिः, वचद्भुवे कीलकम् । श्रीसुब्रह्मण्यप्रीत्यर्थे जपे विनियोगः ॥ करन्यासः - वां अङ्गुष्ठाभ्यां नमः । वीं तर्जनीभ्यां नमः । वूं मध्यमाभ्यां नमः । वैं अनामिकाभ्यां नमः । वौं कनिष्ठिकाभ्यां नमः । वः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ॥ अङ्गन्यासः - ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः । लमित्यादि पञ्चपूजा । जपसमर्पणम् ॥ ध्यानम् - सिन्धूरारुणमिन्दुकान्तिवदनं केयूरहारदिभिः दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्थसौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागांशुकं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ लमित्यादि पञ्चपूजा । ॐ वचद्भुवे नमः इति मन्त्रः । (१०८ वारं) सिद्धिक्रमः- लक्षमेकं जपेन्मन्त्रं साज्यान्नहविषा ततः । दशांशं जुहुयादन्ते ब्राह्मणानपि पूजयेत् ॥ पूजाक्रमः- धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे । पूजयेद्विधिना देवमुपचारैर्यथोदितैः ॥ केसरेष्वङ्गपूजा स्यात् । पत्रमध्येषु जयन्तं आग्निवेश्यं कृत्तिकापुत्रं भूतपतिं सेनान्यं गुहं हेमशूलं विशाखं शक्तिवज्रधरं च,दिग्दलेषु पूर्वादिषु देवसेनापतिं विद्यां मेधां वज्रं च, विदिग्दलेषु शक्तिकुक्कुटौ मयूरद्विपौ, पत्राद्येषु, तद्बाह्ये लोकेश्वरान् तदस्त्राणि च पूजयेत् ॥ पुष्ठ्यां संप्रीणयद्देवं स्वादुभिर्भक्ष्यभोज्यकैः । पूजयेद्देवताबुद्ध्या कुमारान्ब्रह्मचारिणः ॥ पूजितस्तु स देवोऽपि सन्तानं विजयं यशः । राज्ञामायुः श्रियं वीर्यं प्रदद्यात् साधकस्य तु । सुब्रह्मण्यः सुरार्चितः ॥ (मन्त्ररत्नमञ्जूषातः