Sri Krishna Manasa Puja Stotram: श्रीकृष्ण मानस पूजा स्तोत्रम् Leave a Comment / STOTRAM / By KARMASU TEAM श्रीकृष्ण मानस पूजा स्तोत्रम् हिंदी पाठ: Sri Krishna Manasa Puja Stotram in Hindi हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः,सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् । शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां,वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥ पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन्,मणिव्रातभ्राजत्कनकवरपीठं भज हरे । सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः,गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥ त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं,भजस्वेमं पञ्चामृतरचितमाप्लावमघहन् । द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं,जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥ तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण,प्रलम्बारिभ्रातः मृदुलमुपवीतं कुरु गले । ललाटे पाटीरं मृगमदयुतं धारय हरे,गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥ दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं,मुखं दीपेनेन्दुप्रभ विरजसं देव कलये । इमौ पाणी वाणीपतिनुत सुकर्पूररजसा,विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥ सदातृप्ताऽन्नं षड्रसवदखिलव्यञ्जनयुतं,सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् । यशोदासूनो तत् परमदययाऽशान सखिभिः,प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥ सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे,फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् । सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं,प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥ विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी –युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे । तव प्रादक्षिण्यक्रमणमघविद्ध्वंसि रचितं,चतुर्वारं विष्णो जनिपथगतिश्रान्तिद विभो (श्रान्तविदुषाम्) ॥ ८ ॥ नमस्कारोऽष्टाङ्गस्सकलदुरितध्वंसनपटुः,कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त सततम् (तत इयम्) । तव प्रीत्यै भूयादहमपि च दासस्तव विभो,कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥ सदा सेव्यः कृष्णस्सजलघननीलः करतले,दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् । कदाचित् कान्तानां कुचकलशपत्रालिरचना –समासक्तः स्निग्द्धैस्सह शिशुविहारं विरचयन् ॥ १० ॥ मणिकर्णीच्छया जातमिदं मानसपूजनम् ।यः कुर्वीतोषसि प्राज्ञः तस्य कृष्णः प्रसीदति ॥ ११ ॥ ॥ इति श्रीकृष्ण मानस पूजा स्तोत्रम् सम्पूर्णम् ॥