पार्वत्युवाच- कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम् । ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ १॥ त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः । नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ २॥ आश्चर्यमिदमाख्यानं जायते मयि शङ्कर । तत्प्राणेश महाप्राज्ञ संशयं छिन्धि मे प्रभो ॥ ३॥ श्रीमहादेव उवाच- धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे । रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ ४॥ स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ ५॥ दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् । इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ ६॥ धनरत्नौघमाणिक्यं तुरङ्गं च गजादिकम् । ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ ७॥ तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वावहिता प्रिये । योऽसौ निरञ्जनो देवः चित्स्वरूपी जनार्दनः ॥ ८॥ संसारसागरोत्तारकारणाय नृणाम् सदा । श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ ९॥ ततो लोका महामूढा विष्णुभक्तिविवर्जिताः । निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥ १०॥ निरञ्जनो निराकारो भक्तानां प्रीतिकामदः । वृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥ ११॥ मुरलीवादनाधारी राधायै प्रीतिमावहन् । अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ १२॥ श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः । धरणीरूपिणीमातृयशोदानन्ददायकः ॥ १३॥ द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः । ब्रह्मणाऽभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥ १४॥ जातोऽवन्यां मुकुन्दोऽपि मुरलोवेदरेचिका । तया सार्द्धं वचः कृत्वा ततो जातो महीतले ॥ १५॥ संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् । एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥ १६॥ गौरतेजो विना यस्तु श्यामतेजस्समर्चयेत् । जपेद्वा ध्यायते वापि स भवेत् पातकी शिवे ॥ १७॥ स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः । एतैर्दोषैर्विलिप्येत तेजोभेदान्महीश्वरि ॥ १८॥ तस्माज्ज्योतिरभूद् द्वेधा राधामाधवरूपकम् । तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥ १९॥ दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले । ततः पृष्टवती राधा सन्देहभेदमात्मनः ॥ २०॥ निरञ्जनात्समुत्पन्नं मयाऽधीतं जगन्मयि । श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ २१॥ ततो नारदतस्सर्वे विरला वैष्णवा जनाः । कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥ २२॥ शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि । ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ २३॥ पाठ करने की विधि ॐ अस्य श्रीगोपालसहस्रनामस्तोत्रमहामन्त्रस्य श्रीनारद ऋषिः । अनुष्टुप् छन्दः । श्रीगोपालो देवता । कामो बीजम् । माया शक्तिः । चन्द्रः कीलकम् श्रीकृष्णचन्द्र भक्तिरूपफलप्राप्तये श्रीगोपालसहस्रनामस्तोत्रजपे विनियोगः । या इसतरह करें पाठ ॐ ऐं क्लीं बीजम् । श्रीं ह्रीं शक्तिः । श्रीवृन्दावननिवासः कीलकम् । श्रीराधाप्रियपरब्रह्मेति मन्त्रः । धर्मादिचतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥ अथ करादिन्यासः ॐ क्लां अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः ॥ ॐ क्लूं मध्यमाभ्यां नमः ॥ ॐ क्लैं अनामिकाभ्यां नमः ॥ ॐ क्लौं कनिष्टिकाभ्यां नमः ॥ ॐ क्लः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः ॐ क्लां हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा ॥ ॐ क्लूं शिखायै वषट् ॥ ॐ क्लैं कवचाय हुं ॥ ॐ क्लौं नेत्रत्रयाय वौषट् ॥ ॐ क्लः अस्त्राय फट् ॥ अथ ध्यानम् कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रेवरमौक्तिकं करतले वेणुं करे कङ्कणम् ॥ सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलिम् गोपस्त्रीपरिवेष्टितो विजयते गोपालचूड़ामणिः ॥ १॥ फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ॥ गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ २॥ सहस्रनाम स्तोत्र आरम्भ- ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः । श्रीगोपालो महीपालो सर्ववेदान्तपारगः ॥ १॥ var सर्ववेदाङ्गपारगः कृष्णः कमलपत्राक्षः पुण्डरीकः सनातनः । var धरणीपालकोधन्यः गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः ॥ २॥ आदिकर्ता महाकर्ता महाकालः प्रतापवान् । जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥ ३॥ मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् । नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥ ४॥ गोकुलेन्द्रो महीचन्द्रः शर्वरीप्रियकारकः । कमलामुखलोलाक्षः पुण्डरीकः शुभावहः ॥ ५॥ दुर्वासाः कपिलो भौमः सिन्धुसागरसङ्गमः । गोविन्दो गोपतिर्गोपः कालिन्दीप्रेमपूरकः ॥ ६॥ गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः । नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥ ७॥ सर्वमङ्गलदाता च सर्वकामप्रदायकः । आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥ ८॥ गजगामी गजोद्धारी कामी कामकलानिधिः । कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥ ९॥ मालाकारः कृपाकारः कोकिलस्वरभूषणः । रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥ १०॥ सहस्राक्षपुरीभेत्ता महामारीविनाशनः । शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥ ११॥ कुमारीवरदायी च वरेण्यो मीनकेतनः । नरो नारायणो धीरो राधापतिरुदारधीः ॥ १२॥ श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा । वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः ॥ १३॥ रेवतीरमणो रामः प्रियश्चञ्चललोचनः । रामायणशरीरोऽयं रामो रामः श्रियःपतिः ॥ १४॥ शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः । राधाराधयिताराधी राधाचित्तप्रमोदकः ॥ १५॥ राधारतिसुखोपेतः राधामोहनतत्परः । राधावशीकरो राधाहृदयाम्भोजषट्पदः ॥ १६॥ राधालिङ्गनसम्मोहः राधानर्तनकौतुकः । राधासञ्जातसम्प्रीतो राधाकाम्यफलप्रदः ॥ १७॥ वृन्दापतिः कोशनिधिः कोकशोकविनाशनः । चन्द्रापतिः चन्द्रपतिः चण्डकोदण्डभञ्जनः ॥ १८॥ रामो दाशरथी रामः भृगुवंशसमुद्भवः । आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥ १९॥ वृषभानुभवो भावः काश्यपिः करुणानिधिः । कोलाहलो हली हाली हेली हलधरप्रियः ॥ २०॥ राधामुखाब्जमार्ताण्डः भास्करो रविजा विधुः । विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ २१॥ रोहिणीहृदयानन्दो वसुदेवात्मजो बली । नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥ २२॥ नागो नवाम्भो विरुदो वीरहा वरदो बली । गोपथो विजयी विद्वान् शिपिविष्टः सनातनः ॥ २३॥ परशुरामवचोग्राही वरग्राही शृगालहा । दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥ २४॥ वीरपत्नीयशस्त्राता जराव्याधिविघातकः । द्वारकावासतत्त्वज्ञः हुताशनवरप्रदः ॥ २५॥ यमुनावेगसंहारी नीलाम्बरधरः प्रभुः । विभुः शरासनो धन्वी गणेशो गणनायकः ॥ २६॥ लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः । वामनो वामनीभूतोऽवामनो वामनारुहः ॥ २७॥ यशोदानन्दनः कर्त्ता यमलार्जुनमुक्तिदः । उलूखली महामानी दामबद्धाह्वयी शमी ॥ २८॥ भक्तानुकारी भगवान् केशवो बलधारकः । केशिहा मधुहा मोही वृषासुरविघातकः ॥ २९॥ अघासुरविनाशी च पूतनामोक्षदायकः । कुब्जाविनोदी भगवान् कंसमृत्युर्महामखी ॥ ३०। अश्वमेधो वाजपेयो गोमेधो नरमेधवान् । कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥ ३१॥ रविकोटिप्रतीकाशो वायुकोटिमहाबलः । ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥ ३२॥ कमला कमलाक्षश्च कमलामुखलोलुपः । कमलाव्रतधारी च कमलाभः पुरन्दरः ॥ ३३॥ सौभाग्याधिकचित्तोऽयं महामायी मदोत्कटः । तारकारिः सुरत्राता मारीचक्षोभकारकः ॥ ३४॥ विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः । लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥ ३५॥ सीतानन्दकरो रामो वीरो वारिधिबन्धनः । खरदूषणसंहारी साकेतपुरवासवान् ॥ ३६॥ चन्द्रावलीपतिः कूलः केशिकंसवधोऽमलः । माधवो मधुहा माध्वी माध्वीको माधवो विधुः ॥ ३७॥ मुञ्जाटवीगाहमानः धेनुकारिर्धरात्मजः । वंशीवटविहारी च गोवर्धनवनाश्रयः ॥ ३८॥ तथा तालवनोद्देशी भाण्डीरवनशङ्खहा । तृणावर्तकृपाकारी वृषभानुसुतापतिः ॥ ३९॥ राधाप्राणसमो राधावदनाब्जमधुव्रतः । गोपीरञ्जनदैवज्ञः लीलाकमलपूजितः ॥ ४०॥ क्रीडाकमलसन्दोहः गोपिकाप्रीतिरञ्जनः । रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥ ४१॥ कामः कामारिभक्तोऽयं पुराणपुरुषः कविः । नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥ ४२॥ अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः । ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥ ४३॥ पद्मनाभः सुरज्येष्ठी ब्रह्मा रुद्रोऽहिभूषितः । गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥ ४४॥ गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः । यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥ ४५॥ भ्रमरः कुन्तली कुन्तीसुतरक्षो महामखी । यमुनावरदाता च काश्यपस्य वरप्रदः ॥ ४६॥ शङ्खचूडवधोद्दामो गोपीरक्षणतत्परः । पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥ ४७॥ फाल्गुनः फाल्गुनसखो विराधवधकारकः । रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥ ४८॥ कल्पवृक्षो महावृक्षः दानवृक्षो महाफलः । अङ्कुशो भूसुरो भावो भ्रामको भामको हरिः ॥ ४९॥ सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः । प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥ ५०॥ महाधनी महावीरो वनमालाविभूषणः । तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥ ५१॥ शूरः सूर्यो मृतण्डश्च भास्करो विश्वपूजितः । रविस्तमोहा वह्निश्च बाडवो वडवानलः ॥ ५२॥ दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः । गोपीनाथो महानाथो वृन्दानाथोऽविरोधकः ॥ ५३॥ प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः । गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥ ५४॥ कावेरी नर्मदा ताप्ती गण्डकी सरयूस्तथा । राजसस्तामसस्सत्त्वी सर्वाङ्गी सर्वलोचनः ॥ ५५॥ सुधामयोऽमृतमयो योगिनीवल्लभः शिवः । बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥ ५६॥ वंशी वंशधरो लोकः विलोको मोहनाशनः । रवरावो रवो रावो बलो बालबलाहकः ॥ ५७॥ शिवो रुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः । पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥ ५८॥ मोहिनीमोहनो मायी महामायो महामखी । वृषो वृषाकपिः कालः कालीदमनकारकः ॥ ५९॥ कुब्जाभाग्यप्रदो वीरः रजकक्षयकारकः । कोमलो वारुणो राजा जलजो जलधारकः ॥ ६०॥ हारकः सर्वपापघ्नः परमेष्ठी पितामहः । खड्गधारी कृपाकारी राधारमणसुन्दरः ॥ ६१॥ द्वादशारण्यसम्भोगी शेषनागफणालयः । कामः श्यामः सुखश्रीदः श्रीपतिः श्रीनिधिः कृती ॥ ६२॥ हरिर्नारायणो नारो नरोत्तम इषुप्रियः । गोपालीचित्तहर्ता च कर्त्ता संसारतारकः ॥ ६३॥ आदिदेवो महादेवो गौरीगुरुरनाश्रयः । साधुर्मधुर्विधुर्धाता त्राताऽक्रूरपरायणः ॥ ६४॥ रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः । वनं वनी वनाध्यक्षः महावन्द्यो महामुनिः ॥ ६५॥ स्यामन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः । गोवर्द्धनो वर्द्धनीयः वर्द्धनो वर्द्धनप्रियः ॥ ६६॥ वर्द्धन्यो वर्द्धनो वर्द्धी वार्द्धिष्णुः सुमुखप्रियः । वर्द्धितो वृद्धको वृद्धो वृन्दारकजनप्रियः ॥ ६७॥ गोपालरमणीभर्ता साम्बकुष्ठविनाशकः । रुक्मिणीहरणः प्रेमप्रेमी चन्द्रावलीपतिः ॥ ६८॥ श्रीकर्ता विश्वभर्ता च नरो नारायणो बली । गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥ ६९॥ व्यासो नारायणो दिव्यो भव्यो भावुकधारकः । श्वःश्रेयसं शिवं भद्रं भावुकं भाविकं शुभम् ॥ ७०॥ शुभात्मकः शुभः शास्ता प्रशास्ता मेघानादहा । ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥ ७१॥ कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः । कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः ॥ ७२॥ नन्दो नन्दी महानन्दी मादी मादनकः किली । मिली हिली गिली गोली गोलो गोलालयो गुली ॥ ७३॥ गुग्गुली मारकी शाखी वटः पिप्पलकः कृती । म्लेच्छहा कालहर्त्ता च यशोदायश एव च ॥ ७४॥ अच्युतः केशवो विष्णुः हरिः सत्यो जनार्दनः । हंसो नारायणो लीलो नीलो भक्तिपरायणः ॥ ७५॥ जानकीवल्लभो रामः विरामो विघ्ननाशनः । सहभानुर्महाभानुः वीरबाहुर्महोदधिः ॥ ७६॥ समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः । गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥ ७७॥ सदारामः कृपारामः महारामो धनुर्धरः । पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ ७८॥ कम्बलाश्वतरो रामो रामायणप्रवर्तकः । द्यौर्दिवो दिवसो दिव्यो भव्यो भावि भयापहः ॥ ७९॥ पार्वतीभाग्यसहितो भर्ता लक्ष्मीविलासवान् । विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥ ८०॥ मुरारिर्लोकधर्मज्ञः जीवनो जीवनान्तकः । यमो यमादियमनो यामी यामविधायकः ॥ ८१॥ वसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः । ललिता चन्द्रिकामाली माली मालाम्बुजाश्रयः ॥ ८२॥ अम्बुजाक्षो महायज्ञः दक्षः चिन्तामणिः प्रभुः । मणिर्दिनमणिश्चैव केदारो बदरीश्रयः ॥ ८३॥ बदरीवनसम्प्रीतः व्यासः सत्यवतीसुतः । अमरारिनिहन्ता च सुधासिन्धुविधूदयः ॥ ८४॥ चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः । श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥ ८५॥ श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः । वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥ ८६॥ नारायणः परं धाम देवदेवो महेश्वरः । चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥ ८७॥ भगवान् सर्वभूतेशो गोपालः सर्वपालकः । अनन्तो निर्गुणो नित्यो निर्विकल्पो निरञ्जनः ॥ ८८॥ निराधारो निराकारः निराभासो निराश्रयः । पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥ ८९॥ क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः । विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥ ९०॥ देवकीगर्भसम्भूतो यशोदावत्सलो हरिः । शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥ ९१॥ अव्ययः सर्वधर्मज्ञः निर्मलो निरुपद्रवः । निर्वाणनायको नित्यो नीलजीमूतसन्निभः ॥ ९२॥ कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः । हृषीकेशः पीतवासा वसुदेवप्रियात्मजः ॥ ९३॥ नन्दगोपकुमारार्यः नवनीताशनो विभुः । पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः ॥ ९४॥ अनिरुद्धश्चक्ररथः शार्ङ्गपाणिश्चतुर्भुजः । गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥ ९५॥ वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः । तृणावर्तान्तको भीमसाहसी बहुविक्रमः ॥ ९६॥ शकटासुरसंहारी बकासुरविनाशनः । धेनुकासुरसंहारी पूतनारिर्नृकेसरी ॥ ९७॥ पितामहो गुरुस्साक्षात् प्रत्यगात्मा सदाशिवः । अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्द्धनः ॥ ९८॥ धन्यो मान्यो भवो भावो धीरः शान्तो जगद्गुरुः । अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवसंस्तुतः ॥ ९९॥ क्षीराब्धिशयनो धाता लक्ष्मीवांल्लक्ष्मणाग्रजः । धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥ १००॥ लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः । कोटिमन्मथसौन्दर्यः जगन्मोहनविग्रहः ॥ १०१॥ मन्दस्मिताननो गोपो गोपिकापरिवेष्टितः । फुल्लारविन्दनयनः चाणूरान्ध्रनिषूदनः ॥ १०२॥ इन्दीवरदलश्यामो बर्हिबर्हावतंसकः । मुरलीनिनदाह्लादः दिव्यमाल्याम्बरावृतः ॥ १०३॥ सुकपोलयुगः सुभ्रूयुगलः सुललाटकः । कम्बुग्रीवो विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥ १०४॥ पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः । कलङ्करहितः शुद्धः दुष्टशत्रुनिबर्हणः ॥ १०५॥ किरीटकुण्डलधरः कटकाङ्गदमण्डितः । मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥ १०६॥ मञ्जीररञ्जितपदः सर्वाभरणभूषितः । विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥ १०७॥ गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः । समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥ १०८॥ यमुनातीरसञ्चारी राधामन्मथवैभवः । गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥ १०९॥ शृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम् । सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥ ११०॥ नरकासुरसंहारी मुरारिररिमर्दनः । आदितेयप्रियो दैत्यभीकरो यदुशेखरः ॥ १११॥ जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः । पुण्यश्लोकः कीर्तनीयः यादवेन्द्रो जगन्नुतः ॥ ११२॥ रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः । मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥ ११३॥ सुधाकरकुले जातोऽनन्तप्रबलविक्रमः । सर्वसौभाग्यसम्पन्नो द्वारकापत्तने स्थितः ॥ ११४॥ भद्रासूर्यसुतानाथो लीलामानुषविग्रहः । सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥ ११५॥ वेदान्तवेद्यः संवेद्यो वैद्यो ब्रह्माण्डनायकः । गोवर्द्धनधरो नाथः सर्वजीवदयापरः ॥ ११६॥ मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः । सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥ ११७॥ षड्गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः । महानुभावः कैवल्यदायको लोकनायकः ॥ ११८॥ आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः । असमानः समस्तात्मा शरणागतवत्सलः ॥ ११९॥ उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् । गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥ १२०॥ विष्वक्सेनः सत्यसन्धः सत्यवाक् सत्यविक्रमः । सत्यव्रतः सत्यरतः सर्वधर्मपरायणः ॥ १२१॥ आपन्नार्तिप्रशमनः द्रौपदीमानरक्षकः । कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥ १२२॥ भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः । दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥ १२३॥ भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः । कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥ १२४॥ नारसिंहो महावीरः स्तम्भजातो महाबलः । प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥ १२५॥ उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः । गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥ १२६॥ शेषपर्यङ्कशयनः वैनतेयरथो जयी । अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥ १२७॥ योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः । योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥ १२८॥ नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः । सुषुम्नामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥ १२९॥ देहेन्द्रियमनःप्राणसाक्षी चेतःप्रसादकः । सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥ १३०॥ तत्त्वत्रयात्मकोऽव्यक्तः कुण्डली समुपाश्रितः । ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥ १३१॥ श्रीनिवासः सदानन्दः विश्वमूर्तिर्महाप्रभुः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १३२॥ समस्तभुवनाधारः समस्तप्राणरक्षकः । समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः ॥ १३३॥ नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलः । व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥ १३४॥ पूर्णानन्दघनीभूतः गोपवेषधरो हरिः । कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥ १३५॥ गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः । वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥ १३६॥ बालक्रीडासमासक्तो नवनीतस्य तस्करः । गोपालकामिनीजारश्चौरजारशिखामणिः ॥ १३७॥ परञ्ज्योतिः पराकाशः परावासः परिस्फुटः । अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥ १३८॥ सप्तकोटिमहामन्त्रशेखरो देवशेखरः । विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥ १३९॥ भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः । भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः ॥ १४०॥ भक्ताधीनमनाः पूज्यः भक्तलोकशिवङ्करः । भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः ॥ १४१॥ अपारकरुणासिन्धुर्भगवान् भक्ततत्परः ॥ १४२॥ ॥ इति गोपाल सहस्रनामस्तोत्रम् सम्पूर्णम् ॥ फलश्रुतिः (॥ गोपालसहस्रनाम माहात्म्यम् ॥) स्मरणात् पापराशीनां खण्डनं मृत्युनाशनम् ॥ १ ॥ वैष्णवानां प्रियकरं महारोगनिवारणम् । ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥ २ ॥ परद्रव्यापहरणं परद्वेषसमन्वितम् । मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥ ३ ॥ सहस्रनामपठनात् सर्वं नश्यति तत्क्षणात् । महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान् ॥ ४ ॥ कार्तिक्यां सम्पठेद्रात्रौ शतमष्टोत्तरं क्रमात् । पीताम्बरधरो धीमान् सुगन्धैः पुष्पचन्दनैः ॥ ५ ॥ पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च । राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥ ६ ॥ शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् । चैत्रशुक्ले च कृष्णे च कुहूसङ्क्रान्तिवासरे ॥ ७ ॥ पठितव्यं प्रयत्नेन त्रैलोक्यं मोहयेत् क्षणात् । तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥ ८ ॥ रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे । ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥ ९ ॥ पठेन्नामसहस्रं च ततः सिद्धिः प्रजायते । महानिशायां सततं वैष्णवो यः पठेत् सदा ॥ १० ॥ देशान्तरगता लक्ष्मीः समायाति न संशयः । त्रैलोक्ये च महादेवि सुन्दर्यः काममोहिताः ॥ ११ ॥ मुग्धाः स्वयं समायान्ति वैष्णवं च भजन्ति ताः । रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ १२॥ गुर्विणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम् । var गर्भिणी राजानो वश्यतां यान्ति किं पुनः क्षुद्रमानवाः ॥ १३॥ सहस्रनामश्रवणात् पठनात् पूजनात् प्रिये । धारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः ॥ १४॥ वंशीवटे चान्यवटे तथा पिप्पलकेऽथ वा । कदम्बपादपतले गोपालमूर्तिसंनिधौ ॥ १५। यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् । कृष्णेनोक्तं राधिकायै मया प्रोक्तं तथा शिवे ॥ १६॥ नारदाय मया प्रोक्तं नारदेन प्रकाशितम् । मया तुभ्यं वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥ १७॥ गोपनीयं प्रयत्नेन न प्रकाश्यं कथंचन । शठाय पापिने चैव लम्पटाय विशेषतः ॥ १८॥ न दातव्यं न दातव्यं न दातव्यं कदाचन । देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥ १९॥ गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च । अश्वमेधसहस्रस्य फलं पाठे भवेत् ध्रुवम् ॥ २०॥ मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम् । यद्यद्वाञ्छति चित्तेन तत्तत्प्राप्नोति वैष्णवः ॥ २१॥ एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः । आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥ २२॥ तत आरम्भकर्तास्य सर्वं प्राप्नोति मानवः । शतावृत्तं सहस्रं च यः पठेद्वैष्णवो जनः ॥ २३॥ श्रीवृन्दावनचन्द्रस्य प्रसादात्सर्वमाप्नुयात् । यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ २४॥ न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् । सर्पाद्या भूतयक्षाद्या नश्यन्ते नात्र संशयः ॥ २५॥ श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा । गृहे यत्र सहस्रं च नाम्नां तिष्ठति पूजितम् ॥ २६॥ ॥ ॐ तत्सदिति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे गोपालसहस्रनामस्तोत्रं सम्पूर्णम् ॥ श्रीराधारमणः कृष्णः गुणरत्नैस्सुगुम्फिताम् । स्वीकृत्येमां मितां मालां स नो विष्णुः प्रसीदतु ॥ Addendum for prayers श्री गोपालसहस्रनाम शापविमोचनमहामन्त्रम् ॐ अस्य श्रीगोपालसहस्रनाम शापविमोचनमहामन्त्रस्य वामदेवऋषिः । श्रीगोपालो देवता पङ्क्तिः छन्दः । श्री सदाशिववाक्य शापविमोचनार्थं जपे विनियोगः । ऋष्यादिन्यासः वामदेव ऋषये नमः शिरसि । गोपाल देवतायै नमः हृदये । पङ्क्ति छन्दसे नमः मुखे । सदाशिववाक्य शापविमुक्त्यर्थं नमः सर्वाङ्गे ॥ अथ करादिन्यासः ॐ ऐं अङ्गुष्ठाभ्यां नमः ॥ ॐ क्लीं तर्जनीभ्यां नमः ॥ ॐ ह्रीं मध्यमाभ्यां नमः ॥ ॐ श्रीं अनामिकाभ्यां नमः ॥ ॐ वामदेवाय कनिष्ठिकाभ्यां नमः ॥ ॐ नमः स्वाहा करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः ॐ ऐं हृदयाय नमः ॥ ॐ क्लीं शिरसि स्वाहा ॥ ॐ ह्रीं शिखायै वषट् ॥ ॐ श्रीं कवचाय हुम् ॥ ॐ वामदेवाय नेत्रस्त्रयाय वौषट् ॥ ॐ नमः स्वाहा अस्त्राय फट् ॥ अथ ध्यानम् ॐ ध्यायेद्देवं गुणातीतं पीतकौशेयवाससम् । प्रसन्नं चारुवदनं च निर्गुणं श्रीपतिं प्रभुम् ॥ मन्त्रः ॐ ऐं क्लीं ह्रीं श्रीं वामदेवाय नमः (स्वाहा)।