अस्य श्रीसुब्रह्मण्यमहामन्त्रस्य, ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीसुब्रह्मण्यो देवता । शरजन्मा अक्षयो बीजम् । शक्तिधरोऽक्षयः कार्तिकेयः शक्तिः । क्रौञ्चधरः कीलकम् । शिखिवाहनः कवचम् । सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः - अं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने नमः संहृतायेष्टचित्तात्मने भास्वरूपाय - अङ्गुष्टाभ्यां नमः । ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय - तर्जनीभ्यां नमः । ॐ हं षण्मुखशरजन्मने । शुभलक्षणाय, शिखिवाहनाय - मध्यमाभ्यां नमः । ॐ णं कृशानुसम्भवाय कविचने कुक्कुटध्वजाय - अनामिकाभ्यां नमः । ॐ भं कन्दपकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय - कनिष्ठिकाभ्यां नमः । ॐ वं खेटधराय खड्गिने शक्तिहस्ताय - करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः - ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः । ध्यानं- वन्दे षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् । कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं काञ्चीकङ्कणकिङ्किणीरवयुतं शृङ्गारसारोदयम् ॥ ध्यायामीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् । वज्रं शक्तिमसिं च शूलमभयं दोर्भिधृतं षण्मुखं ध्यायेच्चित्तमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ (मूलमन्त्रः) ॐ ह्रीं श्रीं क्लीं औं सौः शरहणभवरहणभवश - हणभवशर - णभवशरह - भवशरहण - वशरहणभ कर-हृदयादिन्यासः । दिग्विमोकः । ध्यानम् । लमित्यादि पञ्चपूजा । (Taking the above 6 names, - a) AnguShThAbhyAM namaH, b) Hrdayaaya namaH) जपसमर्पणम् ।