अस्य श्रीसुब्रह्मण्यपञ्चदशाक्षरमहामन्त्रस्य,
ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीसुब्रह्मण्यो देवता ।
ॐ श्रीं ह्रीं क्लीं इति बीजम् । शरवणभव इति शक्तिः ।
ॐ ऐं ईं नं ळं सौः इति कीलकम् ।
श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
     करन्यासः        -    हृदयादि न्यासः
(१) ॐ श्रीं ह्रीं क्लीं - अङ्गुष्ठाभ्यां नमः  -  हृदयाय नमः ।
(२) ॐ ऐं ईं नं ळं सौः - तर्जनीभ्यां नमः - शिरसे स्वाहा ।
(३) शरवणभव      - मध्यमाभ्यां नमः - शिखायै वषट् ।
(४) ॐ श्रीं ह्रीं क्लीं  - अनामिकाभ्यां नमः - कवचाय हुं ।
(५) ऐं ईं नं ळं सौः  -   कनिष्ठिकाभ्यां नमः - नेत्रत्रयाय वौषट् ।
(६) शरवणभव - करतलकरपृष्ठाभ्यां नमः - अस्त्राय फट् ।
इति करन्यासाङ्गन्यासौ । भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम्-
सिन्दूरारुणमिन्दुपद्मजयिभिः षड्भिर्मुखैर्भासितं
     कारुण्यामृतपूरसुन्दरतरैर्भान्तं द्विषल्लोचनैः ।
बिभ्राणं वरमब्जयुग्ममभयं शक्तिद्वयं कार्मुकं
     खड्गं चर्म पृषत्कमङ्कुशगदे वल्लीशमीक्षे हृदि ॥

(लमित्यादि पञ्चपूजा - लं पृथिव्यात्मने....... as above)
मूलमन्त्रः -  ॐ श्रीं ह्रीं क्लीं, ऐं ईं नं ळं सौं, शरवणभव ।
(१०८ वारं - 108 times)
(अङ्गन्यासाः .... भूर्भुवस्सुवरोमिति दिग्विमोकः, ध्यानं -  as above)
लमित्यादिपञ्चोपचारपूजा -
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं अग्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ।
मूलमन्त्रः- ॐ ह्रीं ऐं क्लीं ॐ ह्सौं शरवणभव ॥

जपान्ते पुनर्हृदयाद्यङ् ।
जपसमर्पणम् ।

इति श्रीसुब्रह्मण्यपञ्चदशाक्षरमन्त्रः सम्पूर्णः ।

Leave a Reply

Your email address will not be published. Required fields are marked *

अपने जीवन को साकार करें उपनिषद पढ़कर 60 से भी अधिक उपनिषद PDF