रामं विश्वमयं वन्दे रामं वन्दे रघूद्वहम् । रामं विप्रवरं वन्दे रामं श्यामाग्रजं भजे ॥ यस्य वागंशुतश्च्युतं रम्यं रामायणामृतम् । शैलजासेवितं वन्दे तं शिवं सोमरूपिणम् ॥ सच्चिदानन्दसन्दोहं भक्तिभूतिविभूषणम् । पूर्णानन्दमहं वन्दे सद्गुरुं शङ्करं स्वयम् ॥ अज्ञानध्वान्तसंहर्त्री ज्ञानलोकविलासिनी । चन्द्रचूडवचश्चन्द्रचन्द्रिकेयं विराजते ॥ अप्रमेयत्रयातीतनिर्मलज्ञानमूर्तये । मनोगिरां विदूराय दक्षिणामूर्तये नमः ॥ १॥ सूत उवाच । कदाचिन्नारदो योगी परानुग्रहवाञ्छया । पर्यटन् सकलान् लोकान् सत्यलोकमुपागमत् ॥ २॥ तत्र दृष्ट्वा मूर्तिमद्भिश्छन्दोभिः परिवेष्टितम्। बालार्कप्रभया सम्यग्भासयन्तं सभागृहम् ॥ ३॥ मार्कण्डेयादिमुनिभिः स्तूयमानं मुहुर्मुहुः । सर्वार्थगोचरज्ञानं सरस्वत्या समन्वितम् ॥ ४॥ चतुर्मुखं जगन्नाथं भक्ताभीष्टफलप्रदम् । प्रणम्य दण्डवद्भक्त्या तुष्टाव मुनिपुङ्गवः ॥ ५॥ सन्तुष्टस्तं मुनिं प्राह स्वयम्भूर्वैष्णवोत्तमम् । किं प्रष्टुकामस्त्वमसि तद्वदिष्यामि ते मुने ॥ ६॥ इत्याकर्ण्य वचस्तस्य मुनिर्ब्रह्माणमब्रवीत् । त्वत्तः श्रुतं मया सर्वं पूर्वमेव शुभाशुभम् ॥ ७॥ इदानीमेकमेवास्ति श्रोतव्यं सुरसत्तम । तद्रहस्यमपि ब्रूहि यदि तेऽनुग्रहो मयि ॥ ८॥ प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः । दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ ९॥ परापवादनिरताः परद्रव्याभिलाषिणः । परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ १०॥ देहात्मदृष्टयो मूढा नास्तिका पशुबुद्धयः । मातापितृकृतद्वेषाः स्त्रीदेवाः कामकिङ्कराः ॥ ११॥ विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः । धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ १२॥ त्यक्तस्वजातिकर्माणः प्रायशः परवञ्चकाः। क्षत्रियाश्च तथा वैश्याः स्वधर्मत्यागशीलिनः ॥ १३॥ तद्वच्छूद्राश्च ये केचिद्ब्राह्मणाचारतत्पराः। स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञाननिर्भयाः ॥ १४॥ श्वशुरद्रोहकारिण्यो भविष्यन्ति न संशयः। एतेषां नष्टबुद्धीनां परलोकः कथं भवेत् ॥ १५॥ इति चिन्ताकुलं चित्तं जायते मम सन्ततम् । लघूपायेन येनैषां परलोकगतिर्भवेत्। तमुपायमुपाख्याहि सर्वं वेत्ति यतो भवान् ॥ १६॥ इत्यृषेर्वाक्यमाकर्ण्य प्रत्युवाचाम्बुजासनः । साधु पृष्टं त्वया साधो वक्ष्ये तच्छृणु सादरम् ॥ १७॥ पुरा त्रिपुरहन्तारं पार्वती भक्तवत्सला। श्रीरामतत्त्वं जिज्ञासुः पप्रच्छ विनयान्विता ॥ १८॥ प्रियायै गिरिशस्तस्यै गूढं व्याख्यातवान् स्वयम्। पुराणोत्तममध्यात्मरामायणमिति स्मृतम् ॥ १९॥ तत्पार्वती जगद्धात्री पूजयित्वा दिवानिशम्। आलोचयन्ती स्वानन्दमग्ना तिष्ठति साम्प्रतम् ॥ २०॥ प्रचरिष्यति तल्लोके प्राण्यदृष्टवशाद्यदा । तस्याध्ययनमात्रेण जना यास्यन्ति सद्गतिम् ॥ २१॥ तावद्विजृम्भते पापं ब्रह्महत्यापुरःसरम्। यावज्जगति नाध्यात्मरामायणमुदेष्यति ॥ २२॥ तावत्कलिमहोत्साहो निःशङ्कं सम्प्रवर्तते। यावज्जगति नाध्यात्मरामायणमुदेष्यति ॥ २३॥ तावद्यमभटाः शूराः सञ्चरिष्यन्ति निर्भयाः। यावज्जगति नाध्यात्मरामायणमुदेष्यति ॥ २४॥ तावत्सर्वाणि शास्त्राणि विवदन्ते परस्परम् ॥ २५॥ तावत्स्वरूपं रामस्य दुर्बोधं महतामपि । यावज्जगति नाध्यात्मरामायणमुदेष्यति ॥ २६॥ अध्यात्मरामायणसङ्कीर्तनश्रवणादिजम् । फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तम ॥ २७॥ तथापि तस्य माहात्म्यं वक्ष्ये किञ्चित्तवानघ। शृणु चित्तं समाधाय शिवेनोक्तं पुरा मम ॥ २८॥ अध्यात्मरामायणतः श्लोकं श्लोकार्धमेव वा। यः पठेत् भक्तिसंयुक्तः स पापान्मुच्यते क्षणात् ॥ २९॥ यस्तु प्रत्यहमध्यात्मरामायणमनन्यधीः। यथाशक्ति वदेद्भक्त्या स जीवन्मुक्त उच्यते ॥ ३०॥ यो भक्त्यार्चयतेऽध्यात्मरामायणमतन्द्रितः। दिने दिनेऽश्वमेधस्य फलं तस्य भवेन्मुने ॥ ३१॥ यदृच्छयापि योऽध्यात्मरामायणमनादरात्। अन्यतः शृणुयान्मर्त्यः सोऽपि मुच्येत पातकात् ॥ ३२॥ नमस्करोति योऽध्यात्मरामायणमदूरतः। सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ ३३॥ लिखित्वा पुस्तकेऽध्यात्मरामायणमशेषतः। यो दद्याद्रामभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ ३४॥ अधीतेषु च वेदेषु शास्त्रेषु व्याकृतेषु च । यत्फलं दुर्लभं लोके तत्फलं तस्य सम्भवेत् ॥ ३५॥ एकादशीदिनेऽध्यात्मरामायणमुपोषितः । यो रामभक्तः सदसि व्याकरोति नरोत्तमः ॥ ३६॥ तस्य पुण्यफलं वक्ष्ये शृणु वैष्णवसत्तम । प्रत्यक्षरं तु गायत्रीपुरश्चर्याफलं भवेत् ॥ ३७॥ उपवासव्रतं कृत्वा श्रीरामनवमीदिने । रात्रौ जागरितोऽध्यात्मरामायणमनन्यधीः। यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ ३८॥ कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः। आत्मतुल्यं धनं सूर्यग्रहणे सर्वतोमुखे ॥ ३९॥ विप्रेभ्यो व्यासतुल्येभ्यो दत्वा यत्फलमश्नुते। तत्फलं सम्भवेत्तस्य सत्यं सत्यं न संशयः ॥ ४०॥ यो गायते मुदाऽध्यात्मरामायणमहर्निशम्। आज्ञां तस्य प्रतीक्षन्ते देवा इन्द्रपुरोगमाः ॥ ४१॥ पठन् प्रत्यहमध्यात्मरामायणमनुव्रतः। यद्यत्करोति तत्कर्म ततः कोटिगुणं भवेत् ॥ ४२॥ तत्र श्रीरामहृदयं यः पठेत् सुसमाहितः । स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत् ॥ ४३॥ श्रीरामहृदयं यस्तु हनूमत्प्रतिमान्तिके। त्रिः पठेत् प्रत्यहं मौनी स सर्वेप्सितभाग्भवेत् ॥ ४४॥ पठन् श्रीरामहृदयं तुलस्यश्वत्थयोर्यदि। प्रत्यक्षरं प्रकुर्वीत ब्रह्महत्यानिवर्तनम् ॥ ४५॥ श्रीरामगीतामाहात्म्यं कृत्स्नं जानाति शङ्करः। तदर्धं गिरिजा वेत्ति तदर्धं वेद्म्यहं मुने ॥ ४६॥ तत्ते किञ्चित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते । यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ४७॥ श्रीरामगीता यत्पापं न नाशयति नारद। तन्न नश्यति तीर्थादौ लोके क्वापि कदाचन। तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा ॥ ४८॥ रामेणोपनिषत्सिन्धुमुन्मत्थ्योत्पादितं मुदा। लक्ष्मणायार्पितां गीतासुधां पीत्वाऽमरो भवेत् ॥ ४९॥ जमदग्निसुतः पुर्वं कार्तवीर्यवधेच्छया। धनुर्विद्यामभ्यसितुं महेशस्यान्तिके वसन् ॥ ५०॥ अधीयमानां पार्वत्या रामगीतां प्रयत्नतः । श्रूत्वा गृहीत्वाऽऽशु पठन्नारायणकलामगात् ॥ ५१॥ ब्रह्महत्यादिपापानां निष्कृतिं यदि वाञ्छति। रामगीतां मासमात्रं पठित्वा मुच्यते नरः ॥ ५२॥ दुष्प्;रतिग्रहदुर्भोज्यदुरालापादिसम्भवम्। पापं यत्तत्कीर्तनेन रामगीता विनाशयेत् ॥ ५३॥ शालग्रामशिलाग्रे च तुलस्यश्वत्थसन्निधौ। यतीनां पुरतस्तद्वत् रामगीतां पठेत्तु यः ॥ ५४॥ स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरम् ॥ ५५॥ रामगीतां पठन् भक्त्या यः श्राद्धे भोजयेद्द्विजान्। तस्य ते पितरः सर्वे यान्ति विष्णोः परं पदम् ॥ ५६॥ एकादश्यां निराहारो नियतो द्वादशीदिने। स्थित्वागस्त्यतरोर्मूले रामगीतां पठेत्तु यः। स एव राघवः साक्षात् सर्वदेवैश्च पूज्यते ॥ ५७॥ विना दानां विना ध्यानं विना तीर्थावगाहनम् । बहुना किमिहोक्तेन शृणु नारद तत्त्वतः। रामगीतां नरोऽधीत्य तदनन्तफलं लभेत् ॥ ५८॥ श्रुतिस्मृतिपुराणेतिहासागमशतानि च। अर्हन्ति नाल्पमध्यात्मरामायणकलामपि ॥ ५९॥ अध्यात्मरामचरितस्य मुनीश्वराय माहात्म्यमेतदुदितं कमलासनेन । यः श्रद्धया पठति वा शृणुयात् स मर्त्यः प्राप्नोति विष्णुपदवीं सुरपूज्यमानः ॥ ६०॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे अध्यात्मरामायणमाहात्म्यं सम्पूर्णम् ॥