मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले । समासीनं पराशक्तिविग्रहं गणनायकम् ॥  १॥ रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् । रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥  २॥ करुणारससुधाधारास्रवदक्षित्रयान्वितम् । अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥  ३॥ पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् । नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥  ४॥ सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् । पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥  ५॥ ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् । महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥  ६॥ नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् । पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम् ॥  ७॥ अखण्डकोटिब्रह्माण्डामण्डलेश्वरमव्ययम् । रदनाक्षरसम्पूर्णमन्त्रराजस्वरूपिणम् ॥  ८॥ गिरिव्याहृतिवर्णात्ममन्त्रतत्वप्रदर्शकम् । अरुणारुणतनुच्छायमहाकामकलात्मकम् ॥  ९॥ महागोप्यमहाविद्या प्रकाशितकलेबरम् । चिच्छिवं चिद्भवं शान्तं त्रिगुणादिविवर्जितम् ॥ १०॥ अष्टोत्तरशताभिख्यकलान्यासविधिप्रियम् । चिदाकारमहाद्वीपमध्यवाससुविग्रहम् ॥ ११॥ चिदब्धिमथनोत्पन्नचित्सारघनविग्रहम् । वाचामगोचरं शान्तं शुद्धचैतन्यरूपिणम् ॥ १२॥ मूलकन्दस्थचिद्देशनवताण्डवपण्डितम् । षडम्बुरुहसंस्थायिपरचिव्द्योमभासुरम् ॥ १३॥ अकारादिक्षकारान्तवर्णलक्षितचित्सुखम् । अकाराक्षरनिर्दिष्टप्रकाशमयविग्रहम् ॥ १४॥ हकाराख्यविमर्शात्मप्रभादीप्तजगत्त्रयम् । महाहंसजपध्यानविधिज्ञातस्वरूपकम् ॥ १५॥ सदोदितमहाप्रज्ञाकारं संसारतारकम् । मोक्षलक्ष्मीप्रदातारं कालातीतमहाप्रभुम् ॥ १६॥ नामरूपादिसम्भिन्ननित्यपूर्णचिदुत्तमम् । प्रत्यग्भूतमहाप्रज्ञागात्रगोचरविग्रहम् ॥ १७॥ महाकुण्डलिनीरूपं षट्च्क्रनगरेश्वरम् । अप्राकृतमहादिव्यचैतन्यात्मस्वरूपिणम् ॥ १८॥ नादबिन्दुकलातीतं कार्यकारणवर्जितम् । षडम्बुरुहचक्रान्तः स्फुरत्सौदामिनीप्रभम् ॥ १९॥ तत्त्वमस्यादिवाक्यार्थपरिबोधनपण्डितम् । ब्रह्मादिकीटपर्यन्तव्याप्तसंवित्सुधारसम् ॥ २०॥ इच्छाज्ञानक्रियानन्दसर्वतन्त्र स्वतन्त्रिणम् । हृदयग्रन्थिभिद्विद्यादर्शनोत्सुकमानसम् ॥ २१॥ पञ्चकृत्यपरेशानं महात्रैपुरविग्रहम् । श्रीचक्रराजमध्यस्थशून्यग्राममहेश्वरम् ॥ २२॥ ब्रह्मविद्यास्वरूपश्रीललितारूपधारिणम् । वशिन्याद्यावृतं साध्यं अद्वयानन्दवर्धनम् ॥ २३॥ आदिशङ्कररूपेशदक्षिणामूर्तिपूजितम् । असंस्पृष्टमहाप्रज्ञाभिख्याद्वैतस्थितिप्रभम् ॥ २४॥ एवं सञ्चितयेद्देवं उच्छिष्टगणनायकम् । नीलतारासमेतं तु सच्चिदानन्दविग्रहम् ॥ २५॥

Leave a Reply

Your email address will not be published. Required fields are marked *

Open chat
सहायता
Scan the code
KARMASU.IN
नमो नमः मित्र
हम आपकी किस प्रकार सहायता कर सकते है