अथ तत्त्वाचमनम्-
ह्रीं आत्मतत्त्वं शोधयामि नमः स्वाहा ।
क्लीं विद्यातत्त्वं शोधयामि नमः स्वाहा ।
ह्सौं शिवतत्त्वं शोधयामि नमः स्वाहा ।
ह्रीं क्लीं ह्सौं सर्वतत्त्वं शोधयामि नमः स्वाहा ॥

(प्रत्यूहशान्तिः । प्राणायामः । सङ्कल्पः ।)
ह्रीं अस्य श्रीसुब्रह्मण्यद्वादशाक्षरमहामन्त्रस्य
अमृताकर्षणदक्षिणामूर्तिः ऋषिः । जगतीच्छान्दः ।
श्रीप्रसन्नज्ञानसुब्रह्मण्यो देवता । ह्रीं बीजम् । ह्सौं शक्तिः ।
क्लीं कीलकम् । श्रीप्रसन्नज्ञानसुब्रह्मण्यप्रसादसिद्ध्यर्थे
जपे विनियोगः ।
ऋष्यादिन्यासः -
ह्रीं अमृताकर्षणदक्षिणामूर्तये नमः शिरसि ।
जगतीच्छान्दसे नमो मुखे ।
श्रीप्रसन्नज्ञानसुब्रह्मण्याय देवतायै नमो हृदये ।
ह्रीं बीजाय नमो गुह्ये ।
ह्सौं शक्तये नमः स्तनयोः ।
क्लीं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गे ॥

(मूलेन करौ संशोध्य)
करन्यासः -
ॐ अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ऐं मध्यमाभ्यां नमः ।
क्लीं अनामिकाभ्यां नमः । ॐ कनिष्ठिकाभ्यां नमः ।
ह्सौं करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः -
ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् ।
क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥

ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः ।
ध्यानम्-
ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ।
कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलैश्शोभितं
काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥

पञ्चोपचारपूजा -
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं अग्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ।
मूलमन्त्रः- ॐ ह्रीं ऐं क्लीं ॐ ह्सौं शरवणभव ॥

जपान्ते पुनर्हृदयाद्यङ्गन्यासाः ।
(At the end of Japa, once again Hrdayaadyanganyas as above)
ह्रीं भूर्भुवस्सुवरों इति दिग्विमोकः ।
(ध्यानम् । लमित्यादि पूजा । जपसमर्पणम् ।)

इति श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः सम्पूर्णः ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Open chat
सहायता
Scan the code
KARMASU.IN
नमो नमः मित्र
हम आपकी किस प्रकार सहायता कर सकते है