अनसूयात्रिसम्भूतो दत्तात्रेयो दिगम्बरः ।
स्मर्तृगामी स्वभक्तानामुद्धर्ता भव सङ्कटात् ॥ १॥

दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् ।
ददौ श्रीदत्तदेवः स दारिद्र्याच्छ्रीप्रदोऽवतु ॥ २॥

दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं सुतम् ।
योऽभूदभीष्टदः पातु स नः सन्तानवृद्धिकृत् ॥ ३॥

जीवयामास भर्तारं मृतं सत्या हि मृत्युहा ।
मृत्युञ्जयः स योगीन्द्रः सौभाग्यं मे प्रयच्छतु ॥ ४॥

अत्रेरात्मप्रदानेन यो मुक्तो भगवानृणात् ।
दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये ॥ ५॥

जपेच्छ्लोकमिमं देवपित्रर्षिपुन्नृणापहं ।
सोऽनृणो दत्तकृपया परम्ब्रह्माधिगच्छति ॥ ६॥

अत्रिपुत्रो महातेजो दत्तात्रेयो महामुनिः ।
तस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ७॥

नमस्ते भगवन्देव दत्तात्रेय जगत्प्रभो ।
सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥ ८॥

अनसूयासुत श्रीश जनपातकनाशन ।
दिगम्बरं नमो नित्यं तुभ्यं मे वरदो भव ॥ ९॥

श्रीविष्णोरवतारोऽयं दत्तात्रेयो दिगम्बरः ।
मालाकमण्डलूच्छूलडमरूशङ्खचक्रधृक् ॥ १०॥

नमस्ते शारदे देवि सरस्वति मतिप्रदे ।
वस त्वं मम जिह्वाग्रे सर्वविद्याप्रदा भव ॥ ११॥

दत्तात्रेयं प्रपद्ये शरणमनुदिनं दीनबन्धुं मुकुन्दम् ॥

नैर्गुण्यं सन्निविष्टं पथि परमपदं बोधयन्तं मुनीनाम् ॥

भस्माभ्यङ्गं जटाभिः सुललितमुकुटं दिक्पटं दिव्यरूपं
सह्याद्रौ नित्यवासं प्रमुदितममलं सद्गुरुं चारुशीलम् ॥ १२॥

इति श्रीवासुदेवानन्दसरस्वतीविरचिताः मन्त्रश्लोकाः सम्पूर्णाः ।



Leave a Reply

Your email address will not be published. Required fields are marked *

Open chat
सहायता
Scan the code
KARMASU.IN
नमो नमः मित्र
हम आपकी किस प्रकार सहायता कर सकते है