सूर्यनमस्कार मन्त्राः

ॐ ध्येयः सदा सवितृमण्डल मध्यवर्ति नारायणः सरसिजासन्संनिविष्टः । केयूरवान मकरकुण्डलवान किरीटी हारी हिरण्मयवपुधृतशंखचक्रः ॥ ॐ ह्रां मित्राय नमः । ॐ ह्रीं रवये नमः । ॐ ह्रूं सूर्याय नमः । ॐ ह्रैं भानवे नमः । ॐ ह्रौं खगाय नमः । ॐ…

सुब्रह्मण्यषडक्षरमन्त्रः

अस्य श्रीसुब्रह्मण्यषडक्षरमहामन्त्रस्य, अगस्त्यः ऋषिः । अनुष्टुप्छन्दः, सुब्रह्मण्यो देवता, वं बीजं, नमः शक्तिः, वचद्भुवे कीलकम् । श्रीसुब्रह्मण्यप्रीत्यर्थे जपे विनियोगः ॥ करन्यासः - वां अङ्गुष्ठाभ्यां नमः । वीं तर्जनीभ्यां नमः । वूं मध्यमाभ्यां नमः । वैं अनामिकाभ्यां नमः । वौं कनिष्ठिकाभ्यां नमः…

श्रीसुब्रह्मण्यपञ्चदशाक्षरमन्त्रः

अस्य श्रीसुब्रह्मण्यपञ्चदशाक्षरमहामन्त्रस्य, ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीसुब्रह्मण्यो देवता । ॐ श्रीं ह्रीं क्लीं इति बीजम् । शरवणभव इति शक्तिः । ॐ ऐं ईं नं ळं सौः इति कीलकम् । श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः - हृदयादि न्यासः (१)…

श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः

अथ तत्त्वाचमनम्- ह्रीं आत्मतत्त्वं शोधयामि नमः स्वाहा । क्लीं विद्यातत्त्वं शोधयामि नमः स्वाहा । ह्सौं शिवतत्त्वं शोधयामि नमः स्वाहा । ह्रीं क्लीं ह्सौं सर्वतत्त्वं शोधयामि नमः स्वाहा ॥ (प्रत्यूहशान्तिः । प्राणायामः । सङ्कल्पः ।) ह्रीं अस्य श्रीसुब्रह्मण्यद्वादशाक्षरमहामन्त्रस्य अमृताकर्षणदक्षिणामूर्तिः ऋषिः ।…

श्रीसुब्रह्मण्य-एकचत्वारिंशदक्षरो मन्त्रः

अस्य श्रीसुब्रह्मण्यमहामन्त्रस्य, ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीसुब्रह्मण्यो देवता । शरजन्मा अक्षयो बीजम् । शक्तिधरोऽक्षयः कार्तिकेयः शक्तिः । क्रौञ्चधरः कीलकम् । शिखिवाहनः कवचम् । सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः - अं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने नमः संहृतायेष्टचित्तात्मने भास्वरूपाय - अङ्गुष्टाभ्यां…

सप्तशती सिद्ध सम्पुटमन्त्राः

श्रीदुर्गा-सप्तशती के कुछ सिद्ध सम्पुट मन्त्र १) सामूहिक कल्याण के लिये देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ २) विश्व के अशुभ तथा भय का नाश करने के लिये यस्याः प्रभावमतुलं भगवानन्तो…

श्रीसन्तानगोपालकृष्णमन्त्रम्

सन्तानगोपालः - नीलवर्णः पिबन्तं च स्तनं मातुः मुखं संवीक्ष्य सुस्मितम् । अङ्गुल्यग्रे स्तनं चान्यं स्पृशन्तं च मुहुर्मुहुः ॥ यशोदाङ्गस्थितं गोपं ध्यायेत्पुत्रप्रदं सदा ॥ (मूलमन्त्रेण प्राणानायम्य - श्रीसन्तानगोपालकृष्णप्रीत्यर्थे श्रीसन्तानगोपालमन्त्रजपं करिष्ये - इति सङ्कल्प्य -) ॐ पूर्णज्ञानात्मने हृदयाय नमः । ॐ पूर्णैश्वर्यात्मने…

श्रीशान्तादुर्गा प्रणाममन्त्रः

आदिशक्तिर्महामाये सच्चिदानन्द(स्व)रूपिणी । पालनार्थं स्वभक्तानां शान्तादुर्गाभिधामता ॥ १॥ नमो दुर्गे महादुर्गे नवदुर्गास्वरूपिणी । कैवल्यवासिनी श्रीमच्छान्तादुर्गे नमोऽस्तु ते ॥ २॥ शान्त्यै नमोऽस्तु शरणागतरक्षणायै कान्त्यै नमोऽस्तु कमनीयगुणाश्रयायै । क्षात्यै नमोऽस्तु दुरितक्षयकारणायै धान्त्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥ ३॥ शान्तादुर्गे नमस्तुभ्यं सर्वकामार्थसाधिके । मम सिद्धिमसिद्धिं…

श्रीवेदव्यासमन्त्राः

१. श्रीवेदव्यासमन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः । वेदव्यासो देवता । श्रीवेदव्यासमन्त्र जपे विनियोगः । ध्यानश्लोकः - विज्ञानरोचिः परिपूरितान्तर्बाह्याण्डकोशं हरितोपलाभम् । तर्काभयेतं विधिशर्वपूर्वगीर्वाण विज्ञानद मानतोऽस्मि ॥ मन्त्रः - ॐ व्यां वेदव्यासाय नमः ॥ २. श्रीव्यासगायत्री मन्त्रस्य ब्रह्माऋषिः । गायत्री छन्दः ।…

रामनमस्काराष्टकमन्त्राः (आनन्दरामायाअणान्तर्गता)

श्रीराम नमस्काराष्टकमन्त्राः ॐ नमो भगवते श्रीरामाय परमात्मने । सर्वभूतान्तरस्थाय ससीताय नमो नमः ॥ १॥ ॐ नमो भगवते श्रीराम रामचन्द्राय वेधसे । सर्ववेदान्तवेद्याय ससीताय नमो नमः ॥ २॥ ॐ नमो भगवते श्रीविष्णवे परमात्मने । परात्पराय रामाय ससीताय नमो नमः ॥ ३॥…

मृतसंजीविनी मन्त्रः

। अथ मृतसंजीविनी मन्त्रः । शुक्र ऋषिः, गायत्री छन्दः, मृतसंजीवनी देवी देवता । ह्रीं बीजं, स्वाहा शक्तिः, हंसः कीलकं, न्यासं मूलेन । विनियोगः समाख्यात स्त्रिचतुश्चैककं पुनः । षट् चतु द्विककेनैव षडंगानि समाचरेत् । १ ह्रीं हंसः, २ संजीविनि, ३ जूं,…

मन्त्रात्मकश्लोकाः (वासुदेवानन्दसरस्वतीविरचितम्)

अनसूयात्रिसम्भूतो दत्तात्रेयो दिगम्बरः । स्मर्तृगामी स्वभक्तानामुद्धर्ता भव सङ्कटात् ॥ १॥ दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् । ददौ श्रीदत्तदेवः स दारिद्र्याच्छ्रीप्रदोऽवतु ॥ २॥ दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं सुतम् । योऽभूदभीष्टदः पातु स नः सन्तानवृद्धिकृत् ॥ ३॥ जीवयामास भर्तारं मृतं सत्या हि मृत्युहा…