अस्य श्रीसुब्रह्मण्यमहामन्त्रस्य,
ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीसुब्रह्मण्यो देवता ।
शरजन्मा अक्षयो बीजम् । शक्तिधरोऽक्षयः कार्तिकेयः शक्तिः ।
क्रौञ्चधरः कीलकम् । शिखिवाहनः कवचम् ।
सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः -
अं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने नमः
संहृतायेष्टचित्तात्मने भास्वरूपाय -
         अङ्गुष्टाभ्यां नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय -
         तर्जनीभ्यां नमः ।
ॐ हं षण्मुखशरजन्मने । शुभलक्षणाय, शिखिवाहनाय -
         मध्यमाभ्यां नमः ।
ॐ णं कृशानुसम्भवाय कविचने कुक्कुटध्वजाय -
         अनामिकाभ्यां नमः ।
ॐ भं कन्दपकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय -
         कनिष्ठिकाभ्यां नमः ।
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय -
         करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः -
ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् ।
क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥

ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः ।
ध्यानं-
वन्दे षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ।
कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं
काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥

ध्यायामीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं
खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् ।
वज्रं शक्तिमसिं च शूलमभयं दोर्भिधृतं षण्मुखं
ध्यायेच्चित्तमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥

(मूलमन्त्रः) ॐ ह्रीं श्रीं क्लीं औं सौः
शरहणभवरहणभवश - हणभवशर - णभवशरह -
भवशरहण - वशरहणभ
कर-हृदयादिन्यासः । दिग्विमोकः । ध्यानम् । लमित्यादि पञ्चपूजा ।
(Taking the above 6 names, - a) AnguShThAbhyAM namaH, b) Hrdayaaya namaH)
जपसमर्पणम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Open chat
सहायता
Scan the code
KARMASU.IN
नमो नमः मित्र
हम आपकी किस प्रकार सहायता कर सकते है